सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७७
इतरेष्वात्मशब्दस्तु सोपचारः प्रयुज्यते ।
तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥
सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।
परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततस्मृतः ॥
इति पाद्मे ।
व्याख्येयम् । अत्र ब्रह्मावेशेन सहोत्पन्ने चन्द्रे निरुक्तसम्भवशब्दो मु-
ख्यः । साक्षाद्विष्णुरुद्रांशत्वेन तत्सम्भूतयोर्दत्तदुर्वाससोस्तु छत्रिन्या-
येनामुख्य इति द्रष्टव्यम् । यद्यपि “अत्रेः पत्न्यनसूया त्रीन् जज्ञेऽति
यशसः सुतान् । दत्तं” इति भागवतपाठः, तथाऽप्यनुव्याख्याने एवं
पठितत्वात्तथैव सुधायां व्याख्यातत्वात्तदन्यकल्पीयं पाठान्तरं भवि-
ष्यतीत्यदोषः । अस्यापीत्युपदिश्यत इत्यनेनान्वयः । चेतनस्त्विति पा-
द्मवाक्यम् । ‘प्रभो’ इति कस्य चित्सम्बोधनम् । तत्रेति शेषः । आ-
द्यस्तुशब्दो विशेषार्थे । द्वितीयोऽवधारणे । तथा च—‘जीवाः ब्रह्मा-
दयः प्रोक्ताः आत्मा तु’ तच्छब्दमुख्यवाच्यस्तु ‘जनार्दनो’ विष्णुः
‘एकः’ एव प्रोक्तः प्रमाणेषु । ‘इतरेषु’ ब्रह्मादिषु ‘आत्मशब्दः सोप-
चारः’ परममुख्यवृत्त्यपेक्षया हीनवृत्तियुक्त इति ज्ञानिभिरभिधीयत
इत्यर्थः । कुतस्तस्यैवात्मत्वं नान्येषामित्यत आह—तस्येति । यतः
‘तस्य’ निर्गुणस्य आत्मनो ‘ज्ञानान्मोक्षो’ भवतीति “यस्यानुवित्तः”
( बृ. उ. ४-४-१३. ) इत्यादौ ‘उदाहृतः’ उक्तः अतोऽयमात्मा निर्गुणो
विष्णुरेव नान्यः। कुतः? तस्यैव विष्णोर्निर्गुणस्य मोक्षदातृत्वसम्भवात्,
अन्येषां तदसम्भवादित्यर्थः । आत्मज्ञानान्मोक्षोपदेशोऽपि कुतो नेतरे-
षामात्मत्वं तेषामपि मोक्षदातृत्वसम्भवादित्यत आह—सगुणा इति ।
तुरवधारणे । तथाच—‘अपरे’ विष्णोरन्ये ब्रह्मादयो यतः ‘सगुणाः’
सत्त्वादिगुणबद्धा एव न स्वतस्तद्विधुराः अतः ‘तज्ज्ञानान्नैव’ सर्वथा
‘मुच्यते’ अधिकारीत्यर्थः, गुणबद्धात्मविज्ञानात् गुणबन्धनिवृत्तिरूप-
मोक्षायोगादिति भावः । ननु विष्णावपि निर्गुणत्वेनास्तु मोक्षदातृत्व-
सम्भावना, तन्निश्चयस्तु कुत इत्यत आह—परो हीति । ‘हि’ यस्मात्
‘विष्णुःपरः’ स्वतन्त्रः । तत्त्वप्रदीपरीत्या सर्वोत्तम इति वा, ‘पुरुषः’
पूर्णः ‘तस्मान्मोक्षस्ततो’ विष्णोर्भवेदेवेति स्मृतः स्मृत्युक्त इत्यर्थः ।
‘इति पाद्मे’ इत्यस्यापि इत्युपदिश्यत इति पूर्वेणान्वयः ॥ ७ ॥

७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २२ ) सू-ॐ ॥ हेयत्वावचनाच्च ॥ ॐ ॥ ८ ॥
'तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ ।
अमृतस्यैष सेतुः ( मुं.उ. २-२-५. ) इत्यन्येषां हेयत्ववच-
नादस्याहेयत्ववचनाच्च गौण आत्मा ॥
( २३ ) सू-ॐ ॥ स्वाप्ययात् ॥ ॐ ॥ ९ ॥
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ (बृ.उ.५-१-१०.)
( २२ ) युक्त्यन्तरेणात्मशब्दादितो न गौण इत्याह सूत्रकृत्-हेय-
त्वेति ॥ अत्र हेयत्वं नाम मोक्षार्थे प्राधान्येन ज्ञेयत्वेनाविहितत्वम् । त-
था च-न केवलं तन्निष्ठस्य मोक्षोपदेशात्, किन्तु “तमेवैकम्” इति
श्रुतौ आत्मनो हेयत्वावचनात्, प्रत्युत 'जानथ' इत्यहेयत्ववचनात्, जीव-
स्य च “अन्या वाचो विमुञ्चथ” इति मुमुक्षुभिर्हेयत्ववचनाच्चेति
सूत्रवृत्तिभिप्रेत्य सूत्रं व्याचष्टे-तमिति । हे ऋषयः 'तं' आत्मानं
विष्णुं 'एव एकं' प्रधानं 'जानथ' जानीध्वम् । 'अन्याः' जीवादि-
विषयिणीः 'वाचः विमुञ्चथ' त्यजत, प्राधान्येन विष्ण्वितरान् न
जानीध्वमित्यर्थः । 'जानथ आत्मानं' इति विश्लेषो विष्णोः सर्वेभ्यो
विलक्षणत्वप्रदर्शनार्थः । विकरणव्यत्ययस्तु छान्दसः । अमृतस्येत्येक-
वचनं समुदायविवक्षया । तथा च-‘अमृतस्य’ मुक्तवर्गस्य ‘एषः’
विष्णुः 'सेतुः' मुख्याश्रय इत्यर्थः । 'इति' इत्येवंरूपायां मुण्डकश्रु-
तौ 'अन्येषाम्' जीवानां 'हेयत्ववचनात्' इत्यनेन चशब्दसमुच्चेयं द-
र्शितम् । सौत्रनञो व्यत्यासेन अन्वयम् अभिप्रेत्य समुच्चेयान्तरमाह-अ-
स्य विष्णोरहेयत्वेति । चशब्दः समुच्चये । सूत्रे गौणशब्दानुवृत्तस्य
“न गौण आत्मशब्दः” इत्यस्यार्थमाह-नेति । गौण आत्मशब्दमुख्य-
वाच्यो न, किन्तु निर्गुणो विष्णुरेवेत्यर्थः । तथा च-आत्मशब्दादीक्ष-
तिश्रुत्युक्तोऽपि निर्गुण एवेति सिद्धम् । तस्येक्षत्यन्यथाऽनुपपत्त्या वा-
च्यत्वमिति भावः ॥ ८ ॥
( २३ ) युक्त्यन्तरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमु-
पन्यस्यति-स्वाप्ययादिति ॥ सूत्रं व्याचष्टे-पूर्णमिति । 'अदो' मू-
लरूपं 'पूर्ण' 'इदं' अवताररूपं च 'पूर्णम्' । 'पूर्ण' अवताररूपं
सृष्टिकाले 'पूर्णात्' मूलरूपात् 'उदच्यते' उद्गच्छति । तत्त्वप्रदीप

