राजपूताने का इतिहास (मेवाड़ राज्य का इतिहास व वीर गाथाएँ)
History of Rajputana & Mewar by Gaurishankar Ojha
महामहोपाध्याय पं. गौरीशंकर हीराचन्द ओझा द्वारा
पृष्ठ 142, कुल 534 में से
संदर्भ में पढ़ेंमहारावत विक्रमसिंह ६६
की सेना का मुक़ाबला हुआ । चौहानों ने बड़ी वीरता से युद्ध कर मही
नदी को मृत्यु-क्षेत्र बनाया और अंत में उसने महारावल आसकरण से
बांसवाड़ा छुड़ाकर प्रतापसिंह को दे दिया'।”
(१) अभूदथ क्षत्रकुलाभिमानी बीकाभिधेयः किल तस्य सूनुः ।
यत्खड्गधाराऽभिहतोऽरिवर्गो महीतटे खेलति भूतवर्गैः ॥ १ ॥
पुराऽऽसकर्णः किल रावलोऽभूत्प्रतापसिंहेन युयोध यत्र ।
वंशालयाधीश्र्वरधर्मबन्धुः समागतो देवगिरेर्महीशः ॥ ३ ॥
महाहवं तत्र तयोर्बभूव महीतटेषु प्रसभं समेषु ।
परस्परं प्रासफलैः प्रजघ्नुश्चौहानभूपा रणगीतगीताः ॥ ४ ॥
समुच्छलत्कच्छतुरङ्गमस्थः स्फुरत्स्फुलिङ्गावलिखड्गघातैः ।
त्रुट्यत्तनुत्रान् लसदश्ववारान् रणेऽरिवीरानकरोत्स वीकः ॥ ५ ॥
भिन्नाः पतन्तः करवालिकामिः समुच्छलद्रक्तचलत्प्रवाहाः ।
चौहान बेहोल (?) गणारणेऽस्मिन्नन्योन्यमेषां घटितं प्रचक्रुः ॥ ७ ॥
तीरेषु मह्याः पतिताः कबन्धाभीमा विरेजुः करवालहस्ताः ।
सुखं शयानाः किल नीरमध्याद्विनिर्गता मद्गुरबालकाः किम् ॥ १२ ॥
रणस्थलीभूपतिरासकर्णस्तत्याज बीकाभुजदण्डभीरुः ।
चलत्किरीटः स्फुरदश्ववारश्चौहानवर्गोऽभिमुखी बभूव ॥ १४ ॥
जघ्नुः शितैः प्रासफलैः सखेटाश्चौहानभूपा रणरङ्गमत्ताः ।
समुल्लसद्बाहुकरालखड्गाः सुशोणनेत्रा धृतवर्मदेहाः ॥ १५ ॥
सन्त्रासयन्यः किल दिग्गजालीर्दम्मामकानां ध्वनिभिः प्रवृद्धैः ।
चौहानभूपैश्चतुरङ्गसैन्यो वीकानरेन्द्रोऽपि युयोध भूयः ॥ १६ ॥
क्षेत्रं प्रतापाय ददौ प्रतप्तो वीकाभुजादण्डलसत्प्रतापैः ।
इत्युक्तवान् सन्निहितः स्ववर्गो मह्याः परं पारमुपाससाद ॥ २० ॥