रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1018, कुल 1049 में से
संदर्भ में पढ़ें९४४ रामायणमीमांसा परिशिष्ट
शतांशं वा सहस्रांशमन्यथा निष्फलं भवेत् ।
सर्वदेवस्वरूपाय पराय परमेष्ठिने ॥
श्रीराम सेनायुक्ताय विष्वक्सेनाय ते नमः ।
वामतो रामचन्द्राय तीर्थक्लिन्नं समर्पयेत् ॥
गणेशे वक्रतुण्डाय सूर्ये चण्डांशवेऽर्पयेत् ।
शक्तावुच्छिष्टचाण्डाल्यै शिवे चण्डेश्वराय च ॥
हस्तावासं सकर्पूरं मुकुटं भूषणानि च ।
कुण्डलादीनि शङ्खादिदशमुद्राः प्रदर्शयेत् ॥”
प्रार्थना— “ध्येयं सदापरिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरञ्चिनुतं शरण्यम् ।
भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद् वन्दे महापुरुष ते चरणारविन्दम् ॥
यस्यामलं नृपसदस्सु यशोऽधुनापि गायन्त्यघघ्नमृषयो दिग्भेन्द्रपट्टम् ।
तं नाकपालवसुपालकिरीटजुष्टं पादाम्बुजं रघुपतेः शरणं प्रपद्ये ॥”
प्रदक्षिणा— “नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।
उत्तमश्लोकधुर्याय न्यस्तदण्डाचिताङ्घ्रये ॥
सप्तद्वीपधरादानपुण्यं विद्धि पदे पदे ।
प्रदक्षिणं तु यः कुर्याद्धरेर्भक्त्या समन्वितः ॥”
श्रीरामोत्तरतापनीमन्त्रैः श्रीरामस्तुतिः—‘अथ हैनँ भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः स्तुतः श्रीराम-
चन्द्रः प्रीतो भवति । स्वात्मानं दर्शयति तन्नो ब्रूहि भगवन्निति स होवाच याज्ञवल्क्यः पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं
शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति—
“विश्वाधारं महाविष्णुं नारायणमनामयम् ।
पूर्णानन्दैकविज्ञानं परं ज्योतिःस्वरूपिणम् ॥
मनसा संस्मरन् ब्रह्मा तुष्टाव परमेश्वरम् ।”
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् अद्वैतपरमानन्द आत्मा यत्र परं ब्रह्म भूर्भुवः स्वस्तस्मै वै नमो नमः ।
( १ ) यथा प्रथममन्त्रोक्तौ आद्यन्तौ तथा सर्वमन्त्रेषु ज्ञातव्यौ । यो हवै श्रीरामचन्द्रः स भगवान् यश्चाखण्डैकरसात्मा
भूर्भुवः स्वस्तस्मै वै नमो नमः । ( २ ) यो ह वै श्रीरामचन्द्रः स भगवान् परमानन्दरसामृतं भूर्भुवः
स्वस्तस्मै वै नमो नमः । ( ३ ) यो ह वै श्रीरामचन्द्रः स भगवानव्ययस्तारकं ब्रह्म भूर्भुवः स्वस्तस्मै वै नमो
नमः । ( ४ ) यो ह वै श्रीरामचन्द्रः स भगवान् विष्णुरीश्वरो यः सर्वदेवतात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ।
( ५ ) यो ह वै श्रीरामचन्द्रः स भगवान् अन्ये सर्वे वेदाः साङ्गाः सशाखाः सपुराणा भूर्भुवः स्वस्तस्मै वै नमो नमः ।
( ६ ) यो ह वै श्रीरामचन्द्रः स भगवान् अन्ये पञ्चाग्नयो भूर्भुवः स्वस्तस्मै वै नमो नमः । ( ७ ) यो ह वै श्रीराम-
चन्द्रः स भगवान् अन्याः सप्तव्याहृतयो भूर्भुवः स्वस्तस्मै वै नमो नमः । ( ८ ) यो ह वै श्रीरामचन्द्रः स भगवानन्यो
जीवात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः । ( ९ ) यो ह वै श्रीरामचन्द्रः स भगवानन्यः सर्वभूतान्तरात्मा भूर्भुवः
स्वस्तस्मै वै नमो नमः । ( १० ) यो ह वै श्रीरामचन्द्रः स भगवानन्ये मत्स्यकूर्मवराहाद्या भूर्भुवः स्वस्तस्मै वै नमो
नमः । ( ११ ) यो ह वै श्रीरामचन्द्रः स भगवानन्यः प्राणो भूर्भुवः स्वस्तस्मै वै नमो नमः । ( १२ ) यो ह वै