[ अधि - ५. सू - ९. ] दीपिकासहितम्. ७९

" स आत्मन आत्मानमुद्धृत्यात्मन्येव विलापयत्य
थात्मैव भवति " ।
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः ।
एकीभूय पुनश्शेते निर्दोषो हरिरादिकृत् । इति ।
( २४ ) स्वस्यैव स्वस्मिन्नप्ययवचनात् ।
रीत्या अमुष्मादिदं सङ्ख्यामात्रेणोच्यते एकमेव बहुसङ्ख्यं भवति
विशेषादेवैति वा । प्रलये मूलरूपं 'पूर्णस्य' स्वस्य 'पूर्णे' अवतार
रूपं 'आदाय' स्वीकृत्यैकीभूय 'पूर्णमेव' अन्यत्रालिनं सदैव स्वयं
'अवशिष्यते' इति बृहदारण्यकश्रुत्यर्थः । 'स' इत्यन्या श्रुतिः । तदर्थ
स्तु—'स' विष्णुः 'आत्मनः' स्वस्मात् मूलरूपात् 'आत्मानं' अव-
तारगतं स्वस्वरूपं 'उद्धृत्य' सृष्टिकाले पृथग्व्यक्तीकृत्य प्रलये 'आ-
त्मनि' स्वस्मिन्नेव 'विलापयति' एकीभावयति । 'अथ' अनन्तरं
स विष्णुः 'आत्मैव' मूलरूप्येव 'भवति' अवशिष्यत इति । 'स दे-
वः' इति स्काान्दस्मृतिः श्रौततच्छब्दार्थविवरणरूपा । 'देवो' द्योत-
नादेः 'निर्गुणः' सत्त्वादिगुणेभ्यो निष्क्रान्तः तत एव गुणकार्यदोष-
हीनः 'पुरुषोत्तमः' क्षराक्षरचेतनोत्तमः 'आदिकृत्' विश्वस्योत्पत्ति-
कर्ता प्रथमकर्ता वा 'सः' श्वेतद्वीपगो 'हरिः' आदिसृष्टौ 'बहुधा
भूत्वा' वराहादिबहुरूपणि सृष्ट्वा 'पुनः' अथ प्रलये 'एकीभूय' मूल-
रूपेण तान्येकतां प्रापयित्वा अहिपतौ 'शेते' योगनिद्रां करोतीत्य-
र्थः । इतीत्यस्य इति श्रुत्युक्तत्वाच्चेत्यध्याहारेण 'वाच्यमेव तत्' इति
परमसाध्येनान्वयः ॥
( २४ ) एतच्छ्रुत्युक्तोऽपि निर्गुणः कुतः? गौण एव किं न स्यादित्य-
तस्तत्र सौत्रं हेतुं सावधारणस्वशब्दावृत्त्या योजयति—स्वस्यैवेति ॥
एवकारो भिन्नक्रमः । इतिशब्द आवृत्तोऽत्रापि योज्यः । वचनादि-
त्यावर्त्तते । न गौण इत्यनुवर्तते । अयमिति शेषः । स्वाप्ययपदं पूर्ण-
त्वस्याप्युपलक्षकम् । तथा च—पूर्णमिति श्रुतौ स्वाप्ययपदोपलक्षि-
तपूर्णत्वस्य वचनात् स्वस्य स्वस्मिन्नेवाप्ययवचनाच्च, स इति स्पष्टश्रु-
तावपि आत्मन्येव विलापयतीति स्वस्य स्वस्मिन्नेवाप्ययवचनात्,
तस्य च निर्गुणहरिनिष्ठतायाः स्मृतौ वचनाच्च अयं निर्गुण एव न
गौण इति योजना । वाच्यत्वे स्वाप्ययस्य साक्षाद्धेतुत्वाभावात् सूत्रे

८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
न हि गौणात्मनि निर्दोषस्य लयः ॥ ९ ॥
( २५ ) न च कासुचिच्छाखास्वन्यथोच्यते ॥
भाष्ये च चशब्दाभावः । यद्यप्यत्रोपलक्षणाभिप्रायकटीकारीत्या पूर्ण-
त्वहेतुसमुच्चायकश्चशब्दोऽनुवर्तनीयः । तथाऽप्यस्य वाच्यत्वे साक्षा-
दहेतुत्वात्तत्र हेत्वन्तरस्य ज्ञापकचशब्दो नानुवर्तनीयः । न च श्रुत्यु-
क्तत्वाच्चेत्यध्याहृतहेतौ चशब्दावश्यंभावात् कथं तदभाव इति वा-
च्यम्, सूत्रश्रुतहेतौ चशब्दाभाव इत्यभिप्रायात् । अत एव टीकायां
तन्नेत्युक्तम् । तथा चायं सूत्रार्थः-न केवलं निर्गुणविष्ण्वाख्यं ब्रह्म ई-
क्षणीयत्वाद्वाच्यम्, किन्त्वेतच्छ्रुत्युक्तत्वाच्च । श्रत्युक्तं निर्गुणमेव न गौ-
णमिति कुतः? पूर्णत्वात्स्वस्य स्वस्मिन्नप्ययाच्च, गौणस्यापूर्णत्वान्
अन्यस्मिन् लयेन स्वाप्ययशून्यत्वाच्चेति । श्रत्युक्तस्वाप्ययपूर्णत्वयोर
सिद्धिपरिहाराय हेतौ साध्यसामानाधिकरण्योपपादनाय च श्रुति
स्मृत्योर्वचनादित्युक्तं भाष्ये । नन्वयं स्वाप्ययवान् अन्यत्रालीनश्च गौ-
णस्स्यात्, निर्गुणोऽन्योऽस्तीति चेत्-न, यद्ययं स्वाप्ययवान् गौणः त-
र्ह्ययं निर्गुणश्चोभौ प्रलयेऽन्यत्र लयेहीनौ तिष्ठतः? उत एकस्मिन्नन्यस्य
लयो भवति? नाद्यः “इदं वा अग्रे नैव किञ्च नासीत्” (तै.ब्रा.२-२-
९-१०) इत्यादिश्रुतिविरोधात्, अत्र प्रलये द्वितीयामात्रनिषेधात् । द्वि
तीये न तावद्गौणस्य निर्गुणे लयः, तस्य स्वाप्ययवत्तया अवस्थानाभ्यु-
पगमात् । तथा च निर्गुणस्य सगुणे लयो वाच्यः । स च न सम्भवती-
त्याह—न हीति । ‘गौणात्मनि’ जीवे ‘निर्दोषस्य’ सत्त्वादिगुणबन्ध-
रूपदोषहीनस्य निर्गुणस्य विष्णोर्लयो नोपपद्यत इत्यर्थः । हिशब्देन
“यत्प्रयन्ति” (तै.उ.३-१०) इत्यादिश्रुतिविरोधादिति हेतुः सूचितः ।
तस्मान्निर्गुणस्य स्वस्मिन्नेव लयो वाच्य इत्यतोऽयमनन्यलीनो निर्गुण
एवेति तस्यैव श्रत्युक्तत्वाद्वाच्यत्वं सिद्धमिति भावः । अत्र नये गौणा-
दिव्यपदेशः सत्त्वादिगुणयुक्तत्वतदभावरूपधर्माश्रयजीवपरमात्मधि-
षयक एव, न तु मुख्यासम्भवे गौणाश्रयणादित्यत्रेव निर्गुणोऽयमित्यत्रे
व वा मुख्यार्थगुणहीनविषय इति सूचनाय निर्गुणस्येति वक्तव्यत्वे
ऽपि निर्दोषस्येत्युक्तम् ॥
( २५ ) नन्वस्तु निर्गुणस्य विष्णोर्वाच्यत्वोपपत्तौ सत्यां कारणत्वे
न शास्त्रगम्यत्वम् । तच्चोपक्रमादिबलात् प्रसिद्धशाखास्वेव कारणत्वे

