सामग्री पर जाएँ
सर्वकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 1013, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 1013

संख्या १ रामोपासना ९३९
करयोर्योजयत्येव कनिष्ठामूलदेशतः ।
अङ्गुष्ठाग्रे तु निःक्षिप्य महायोनिः प्रकीर्तिता ॥
मध्यमामध्यगे कृत्वा कनिष्ठेऽङ्गुष्ठरोधिते ।
तर्जन्यौ दण्डवत्कुर्यात् मध्यमोपर्यनामिके ॥
एषा सा प्रथमा मुद्रा सर्वसंक्षोभकारिणी ।
एतस्या एव मुद्राया मध्यमे सरले तथा ॥
ध्रियेते परमेशानि सर्वविद्राविणी परा ।
मध्यमातर्जनीभ्यां च कनिष्ठानामिके समे ॥
अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि ।
अङ्गुष्ठं तु नियुञ्जीत कनिष्ठानामिकोपरि ॥
इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षिणी मता ।
पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती ॥
परिवर्तक्रमेणैव मध्यमे तदधोगते ।
क्रमेण देवि तेनैव कनिष्ठानामिकादयः ॥
संयोज्या निबिडाः सर्वा अङ्गुष्ठावग्रदेशतः ।
मुद्रेयं परमेशानि सर्ववश्यकरी मता ॥
सम्मुखौ तु करौ कृत्वा मध्यमा मध्यमेन्त्यजे ।
अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ॥
दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशिकौ ।
मुद्रैवोन्मादिनी नाम क्लेदिनीं सर्वयोषिताम् ॥ उन्मादिनी ।”
“अस्यां त्वनामिकायुग्ममधः कृत्वाङ्कुशाकृति ।
तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ॥
इत्थं महाङ्कुशा मुद्रा सर्वकामार्थसाधनी ।
दक्षिणभुजमध्यस्थे कूर्परे च यथाविधि ॥
बाहुं कृत्वा महादेवि हस्तौ सम्परिवर्तयेत् ।
कनिष्ठानामिके देवि मुक्ते तेन क्रमेण च ॥
· तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ।
अङ्गुष्ठौ च महादेव सरलावपि कारयेत् ॥
इयं सा खेचरी मुद्रा पार्थिवस्थानयोजिता ।
परिवृत्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये ।
तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत् ततः ।
अध कनिष्ठिकापृष्ठे मध्यमे विनियोजयेत् ॥
अथैव कुटिले कृत्वा तर्जन्यूपरिसंस्थिते ।
अनामिकामध्यगते तथैव हि कनिष्ठिके ॥
सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः ।
एषा तु प्रथमा मुद्रा योनिमुद्रेति संज्ञिता ॥