राजपूताने का इतिहास (मेवाड़ राज्य का इतिहास व वीर गाथाएँ)
History of Rajputana & Mewar by Gaurishankar Ojha
महामहोपाध्याय पं. गौरीशंकर हीराचन्द ओझा द्वारा
पृष्ठ 180, कुल 534 में से
संदर्भ में पढ़ेंमहारावत जसवन्तसिंह १३५
'प्रतापगढ़ राज्य की ख्यात'१, बांकीदास-कृत 'ऐतिहासिक बातें'२,
नानादेशनिवासिनां क्षितिभृतां भृत्यैश्च मुख्यैर्यदा
नत्वोपायनमग्रतो विनिहितं श्रीदेवलेन्द्रप्रभोः ॥ ३ ॥
दृष्ट्वा क्रोधहुताशने निपतितः श्रीचित्रकूटाधिपोऽ-
प्येतत्कर्णसूतो बभूव बलिनां कर्णेषु कर्णेजपः ।
वीरः कोऽपि ममास्ति सांप्रतममुं यो हन्ति मध्येसभं
विश्वासेन समुत्थितोऽनुचितकृद्रामः स्वयं सज्जितः ॥ ४ ॥
दत्ताज्ञोऽथ जगाम देवलपुरं पन्थानमग्रे ततो
बध्वा चोरसखश्च रामनृपतिर्विश्वांसघातोत्सुकः ।
दृष्ट्वा श्रीजसवंतमागतमयं खङ्गैकमित्रं रणे
निस्त्रिंशैः प्रतिबोधयन्सचकितः संप्राप तस्यान्तिकम् ॥ ५ ॥
संख्यं तत्र तयोर्भून्मिलितयोरन्योन्यमत्यद्भुतं
वीराणां तदनन्तरं कथमिदं को वेति कस्यासि रे ।
भूयः श्रीजसवंतसिंहविभूनेत्येक्तुं तदोवाचसः
कुत्तो राणनृपोऽहमस्मि सुभटो रामोऽरिहिंसाग्रणीः ॥ ६ ॥
संग्रामे किल भारते बहुतरं कृत्वा रणं वीर्यवान्
गाङ्गेयो विरराम चार्जुनमपि दृष्ट्वा शिखण्डान्वितम् ।
खड्गेनैव हतं हि रे तव यशस्तत्सानुमया सङ्गरे
विश्वासोपहतस्य दुर्मुख मुखं नालोकनीयं च ते ॥ ७ ॥
पश्चान्माहकुमारकेण बहुभिर्विक्रान्तमन्तर्लस-
न्मानेन प्रभुणा भटैरथ तदा भग्नः स रामः स्वयम् ।
तच्छ्रुत्वाऽऽशु चुकोप राणनृपतिर्निष्कासयामास तं
देशानम्लेच्छपुरेषु खेलतितरामद्याप्यगस्तीशवत् ॥ ८ ॥
सर्ग ८ ।
( १ ) प्रतापगढ़ राज्य की एक पुरानी ख्यात; पृ० ७ ।
( २ ) संख्या ३३७, १११५, १४६६-१६०१ ।