[अधि - ५. सू - १०.] दीपिकासहितम्. ८१

सू-ॐ ॥ गतिसामान्यात् ॥ ॐ ॥ १० ॥
सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेक
मेव । प्रकाशयन्ते न विरोधः कुतश्चिद्वेदेषु सर्वेषु
तथेतिहासे ॥
इति पैङ्गिश्रुतेर्गतेर्ज्ञानस्य साम्यमेव ॥
न प्रतिपाद्यत्वपर्यवसितम् । अप्रसिद्धशाखासु पुनरन्योऽपि कारणत्वे
न उच्यताम् । न च ता न सन्ति, तासामानन्त्येनेयत्ताऽनिश्चयादित्यत
आह—न चेति ॥ चोऽप्यर्थः । तथा च—‘कासुचित्’ अप्रसिद्धशा
खास ‘अन्यथा’ अन्यो निर्गुणात् सगुणोऽपि ‘अन्यथा’ अकारणत्वादेः
कारणत्वेन आत्मशब्दमुख्यवाच्यत्वेन मोक्षजनकज्ञानविषयत्वेन च,
निर्गुणो वा ‘अन्यथा’ अकारणत्वादिना ‘उच्यते’ उच्यतामिति ‘न’
इति योजना । ‘नान्यथा’ इत्यनेन सूत्रे गौणसूत्रान्नेत्यस्यानुवृत्तिः
अन्यथेत्यध्याहारश्च सूचितः । ‘तत्तु सं’ इत्युक्तादन्यथा नेत्यर्थः । कु
तो नेत्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याचष्टे—गतीति । उत्तरसूत्र
पदाकर्षणेन सर्वाधिकारिसाधारणं गतिसामान्यस्य श्रुतत्वादिति
योजनामभिप्रेत्य असिद्धिपरिहाराय तत्सूत्रसूचितां श्रुतिमाह—सर्वे
इति । वेदा इत्यस्य विवरणं ‘सर्वे’ इति । तथा च—‘सर्वे वेदाः’ त
था ‘सुप्रमाणाः’ सुष्ठु प्रमाणं प्रमाणान्तरं मूलभूतं यासां ताः ‘युक्त
यः’ । ‘तथेतिहासे’ इति वक्ष्यमाणानुरोधादत्रेतिहासा अप्युपल
क्ष्याः । तथा चेतिहासाश्च । ‘ब्राह्मं’ ब्रह्मैकविषयं ‘एकं’ एकविधमे
व परमार्थविषयकत्वात् ‘परमं’ उत्तमं ‘ज्ञानं’ ‘प्रकाशयन्ते’ उत्पा
दयन्ति, न पुनरनेकम् । अतः ‘सर्वेषु वेदेषु’ तथा युक्तिषु ‘तथेतिहा
से’ इतिहासेषु ‘कुतश्चित्’ कश्चिदपि विषयकृतो वा प्रकारकृतो
वा ‘विरोधो न’ इत्यर्थः ज्ञानरूपमेकमेव ब्रह्मस्वरूपं ज्ञापयन्तीति
वा । श्रुतेरिति पञ्चमी तृतीयार्थे । गतेरित्यस्य व्याख्या ज्ञानस्येति ।
सामान्यादिति सौत्रपदे प्रातिपदिकार्थमाह—साम्यमिति । विषयगु
णानामनन्योक्त्या साम्यमित्यर्थः । “न ह्येकत्र ज्ञानानन्दादिकमु
क्त्वाऽन्यत्राज्ञानादिरूपत्वं ब्रह्मण उच्यते” इति तत्त्वप्रदीपोक्तेः क
थ्यत इति शेषः । न तु विषमत्वमिति वा स्वयमेव साक्षान्न त्वन्यमुखे
नेति वा एवशब्दार्थः । तथा च—‘सर्वे वेदा’ इति श्रुत्या स्वयमेव
११

८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २६ ) सू— ॐ ॥ श्रुतत्वाच्च ॥ ॐ ॥ ११ ॥
‘ एको देवस्सर्वभूतेषु गूढः सर्वव्यापी सर्वभूता
[ न्तरात्मा ।
कर्माध्यक्षस्सर्वभूताधिवासः साक्षी चेता केवलो
[ निर्गुणश्च । ” ( श्वे. ६-११. ) इति ।
साक्षाच्छ्रुतेः सर्वशाखोत्पाद्यज्ञानस्य सामान्यात् एकविधत्वोक्तेः न का
सु चिच्छाखासु अन्यथोच्यत इति सूत्रार्थः । अत्र भिन्नविषयप्रकार
केष्वपि ज्ञानेषु ज्ञानत्वेन साम्यसत्त्वात्साम्यादित्युक्तौ विषयप्रकारै
क्यं न सिद्धयतीति सामान्यात् समानत्वात् एकविधत्वात् इत्युक्तं सू
त्रे । भाष्यपदस्याप्ययमेवार्थ इति ध्येयम् ॥ १० ॥
( २६ ) इतश्च निर्गुणं ब्रह्म वाच्यमित्याह सूत्रकृत्—श्रुतत्वाच्चेति ॥
चो हेतुसमुच्चये । तदशब्दं नेति वर्तते । तथा च तद्विष्ण्वाख्यं निर्गुणं
न केवलमीक्षत्यादिभिः नाशब्दं शब्दावाच्यम् । किन्तु “ एकः ” इति
श्वेताश्वतरश्रुतौ ‘ श्रुतत्वाच्च ' स्ववाचकनाम्ना साक्षादुक्तत्वाच्चेत्यर्थ
इत्याशयेन सूत्रोपात्तश्रुतिं पठति—एक इति । ‘ एकः ’ प्रधानः स्व
स्मिन्भेदशून्य इति वा ‘ देवो ’ द्योतनादेः ‘ सर्वभूतेषु गूढः ’ सर्व
प्राणिषु गुप्ततयाऽवस्थितः । न केवलं भूतेषु स्थितः किन्तु ‘ सर्वव्या
पी ’ च देशतः कालतो गुणतश्च सर्वं व्याप्नोतीत्यर्थः । न केवलं सर्व
भूतेषु स्थितिमात्रं, किन्तु ‘ सर्वभूतान्तरात्मा ’ सर्वप्राणिनां अन्तःस्थि
त्वा आ सम्यक् तन्नियन्ता च माता चेति वा । आदानादिकर्तृत्वाद्वा
तथोक्तः । ‘ कर्माध्यक्षः ’ कर्माधिपतिः, “ कर्मोपरि अस्याक्षाणीन्द्रिया
णि वर्तन्त इत्यध्यक्षः ” इति तत्त्वप्रदीपोक्तेः । ‘ सर्वभूताधिवासः ’
सर्वप्राणिनामाश्रयः । सर्वं साक्षादीक्षते पश्यतीति ‘ साक्षी ’ । ईक्षणं
च न प्राकृतं किन्तु चैतन्यस्वरूपमित्याह—‘ चेता ’ ज्ञानरूप इति ।
‘ केवलो ’ जडामिश्रः, समाभ्यधिकशून्य इति वा “ केवलं तादृशा
भावात् ” इति द्वितीयतात्पर्योक्तेः । केवलं चैतन्येनेक्षणमसंप्रज्ञातस
माधिस्थस्य योगिनोऽपि भवतीति तद्व्यावर्तनायाह ‘ निर्गुण ’ इति ।
सत्त्वादिगुणबन्धहीन इत्यर्थः, प्राकृतगुणहीन इति वा । इतिशब्दस्य
‘ श्रुतौ निर्गुणस्य ’ इति पदद्वयाध्याहारेण श्रुतत्वादिति सूत्रेणान्व
यः । “ अत्र वाच्यत्वं प्रतिपादयत्सूत्रं तदुपात्तश्रुत्युदाहरणपूर्वकं पठ

[ अधि - ६. सू - ११. ] दीपिकासहितम्. ८३
न ह्यशब्दं श्रूयते । न चाप्रसिद्धं कल्प्यम् । सर्व
शब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ ५ ॥
६. अधिकरणम् ॥
( १ ) तमेव समन्वयं प्रकटयति 'आनन्दमयोऽभ्यासात्' इत्यादि
ति—एक इति" इति क्वाचित्कटीकापाठानुसारेण भाष्ये क्वचित् श्रु
तिपाठानन्तरं सूत्रपाठो दृश्यते । तत्पक्षे त्वन्वयस्सुलभ एवेति ध्येय
म् । श्रुतेत्वेऽप्यशब्दः किं न स्यादित्यप्रयोजकत्वशङ्कायामाह — न ही
ति । 'हि' यतः 'अशब्दः' अवाच्यः पदार्थो 'न श्रूयते' न श्रुतिप
देनोच्यत इत्यर्थः । अतो नाप्रयोजकत्वं हेतोरिति वाक्यशेषः । विरो
धादित्यपि हिशब्दार्थः । ननु अशब्दस्यापि ब्रह्मणो लक्षणया श्रुतत्वं
किं न स्यादित्यत आह— न चेति । 'अप्रसिद्धं' अवाच्यस्य ब्रह्मणो
लक्ष्यत्वं न कल्प्यमित्यर्थः । कुतः ? यतोऽवाच्यस्य वस्तुनो लक्ष्यत्व
मप्रसिद्धं अत इति व्याप्तिपरत्वेनापीदं योजनीयम् । ननु कथमेतत् ?
गङ्गापदावाच्यस्यापि तीरस्य तत्पदलक्ष्यत्वप्रसिद्धेरित्यत उक्तं— स
र्वेति । 'सर्वशब्दावाच्यस्य' ब्रह्मणो लक्षणायाः वेदपदलक्ष्यत्वस्यायु
क्तेः विप्रतिपन्नं न लक्ष्यं, केनापि पदेनावाच्यत्वात् व्यतिरेकेण ती
रवदिति युक्तिविरुद्धत्वादित्यर्थः । तथा च— नास्माभिः केवलावा
च्यत्वेन लक्ष्यत्वाभावः साध्यते येन तीरादौ व्यभिचारः शङ्क्येत,
किन्तु सर्वशब्दावाच्यत्वेन । तच्च न तीरादिगतं, तस्य तीरादिपदवा
च्यत्वात् । ब्रह्म तु न तथा, तस्य सर्वशब्दावाच्यतयैव परेणाङ्गीकृत
त्वात् । अतो न व्यभिचार इति युक्तिविरोधो दुष्परिहर इति भा
वः । ननु लक्ष्यत्वाभाववति प्रवाहादौ हेत्वभावादसाधारणमिति
चेत्— न, लक्षणायोग्यस्यैव लक्ष्यपदार्थत्वे सर्वपदार्थानामपि कि
ञ्चित्पदलक्षणायोग्यत्वेन तदभावरूपसाध्यस्य कुत्राप्यभावेन स
पक्षस्यैवाभावात् ॥ ११ ॥
॥ इति ईक्ष्यत्यधिकरणम् ॥ ५ ॥
६. अधिकरणम् ॥
( १ ) अथाध्यायपादयोरुपोद्घातत्वेन पीठरूपायामस्यां पञ्चा

ना समस्तेनाध्यायेन प्रायेण ।
त्रिकरण्यां ब्रह्मस्वरूपनिरूपणे अनवशेषात्किमध्यायात्मकशेषग्रन्थेने
त्यत आह—तमेवेति ॥ तथाऽपीत्यादौ योज्यम् । समन्वयशब्दश्च विप
रिणामेनावर्तनीयः । तथा च—तथाऽपि प्रकटनं विनाऽध्यायाख्यशेष
ग्रन्थस्य कृत्यान्तराभावेऽपि ‘तमेव’ ‘ “तत्तु समन्वयात्” इत्यनेन
हेतुतया सामान्यतः सिद्धवदुपन्यस्तमेव समन्वयात् ‘समन्वयं’ उ
पक्रमादिलिङ्गज्ञाप्यं सम्यग्वचनवृत्त्या सर्वशास्त्रीयवचनानां हरौ नि
रूपणं तत्परत्वं ‘प्रकटयति’ प्रतिवाक्यग्रहणेन तद्धेतूपन्यासादिना
प्रपञ्चयति “आनन्दमयोऽभ्यासात्” इत्यादिना अनेन प्रथमेनाध्या
येन सूत्रकार इत्यर्थः । अन्यथा प्रतिज्ञामात्रस्य “तदेव शास्त्रयोनि,
समन्वयात्” इति सिद्धवदुपन्यासमात्रस्य साधकत्वे “विष्णोरन्य
देव शास्त्रयोनि, कुतः ? समन्वया

[ अधि - ६. सू - ११० ] दीपिकासहितम्. ८५
(२) प्रायेणान्यत्र प्रसिद्धानां शब्दानां परमात्मनि समन्व
यः प्रदर्श्यतेऽस्मिन् पादे । नान्यथा तददृष्टेः ।
(३) ब्रह्मजिज्ञासा कर्तव्येत्युक्तम् । तच्च 'ब्रह्म पुच्छं
भूमार्थे 'प्रायः' इत्यव्ययमप्यस्ति इत्यपिशब्दः प्रायोजि । प्रमेयदीपे
ऽपि सान्तस्यैवाव्ययत्वमुक्तम् ॥
(२) तर्हि अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यतः
समन्वेतव्यभेदात् समन्वयेऽप्यवान्तरभेद इति भावेन प्रथमाध्यायप्र
थमपादप्रतिपाद्यं दर्शयति—प्रायेणेति ॥ 'अस्मिन्' प्रथमे पादे 'प्रा
येण' बाहुल्येन 'अन्यत्र' विष्णोरन्यत्र 'प्रसिद्धानां' श्रुत्यादितो लो
कतो वाऽऽपाततो रूढत्वेन प्रतीयमानानां नामात्मकानां 'शब्दानां'
'परमात्मनि' विष्णौ निरुक्तः 'समन्वयः' 'प्रदर्श्यते' प्रपञ्च्यत इ
त्यर्थः । अत्रापि अन्तरधिकरणे अन्तःस्थत्वलिङ्गसमन्वयप्रतिपादनात्
अव्याप्तिनिरासाय—प्रायेणेति । तत्त्वप्रदीपे तु—एक एव भाष्ये प्राये
णेति शब्दः । तस्यैवोत्तरत्रापि सम्बन्ध इत्याशयेन “प्रायेणान्यत्र प्र
सिद्धानामिति च सम्बन्धः” इत्युक्तम् । तथा -आनन्दमयाधिकरणे
लिङ्गविचारात्तदपि प्रायेणेति व्यावर्यमिति चोक्तम् । यद्वा—टीका
यामप्यावृत्त्यभिप्रायेणैकस्यैव पुनरुत्तरत्रापि अन्वयप्रदर्शनाय प्रतीक
ग्रहणं कृतमिति न ग्रन्थवैरूप्यं कल्प्यम् । अतएव तत्त्वप्रदीपानुसारे
ण “आनन्दमयनाम्नः इति टीकायामानन्दमयनामशब्दः आनन्दादि
नामपरो वा योज्यः” इत्युक्तं चन्द्रिकायाम् । अथ परोक्तं पादार्थं दू
षयति—नेति । 'अन्यथा' प्रथमे स्पष्टब्रह्मलिङ्गानां शब्दानां द्वितीय
तृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः प्रतिपाद्यते । तयोस्तु सविशेष
निर्विशेषविषयतया भेदः । चतुर्थपादे तु प्रधानस्याशाब्दत्वोक्तिरित्ये
वं रूपोऽस्मदुक्तादन्यप्रकारेण पादार्थो न वाच्य इत्यर्थः । कुतो नेत्यत
आह-तदिति । 'तस्य' परोक्तपादार्थनियमस्य 'अदृष्टेः' एतदध्यायगत
पादेष्वदर्शनादित्यर्थः । सर्वसाङ्कर्यादिति भावः । तच्च टीकादावुक्तम्॥
(३) नन्वानन्दमयाधिकरणमारभ्य सर्वेषामधिकरणानामवश्य
वक्तव्ये सङ्गतिपञ्चके अस्मिन्नधिकरणे लोकतोऽन्यत्रप्रसिद्धानन्दम
यशब्दोपलक्षितगुणवाचिशब्दानामानन्दादिगुणवाचिशब्दानां च ब्र
ह्मणि समन्वयकरणात् अस्यास्तु शास्त्रेऽध्याये पादे चान्तर्भावरूपा
सङ्गतिः । तथाऽपि आनन्दमयस्य विष्णुत्वसमर्थने का अपूर्वस्सङ्गति

८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
प्रतिष्ठा ' ( तै. २-५-२. ) इत्यानन्दमयावयवरूपं प्र
रिस्यतोऽव्यवहितपूर्वाधिकरणेनैव सङ्गतिर्वक्तव्येति नियमाभावात्
व्यवहितपूर्वेण जिज्ञासाधिकरणेन तद्विषयेण च अस्यानन्तर्यलक्षण
लक्षितामाक्षेपिकीं सङ्गतिं तावद्दर्शयति—ब्रह्मेति ॥ 'उक्तं' जिज्ञासा
धिकरणे इति शेषः । 'तच्चेति' । यज्जिज्ञास्यतया प्रतिज्ञातं ब्रह्म तद्दे
वेत्यर्थः । यद्वा—प्रकृतानुसन्धानार्थश्चशब्दः । इतीत्यनन्तरं 'श्रुतौ'
इति शेषः । 'आनन्दमयावयवरूपमिति' आनन्दमयाख्यस्य कस्य
चित्पुच्छाख्यावयवभूतं प्रतीयत इत्यर्थः । ननु ब्रह्मणोऽवयवत्वोक्ताव
पि किमर्थमानन्दमयस्य विष्णुत्वसमर्थनमित्यत आह—न हीति । हि
शब्दो हेतौ । 'अत' इत्यावर्तते । 'तच्च' इत्यादि 'इत्यत आह' इत्य
न्तं सङ्गतिप्रयोजनोभयपरतया व्याख्येयम् । न हीत्येतत्तदुपपादकम् ।
योजना तु—यतो 'ब्रह्म पुच्छं प्रतिष्ठा' इति श्रुतौ जिज्ञास्यतयोक्तं ब्र
ह्म आनन्दमयाख्यस्य कस्य चिदवयवरूपं 'प्रतीयते' उच्यते यतश्च
अन्याङ्गतया जिज्ञास्यत्वेऽपि 'अवयविनं' आनन्दमयं विना 'अवय
वमात्रस्य' अवयवस्यैव केवलस्य ब्रह्मणो न पृथक् 'ज्ञेयता' जिज्ञा
स्यता सम्भवति । अमुख्यत्वात् । नापि जिज्ञासाया एव त्यागो यु
ज्यते । “तद्विजिज्ञासस्व” (तै. उ. ३-१.) इति श्रुतिविहितत्वादित्येवं
शङ्का प्राप्ता । अतः शङ्कारूपसङ्गतिसद्भावात् अत्रानन्दमयस्य विष्णुव
न्यत्वपक्षे ब्रह्मजिज्ञासाक्षेपात् विष्णुत्वपक्षे च तत्समाधानात् एवं च
पूर्वपक्षसिद्धान्तयोः फलसद्भावाच्च 'अतो' ब्रह्मजिज्ञासासिद्ध्यर्थं 'आन
न्दमयोऽभ्यासात्' इत्यानन्दमयस्य विष्णुत्वं 'आह' समर्थयति सूत्र
कार इति ॥
“ तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमयः ।
तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्व
यं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद
उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।” ( तै. उ. २-५-२. )
इति तैत्तिरीयवाक्यस्यायमर्थः । 'तस्मात्' आत्मपदोदितात् 'एत
स्मात्' जीवशरीरगतात् विज्ञानपूर्णत्वात् विज्ञानमयशब्दवाच्यात्
विष्णोः अनन्योऽप्यन्यशब्दोक्तः 'आनन्दमयः' आनन्दपूर्णत्वादानन्द
मयशब्दवाच्यः 'आत्मा' नारायणः 'अन्तरो' विज्ञानमयस्यान्तःस्थितः

[ अधि - ६. सू - ११. ] दीपिकासहितम्. ८७
तीयते । न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयत्वं
त्यत आह ॥—
'तेन' आनन्दमयेन 'एषः' विज्ञानमयशब्दवाच्यो वासुदेवः 'पूर्णः'
निश्चिद्रत्वेन पूरितः । वैशब्दः प्रसिद्धौ । 'स एष' आनन्दमयः 'पुरु-
षविध एव' पुरुषाकार एव । 'तस्य' आनन्दमयस्य शरीरस्थानीयस्य
पुरुषाकारतां 'अनु' अनुसृत्य 'अयं' विज्ञानमयः शरीरस्थानीयः 'पुरु-
षविधः' तस्मात्प्रादुर्भूतः,
उत्तरैः पूरिताः पूर्वे निश्चिद्रत्वेन सर्वशः ।
सर्वेऽपि पुरुषाकारा उत्तरात्पूर्वसम्भवः ॥
इति तैत्तिरीयभाष्योक्तेः । 'तस्य' आनन्दमयस्य विष्णोः अवयवभू-
तं 'परेयं प्रियनामकम्' इति भाष्योक्तेः । परैरुत्तमैः देवैः प्राप्यत्वा-
त्प्रियशब्दवाच्यं यत्सुखं तत्तस्य 'शिरः' तदेवानन्दमयाख्यस्य जी-
वशरीरस्य परैरन्यैरुपकर्तृभिः प्राप्यत्वात् प्रियनामकमुपकारजन्यवै-
षयिकसुखाख्यं यच्छिरः तत्स्थं च । एवमानन्दमयाख्यस्य विष्णोः ये
दक्षिणोत्तरबाहुमध्यदेहाः मोदप्रमोदकारित्वानन्तत्वनिमित्तैर्मोदप्रमो-
दानन्दनामानः ते आनन्दमयाख्यजीवशरीरस्य दक्षिणोत्तरपक्षा-
त्मनामानो दक्षिणसव्यबाहुमध्यदेहाः । “मोदो' भोगनिमित्तकः 'प्र-
मोदः' तद्विशेषोत्थः” इत्यैतरेयभाष्योक्तेः ।
मुन्नाम विषयोत्थं यत्प्रकृष्टविषयात्प्रमूत् ।
सुखं स्वरूपभूतं यदानन्द इति कथ्यते ॥
इति बृहद्भाष्योक्तेश्च । अपकृष्टविषयोद्भूतत्वप्रकृष्टविषयोत्थत्व-
जीवस्वरूपानन्दत्वनिमित्तैर्मोदप्रमोदानन्दनामानस्तेषु स्थिताश्च । ए-
वमानन्दमयाख्यस्य विष्णोः 'पुच्छं' प्रतिष्ठति गच्छति लोक आ-
भ्यामिति व्युत्पत्त्या प्रतिष्ठापदोक्तौ यः पादाख्योऽवयवः तद्ब्रह्म 'ब्रह्म
सृष्ट्या तु बृंहयेत्' इति तैत्तिरीयभाष्योक्तरीत्या सृष्ट्यादिक्रियया वि-
श्वगुणवृद्धिकरत्वाद्व्रह्मशब्दवाच्यः स एवानन्दमयाख्यजीवशरीरस्य
यत् पुच्छं यः पादाख्योऽवयवः तत्स्थिते ब्रह्माख्ये प्रधानवायौ स्थितः ।
अनेन कोशावयवस्य ब्रह्मशब्दवाच्यत्वं ब्रह्मशब्दवाच्यप्रधानवाय्वधि-
ष्ठानत्वनिमित्तं, प्रधानवायोर्ब्रह्मशब्दवाच्यत्वं तु परब्रह्माधिष्ठानत्वादि-
त्युक्तं भवति । अनेनानन्दमयादिशब्दवाच्यस्य विष्णोरवयवभूताः ये प्रि

८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
सू—ॐ ॥ आनन्दमयोऽभ्यासात् ॥ ॐ ॥ १२ ॥
( ४ ) आनन्दमयो ब्रह्मादिः प्रकृतिर्विष्णुर्वा ।
यादयः ते विष्णवभिन्नाः ये चानन्दमयादिजीवकोशावयवाः प्रियादय
स्ते प्रतिशरीरं भिन्ना इति द्विविधा प्रियादय इत्युक्तं भवति । यथो
क्तं चन्द्रिकायाम्—ये जीवाभिमन्यमानानन्दमयादिकोशावयवाः प्रि
यादयस्ते प्रतिशरीरं भिन्नाः, न ते आनन्दमयाद्याख्यस्य विष्णोरवय
वाः । ये च भगवतोऽवयवाः प्रियादयो न ते प्रतिशरीरं भिन्नाः कि
न्त्वभिन्ना इति जीवस्वरूपस्यानन्दस्य हृदयाख्यमध्यगतत्वात्कोशम
ध्यदेहत्वं स्वरूपदेहस्य जडावयवत्वं चामूख्यं युज्यते । यद्यपि भाष्ये
' शिरो नारायणः ' इत्युदाहरिष्यमाणवचनपर्यालोचनयाऽऽनन्दमया
ख्यो नारायणः पुनर्नाrayana... wait, पुनर्नारायणादिरूपेण पञ्चधा भिन्नः शिरःप्रभृत्यवय
वात्मना तिष्ठतीति प्रतीयते । तैत्तिरीयभाष्ये तु—प्रियादीनामानन्दम
यावयवत्वम् । तथापि प्रियादिसुखविशेषदेहस्थितब्रह्माख्यप्रधानवा
युगतानां नारायणादिरूपाणामेव आनन्दमयाख्यविष्ण्ववयवत्वसम्भ
वात्तेषामेव ।
परेयं प्रियनामकम् ।
मोदप्रमोदनामानौ मोदनाच्च प्रमोदनात् ।
देहस्थवायुसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ।
इति तैत्तिरीयभाष्योक्तरीत्या प्रियादिशब्दवाच्यत्वस्यापि सम्भवान्न
विरोधः । तत्त्वप्रदीपे तु-प्रियशिरस्त्वादिनये “श्रवणोत्थं प्रियं, दर्शनो
त्थो मोदः, भोगोत्थः प्रमोदः ” इति पदत्रयस्यार्थान्तरमुक्तम् । तथा
तत्रैव ' अभावं बादरिः ' इति सूत्रेण ' प्रियाप्रिये ' ( छां. ८-१२-१. )
इति श्रुतिस्थप्रियशब्देन ' परेयं प्रियनामकम् ' इति तैत्तिरीयच्छान्दो
ग्यभाष्ययोरुक्तत्वात्परप्राप्यसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्य
मिति सूचितम् ” इति चोक्तम् । इदं त्ववधेयं—परिदृश्यमानमन्नम
यं शरीरम् । तदन्तः प्राणमयो देहः । तदन्तर्मनोमयो देहः । तदन्त
र्विज्ञानमयो देहः । तदन्तरानन्दमयोऽस्ति । एतेषु पञ्चसु देहाख्यको
शेषु तत्तच्छब्दवाच्यानि पुरुषाकाराणि अनिरुद्धप्रद्युम्नसङ्कर्षणवासुदे
वनारायणरूपाणि देहदेहिभावेन वर्तन्त इति ॥
( ४ ) एवं सङ्गतिं फलं चोक्त्वा विषयसंशयौ दर्शयति—आन
न्दमय इति ॥ आनन्दमय इत्युपलक्षकपदेन विषयो दर्शितः । ब्रह्म

[ अधि - ६. सू - १२. ] दीपिकासहितम्. ८९
( ५ ) ब्रह्मशब्दाद्धिरण्यगर्भस्य प्राप्तिः । शतानन्दनाम्ना च ।
( ६ ) अष्टमूर्तित्वात्सूर्ये प्रोक्तत्वाच्च रुद्रस्य ।
( ७ ) एवमन्येषामपि ।
( ८ ) ‘ मम योनिर्महद्ब्रह्म ’ ( भ.गी. १४-३. ) इति ब्रह्मश
दिरित्यत्र ब्रह्मा आदिर्यस्य जीवसङ्घस्येति विग्रहः । ब्रह्मा चतुर्मुखः,
आदिशब्देन रुद्रेन्द्रबृहस्पतिमुखा देवास्तत्तद्देहगतजीवाश्च गृह्यन्ते ।
प्रकृतिशब्देन च चित्प्रकृतिः । ‘ इति संशय ’ इति शेषः ॥
( ५ ) अत्र सयुक्तिकं पूर्वपक्षमाह-ब्रह्मशब्दादिति ॥ आनन्दमयमध्-
कृत्योदाहृते ‘ अस्ति ब्रह्मेति चेद्वेद ’ ( तै.उ.२-६-१. ) इत्यादौ श्रुताद्ब्र-
ह्मशब्दादित्यर्थः । ब्रह्मशब्दस्य अन्यत्रापि वृत्तेः कथं तेन चतुर्मुखस्या-
नन्दमयत्वनिश्चय इत्यतो युक्त्यन्तरमाह— शतेति । चोऽप्यर्थे समुच्च-
ये । “ ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः ” ( तै.उ.
२ - ८ - ४. ) इति वाक्यादर्थात्सूचितेन शतानन्दनाम्नेत्यर्थः । यद्वा—
आनन्दमयशब्दसमानार्थकेन हिरण्यगर्भे विद्यमानेन शतानन्दनाम्ने-
त्यर्थः । ‘प्राप्तिः ’ आनन्दमयत्वस्येति शेषः । तथा च—हिरण्यगर्भस्य
आनन्दमयत्वस्य प्राप्तिरित्यन्वयः ॥
( ६ ) एवमेकं पूर्वपक्षमभिधाय अन्यमाह— अष्टमूर्तित्वादिति ॥
चशब्दो रुद्रस्य चेति सम्बध्यते । प्राप्तिरित्यस्यानुकर्षणार्थो वा । तथा
च-रुद्रस्य चानन्दमयत्वप्राप्तिः । कुतः ? सूर्ये प्रोक्तत्वात् । ‘यश्चासावा-
दित्ये’ ( तै.उ.२-८-५. ) इत्यानन्दमयस्य सूर्ये स्थितेः उक्तत्वादुद्रस्य
च सूर्याद्यष्टशरीरत्वादित्यर्थः । तथाच-रुद्रलिङ्गस्य आनन्दमये श्रुत-
त्वात् आनन्दमयो रुद्र एवेति भावः । रुद्रस्य सूर्याद्यष्टप्रतिमत्वं च
सूर्यो जलं मही वह्निर्वायुराकाश एव च ।
दीक्षितो ब्राह्मणस्सोम इत्येतास्तनवः क्रमात् ॥
इति विष्णुपुराणवाक्यात्सिद्धम् ॥
( ७ ) पूर्वपक्षान्तरं दर्शयति-एवमिति ॥ उक्ताभ्यां ‘अन्येषां’ इन्द्र-
बृहस्पत्यादीनामपि ‘ एवं ’ उक्तप्रकारेण स्वावरसूर्याद्यधिष्ठातृत्वादि-
ना आनन्दमयत्वप्राप्तिरित्यर्थः ॥
( ८ ) सयुक्तिकं पूर्वपक्षान्तरमाह—ममेति ॥ योजना तु चित्प्रकृ-
तेर्याऽऽनन्दमयत्वप्राप्तिः । कुतः ? ब्रह्मशब्दात् । आनन्दमये श्रुतस्य ब्रह्म-
शब्दस्य ‘ मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ’ इति गीता-
१२

९० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
ब्दात्, बहुभावाच्च प्रकृतेः ।
( ९) बृह जातिजीवकमलासनशब्दराशिष्विति ब्रह्मशब्द।
देव सर्वजीवानां, अन्नमयत्वादेश्च ।
यां चित्प्रकृतौ प्रयोगादिति । स्मृतौ—महद् ब्रह्मेति भिन्ने पदे । तथा
च महत् ब्रह्मशब्दवाच्या लक्ष्मीः मम योनिः गर्भाधानार्थे भार्या । त
स्मिन् ब्रह्मणि प्रकृतौ अहं गर्भं दधामि दध इत्यर्थः । अर्जुनं प्रति कृ
ष्णवाक्यमेतत् । कथं सावकाशेन ब्रह्मशब्देन प्रकृतेरानन्दमयत्वनि
श्चय इत्यतो हेत्वन्तरमाह—'बहुभावात्' बहुरूपत्वाच्चेति । चौ हेतु
समुच्चये । तथा च 'सोऽकामयत । बहु स्याम्' (तै. उ. २-६-२.)
इत्यानन्दमयस्य 'बहुभावात्' बहुभावश्रवणात् तदभिमानित्वाच्चित्प्र
कृतेः स्वाभिमन्यमानविकारिजडद्वारा बहुभावसम्भवादित्यर्थः । एवं

[ अधि - ६. सू - १२. ] दीपिकासहितम्. ९१
(१०) तथाऽपि न त आनन्दमयशब्देनोच्यन्ते । किन्तु, वि-
ष्णुरेव । 'तदेव ब्रह्म परमं कवीनाम्' (महाना.
१-६०. ) 'एतमेव ब्रह्मेत्याचक्षते' (ऐ.आ. ३-२-३-१२. )
(११) ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।
असम्पूर्णाः परे यस्मादुपचारेण वा भवेत् ॥
मिति ध्येयम् ॥
(१०) सिद्धान्तयति—तथाऽपीति ॥ यद्यप्येवमन्येषां प्राप्तिः, तथाऽ-
पि अत्र ये आनन्दमयशब्देनोच्यन्ते न ते हिरण्यगर्भादय इत्यर्थः ।
कस्तर्हीत्याशङ्कते-किन्विति । उत्तरमाह-विष्णुरेवेति । य उच्यते स
विष्णुरेवेत्यन्वयः । अनेनोदाहृतानन्दमय इति सूत्रप्रतिज्ञाभागस्य स-
ङ्गत्यर्थमन्वयार्थं समन्वयसूत्रोदाहृतो विधेयसमर्पकः 'तन्तु' इति प्र-
तिज्ञाभागो व्याख्यातो भवति । कुत आनन्दमयो विष्णुरेवेत्यतः प्रवृ-
त्तं सौत्रं हेतुं व्याचष्टे—तदेवेति । इत्यादिषु वाक्येषु तस्मिन्विष्णावे-
व प्रसिद्धस्य मुख्यार्थत्वेनोक्तस्य ब्रह्मशब्दस्य तस्मिन्नानन्दमये आन-
न्दमयं प्रत्युदाहृते 'असन्नेव' इति श्लोके 'अभ्यासात्' असकृच्छ्रव-
णादित्यर्थः । अभ्यासादित्यनन्तरं 'विष्णौ तात्पर्यावगमात्' इति शे-
षः । अप्रयोजकत्वशङ्कावारणाय ब्रह्मशब्दस्यान्यत्र निरवकाशत्वज्ञाप-
नाय तस्मिन् प्रसिद्धेति एवेति चोक्तम् । आदिशब्देन 'परमं यो मह-
द्ब्रह्म' 'वासुदेवात्परः को नु ब्रह्मशब्दोदितो भवेत्' इति वाक्यं गृह्य-
ते । तदेवेति श्रुत्यर्थस्तु जिज्ञासानयेभिहितः । 'एतमेव' इति श्रु-
त्यर्थः सर्वत्राधिकरणे वक्ष्यते ॥
(११) 'ब्रह्मशब्दः' इति स्मृतौ 'परे' पूर्णे इति हेतुगर्भविशेष-
णम् । वाशब्दोऽवधारणे । तथा च यतो विष्णुः परः, अतः 'परे' वि-
ष्णावेव ब्रह्मशब्दो मुख्यतया 'इष्यते' अङ्गीक्रियते प्रामाणिकैः । न
तु विष्णोः 'अन्यत्र' हिरण्यगर्भादिष्वपीत्यर्थः । कुत इत्यतस्तेषां ब्र-
ह्मशब्दमुख्यार्थत्वाभावे हेतुमाह—'परे' अन्ये यस्मादसम्पूर्णा इ-
ति । तर्हि 'तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' (मु. १-१-९.)
'द्वे ब्रह्मणी वेदितव्ये' (मैत्रि.उ.६-२२.) 'ब्रह्माणि जीवाः सर्वेऽपि'
इत्यादौ ब्रह्मशब्दस्तेषु कथमित्यत आह—क्वचिदन्यत्रेष्टोऽपि
ब्रह्मशब्दः 'उपचारेण' परममुख्यवृत्त्यन्यमुख्यवृत्त्यैव भवेदिति । 'ब्रह्म'
इति भागवतस्मृत्यर्थः । प्रागेवोक्तः । मध्ये आत्मपदोपेतसाधारणस्मृ-

९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ।
वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः ॥
इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् ।
( १२ ) सू— ॐ ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ ॐ ॥ १३ ॥
त्युपादाननिमित्तं तु अभ्यासादित्यस्य ‘अन्योन्तर आत्मा’ (तै.उ.२-
२-१०) इत्यादौ ब्रह्मवाचकात्मशब्दाभ्यासादित्यप्यर्थो वर्णनीय इति
ज्ञापनमित्युक्तं चन्द्रिकायाम् । ‘वासुदेवात्मकम्’ इति व्यासस्मृ-
तिवाक्यं तु ‘बुद्ध्याप्यविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत्’ इति
पूर्ववाक्येन सह योजनीयम् । अत्र हि वासुदेवात्मकं ब्रह्मेत्यादेर्भ-
गवान् ब्रह्मेति प्रतीयते इति न्यायदीपोक्तेः । ‘यतिः’ ‘वासुदेवात्मकं’
कृष्णाख्यं ब्रह्म ‘बुद्ध्या’ मनसा समर्चयेदित्यनेन यतीनां मानसपू-
जोच्यते पुष्पैर्वा समर्चयेत् इत्यनेन कायिकपूजा । ‘अविहिंस-
न्’ कस्याऽपि हिंसां हानिमकुर्वन्निति तेषां सामान्यधर्मोक्तिः । अनेन
यतीनां वैष्णवत्वप्रयुक्तात् तुलसीपुष्पाद्याहरणरूपाद्वैशेषिकाद्धर्माद्
हिंसालक्षणः सामान्यधर्म एव बलवानित्युक्तं भवति । यथोक्तं बृह-
द्भाष्ये—‘सामान्यधर्मो बलवान् धर्माद्वैशेषिकाद्यतः’ इति । ‘प्रणवे-
न’ ओंङ्कारेण ‘मूलमन्त्रेण’ अष्टाक्षरेण वा समर्चयेदित्यनेन वाचक-
पूजोच्यते इति ज्ञातव्यम् ॥
( १२ ) उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं व्याचष्टे—
विकारेति ॥ अत्र चो हेतुसमुच्चये । प्रकृतिशब्देन चिदचित्प्रकृती गृ-
ह्येते । आदिशब्देन जीवा गृह्यन्ते । प्रकृत्यादय इति च विपरिणम्य-
ते । नञ् आवर्तते । आनन्दमय इत्यस्ति, किं तु विष्णुरिति च । तुश-
ब्दो विशेषार्थोऽवधारणार्थे च । तथा च—आनन्दमयो न विष्णुः,
किन्तु, प्रकृत्यादय एव । कुतः ? यतोऽत्र ‘विकारशब्दो’ विकारार्थकम्
यच्छब्दो ‘युज्यते’ प्रयुज्यते । स च यतो विकारतदभिमानित्वाभ्या-
मेव ‘युज्यते’ प्रवर्तते । अतः प्रकृत्यादीनामेव युज्यते । कुतः? जडप्रकृ-
तेर्विकारात्मकत्वाच्चेतनप्रकृत्यादीनां च विकाराभिमानित्वात् । न तु
परमात्मनः; तस्याविकारित्वाददनभिमानित्वाच्चेति योजना । ‘इति चे-
न्न’ इत्यंशं व्याचष्टे—इति मा भूदिति । शङ्केति शेषः । कुत इत्यतः प्र-
वृत्तं सौत्रं हेतुं व्याचष्टे —प्रचुरेति । आनन्दमयः कथ्यत इति शेषः ।
हिशब्दो हेतौ । तुशब्दोऽवधारणार्थः । तथा च ‘हि’ यतः ‘आनन्द

द्वृत्त्यननुगुणान-> wait! Look at line 14! Look at the word afterइति: तthen a broken characterद्धि? Look at line 14: त द्धि त वृ त्त्य न नु गु णा न Wait! In line 14, look at the 6th-7th aksharas: तद्धितवृत्त्यननुगुणान! Look at द्धिin line 14: it has a smudge/broken letter too! Look at:तthen something smudged, thenवृत्त्यननुगुणान- theतofतद्धितis actually broken or missing! Wait, in line 14:तthenद्धिthenत? It looks like तद्धितवृत्त्य-whereद्धितis squished/broken: Wait, let's look at line 14 carefully: न् स प्रचुरानन्द इति । तथाऽप्यानन्दमय इति तद्धितवृत्त्यननुगुणान Look atतद्धित: It's तthen a character with a loop:द्धि? It looks like त+द्धि+त? Actually it looks like त` +

९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा-१. ]
इति व्याख्यानात्तत्प्राचुर्यं च युज्यते ।
( १४ ) उपजीव्यत्वमेवाद्यत्वम् । ‘ स वा एषः ’ (तै. २-२.)
विकारार्थत्वमेव । अन्नादिविकारार्थान्नमयादिशब्दैस्सह पठितत्वादित्यत आह—अन्नादीनां चेति ॥ इदं चावर्तते । मयट्छब्द इति चानुवर्त-
ते । तेन समुच्चयार्थचशब्दस्यान्वयः । वाच्यवाचकयोरभेदव्यपदेशः ।
तथा च न केवलमानन्दस्य मयट्छब्दः, किन्त्वन्नादीनां सम्बन्धिमय-
ट्छब्दोऽपि अन्नादीनां प्राचुर्यमेव वक्तीत्यर्थः । एवशब्दो विकारार्थता-
व्यावृत्त्यर्थः । आदिशब्देन प्राणादयो गृह्यन्ते । पूर्वे ‘ अन्नमयत्वादेश्च ’
इति, अत्र च ‘अन्नादीनाम्’ इति बहूनां ग्रहणात्, सौत्रानन्दमयश-
ब्दोऽजहत्स्वार्थलक्षणया समानन्यायशब्दान्तरोपलक्षक इति

[ अधि - ६. सू - १३. ] दीपिकासहितम्. ९५
इत्यन्यप्रारम्भात् ।
( १५ ) 'येऽन्नं ब्रह्मोपासते' ( तै. २-२.) इत्यादिब्रह्मशब्दा
न तु चर्व्यत्वम् । तच्च ब्रह्मण्यविरुद्धमिति भावः । तत्त्वप्रदीपे तु—
“ न चान्यान्नं सर्वभूताद्यं, न च तत्कस्यापि मुख्याद्यम् । किन्तु तद्ग-
तो विष्णुरेवादनफलभूततृप्तितुष्टिदातृत्वान्मुख्याद्यः, तस्मादुपजीव्य-
त्वमेवाद्यत्वम्,
भर्त्तृत्वात्सर्वलोकानामन्नमित्युच्यते हरिः ।
उपजीव्यश्च भूतानामिति चान्नं जनार्दनः ॥
इति उक्तेः” इति उपजीव्यत्वस्य मुख्यार्थतैवोक्ता । न च विरो-
धः; कम्पनाधिकरणोक्तरीत्या समन्वयतात्पर्येण तत्त्वप्रदीपप्रवृत्तेः ।
'वज्रवत्' इत्यादाविव यथा कथंचिद्रूढपरत्वाभिप्रायेण सुधाप्रवृत्तेः ।
ननु कथमन्नमयशब्दः तत्प्राचुर्यार्थो युज्यते । “ ओषधीभ्योऽन्नम् । अ-
न्नात्पुरुषः” ( तै. उ. २ - १ - २.) इति प्रसिद्धान्नविकारदेहमुक्त्वा
“ स वा एष पुरुषोऽन्नरसमयः” ( तै. उ. २ - १ - ३.) इति य
एव पुरुषः सोऽन्नरसमय इति अन्नविकारपुरुषपरामर्शादनुवा-
दात् । अन्यथा तद्विरोधः स्यादित्यत आह—स इति । 'अविरो-
धः' इत्याकृष्यते । तथा चेति वाक्येन यस्मादात्मनः आकाशा-
दिकमुत्पन्नं स एष पुरुष इति 'अन्यस्य' देहादन्यस्यात्मनः 'प्रा-
रम्भात्' परामर्शात् 'अविरोधो' न परामर्शविरोधः । किमर्थमसौ
परामृश्यते इत्याशङ्कापनोदनाय परामर्शादिति वक्तव्ये प्रारम्भादित्या-
ह । पूर्वमात्मनः आकाशादिकारणत्वमुक्त्वा तस्यैव 'अभ्यर्थे' अन्यप-
र्याय अन्नमयादिपञ्चरूपत्वप्रदर्शनाय पुनः 'प्रारम्भात्' प्रक्रान्त-
त्वादित्यर्थः । 'स वा' इति श्रुतौ वैशब्दोऽवधारणे प्रसिद्धौ वा । अ-
न्नशब्दो भावप्रधानः । रसत्वमुत्तमत्वं, तच्चान्नत्वविशेषणम् । तथा च
यस्मात्सत्यत्वादिलक्षणोपेतादात्मन आकाशादिकमुत्पन्नं 'सः' आ-
त्मपदोदितो भूतादिस्रष्टा 'एषः' जीवशरीरगः 'पुरुषः' पूर्णषड्गु-
णः देहाख्यपुरिशयः भगवान् 'अन्नरसमयः' उत्तमान्नत्वपूर्ण इत्यर्थः ।
तैत्तिरीयभाष्ये तु—“अन्नस्यात्तृत्वादिरूपस्यान्नमयशरीरस्य यतः
सारभूतो विष्णुः अतोऽन्नरसमयः” इति अन्नशब्दस्यावृत्त्या रसशब्द-
स्य क्रमव्यत्यासेन च व्याख्यातम् ॥
( १६ ) नन्वेवं मयट्शब्दस्योभयार्थे प्रयोगादत्राप्युभयपक्षे दोषदर्श-

९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
बहुरूपत्वाच्च न विकारित्वमविरोधश्च ।
( १६ ) न च पृथक्कल्पना युक्ता । स्वरूपे च युज्यते प्रचुर
नात्पञ्चानां मयटां प्राचुर्यमेवार्थो न विकारित्वमित्यत्र किं नियामक
म् ?, किञ्चान्नमयादीनां पञ्चानां ब्रह्मताऽभ्युपगतौ 'एकमेव' (छां.
उ. ६-२-१.) इत्यादिश्रुतिविरोधः स्यात् इत्यत आह—येऽन्नं ब्रह्मेति ॥
अत्रादिशब्देन 'ये प्राणं ब्रह्मोपासते' (तै.उ.२-३-१.)। 'आनन्दं ब्रह्मणो
विद्वान्' (तै.उ.२-४-१.) 'विज्ञानं ब्रह्म चेद्वेद' (तै.उ.२-५-१.) 'अस्ति
ब्रह्मेति चेद्वेद' (तै.उ.२-६-१.) इति वाक्यजातं गृह्यते । अस्ति आन
न्दरूपं तद्ब्रह्म । 'इत्यादि' इति लुप्तसप्तमीविभक्तिकम् । 'श्लोकेषु'
इति शेषः । ब्रह्मशब्दपदं तच्छ्रवणोपलक्षकम् । एवं प्रदर्शिते हेतुद्वये
ऽध्याहृतहेतुद्वाराऽन्वययोग्ये क्रमेण साध्ये आह—न विकारित्वमि
ति । 'मयटामर्थ इति निश्चीयते' इति शेषः । 'अविरोधो' विरोधा
भावः । चशब्दोऽप्यर्थः । तथा चेत्थं योजना—'येऽन्नं ब्रह्म' इत्यादिषु
अन्नमयादीन्प्रत्युदाहृतश्लोकेषु अन्नमयादिविषयत्वेन 'ब्रह्मशब्दात्'
ब्रह्मशब्दश्रवणादनन्यथासिद्धतत्समभिव्याहारात् उभयथाऽपि स
म्भवतां मयटां प्राचुर्यमेवार्थः न विकारित्वमिति निश्चीयते । अतो न
नियामकाक्षेपो युक्तः । एवमेकस्यैव ब्रह्मणो 'बहुरूपत्वाच्च' शब्दादे
कस्यैव बहुरूपत्ववचनोपपत्तेः 'एकमेव' इति श्रुतिविरोधोऽपि नेति ।
पूर्वं 'तस्मिंश्च प्रसिद्धब्रह्मशब्दाभ्यासात्' इत्युक्त्वा अत्र ब्रह्मशब्दा
दित्येतावन्मात्रोक्तेः प्रयोजनं तु "ब्रह्मशब्दस्यानन्दविज्ञानमययोरिवा
न्येष्वभ्यासाभावात्तेष्वसिद्धिपरिहारेण ब्रह्मशब्दश्रवणरूपसर्वसाधा
रणहेत्वर्थकथनमेव" इत्युक्तं चन्द्रिकायाम् ॥
( १६ ) अत्रान्यैः आनन्दमय एव ब्रह्म । तद्गतमयट् एव प्राचुर्यार्थ
ता । अन्नमयादयस्तु कोशाः । तद्गतानां मयटां च विकारार्थत्वमित्यु
क्तम्। तदयुक्तमित्याह—न चेति ॥ प्रायपठितमयटां 'पृथक्कल्पना'अर्थद्वै
विध्यकल्पना न युक्ता। ततश्चान्नमयादीनां मध्ये एकस्यैव ब्रह्मत्वकल्प
ना च न युक्तैव, प्रायपाठविरोधेन क्लिष्टत्वादित्यर्थः । यस्तु वादी अन्न
मयादीनां पञ्चानामप्यब्रह्मतां ब्रूते, स तु सूत्रकारेणैव पूर्वपक्षीकृत इ
ति न तत्पक्षं प्रत्याक्षिपद्भाष्यकारः । तत्त्वप्रदीपे तु—न चेति वाक्यं—
न च मायिना पृथक्कल्पना 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. उ. २-१-१.)
'तस्माद्वा एतस्मादात्मनः' (तै. उ. २-१-२.) इत्यत्र ब्रह्मोच्यते