पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
७० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ७ ) 'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वद-
न्ति' । ( कठ. २-१५० )
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।
( भ. गी. १५-१५० ) इत्यादिश्रुतिस्मृतिभ्यश्च ।
( ८ ) अवाच्यत्वादिकं त्वप्रसिद्धत्वात् ।
सर्वप्रमाणेषु च 'नावचनेन' वचनेतरप्रमाणेनेक्षणं सम्भवति औप-
निषदत्वाद् वचनेनैव भवदीक्षणं नावचनेन वचनवृत्त्यन्यलक्षणादि-
ना सम्भवति । कुतः ? 'अवचनेन' भावप्रधानो बहुव्रीहिः । अवचन-
त्वेनावाच्यत्वेन निमित्तेन अतः परिशेषादीक्षणं वाच्यत्वमेव साध-
यतीति ॥
( ७ ) ननु श्रुतिसिद्धमवाच्यत्वं कथमीक्षणीयत्वयुक्तिमात्रेण दू-
ष्यते ? 'प्राबल्यमागमस्यैव' इति युक्तितः श्रुतेः प्राबल्योक्तेरित्यतः
सौत्रो हेतुरागमोपलक्षक इति भावेन वाच्यत्वे श्रुतिस्मृती चाह—
सर्वे इति ॥ कठानामियं श्रुतिः । सर्वे वेदा 'यत्पदं' यस्य ब्रह्मणः स्व-
रूपं 'आमनन्ति' मुख्यवृत्त्या सतात्पर्यं प्रतिपादयन्ति । सर्वे वेदाः स-
र्वाणि तपांसि प्रसिद्धानि 'यन्' ब्रह्म प्रति 'वदन्ति' तदुद्देशेन कर्त-
व्यानीति बोधयन्तीत्यर्थः । तत्त्वप्रदीपरित्या 'तपांसि' आलोचनरूपा
युक्तय इति वा । सर्वैर्वेदैरहमेव 'वेद्यो' मुख्यतः प्रतिपाद्यः । अहं
'वेदान्तकृत्' ब्रह्मसूत्रकृत् 'वेदवित्' वेदार्थज्ञानी चेति गीतास्मृत्य-
र्थः । आदिपदात् 'अथ कस्मादुच्यते' 'नामानि सर्वाणि' 'वचसां
वाच्यमुत्तमम्' इत्यादेस्सङ्ग्रहः । तथाच श्रुतौ 'आमनन्ति' इति सा-
क्षाद्वाच्यत्वोक्तेः, स्मृतौ च 'अहमेव' इत्यवधारणोपपत्तये मुख्यतया
वेद्यत्वस्य विवक्षणीयत्वात् तस्य च वाच्यत्वं विनाऽयोगात्सर्वशब्द-
लक्षणायाश्चासम्भवाद्वाच्यत्वमेवाभ्यां सिद्ध्यतीति भावः । स्मृतिभ्य
श्चेत्यस्य वाच्यमेवेत्यनेनान्वयः । आदिशब्दोपात्त श्रुतिस्मृत्यपेक्षया ब-
हुवचनम् । न केवलमीक्षणीयत्वहेतोरिति चार्थः ॥
( ८ ) नन्वेवं वाच्यत्वस्य युक्त्यादिसिद्धत्वे अवाच्यत्वाज्ञेयत्वा-
विधायकोदाहृतश्रुतेः 'यतो वाचः' इत्यादिरूपायाः का गतिरित्यत
आह—अवाच्यत्वादिकमिति ॥ अज्ञेयत्वमतर्क्यत्वं च आदिशब्दार्थः ।
[ अधि - ५. सू - ५. ] दीपिकासहितम्. ७१
(९) न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः । इतिवत् ॥
(१०) अप्रसिद्धेरेवाच्यं तद्वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम् ॥ इति गारुडे ।
(११) न चाशब्दत्वमितरसिद्धम् ॥
तुशब्दः शङ्काव्यावर्तकः । भिन्नक्रमेणावधारणे वा । तथा च 'अप्रसि
द्धत्वात्' साकल्येन अगोचरत्वान्निमित्तादेव ब्रह्मणि 'अवाच्यत्वादि
कं' अवाच्यत्वादिव्यपदेशो युज्यत इति न तद्विरोध इति भावः ।
अनेन सिद्धान्ते 'अशब्दम्' इत्यादेरप्रसिद्धत्वात्साकल्येन वाचकश
ब्दशून्यमित्यादिरर्थः । 'अवचनेनै' इत्यस्य तु साकल्येन वचनमन्तरे
णेत्यर्थ इत्युक्तं भवति ॥
(९) नन्वप्रसिद्धिनिमित्तकोऽवाच्यत्वादिव्यपदेशः क्व दृष्ट इत्य
त आह-न तदिति॥ यस्मात् 'विपश्चितो' ज्ञानिनो मेरो रूपं पश्यन्तोऽ
पि 'ईदृगिति' साकल्येन 'न पश्यन्ति' न जानन्ति । अनेनाप्रसिद्धत्वहेतुः
सूचितः। तस्मान्मेरो रूपं न ज्ञेयं प्रत्यक्षेण। न वाच्यं शब्देन। 'न तर्क्यते'
नानुमीयते च लिङ्गेनेत्युच्यत इत्यर्थः । इतिवदिति । इति वाक्य इवे
त्यर्थः। अस्यावाच्यत्वादिकमिति पूर्वेणान्वयः। तथा च यथा मेरुरू
पे अप्रसिद्धिनिमित्तकावाच्यत्वादिव्यपदेशस्तथा ब्रह्मण्यपीति भावः ।
(१०) न केवलं 'पश्यन्तः' इत्युक्तस्यान्यथाऽनुपपत्तिमात्रेणैव अप्र
सिद्धेरज्ञेयत्वातर्क्यत्वावाच्यत्वव्यपदेश इति व्यवस्था सिद्धा, अपि
तु स्मृतिसिद्धा चेति भावेनाह-अप्रसिद्धेरिति ॥ तद्ब्रह्म यतः 'परं'
पूर्ण अतस्साकल्येनाप्रसिद्धत्वादवाच्यमुच्यते । सर्वे सदागमोक्तत्वा
त्तप्रसिद्धत्वाद्वाच्यं च भवतीत्यर्थः । एवमप्रसिद्धिप्रसिद्धिभ्यां तत्
अतर्क्यं अनुमेयं च अज्ञेयं ज्ञेयं ज्ञानिप्रत्यक्षगम्यं च 'स्मृतं' स्मृति
कारैरुक्तमित्यर्थः । गारुडे इत्यनन्तरं उक्तमिति शेषः। अस्याप्यवा
च्यत्वादिकमित्यनेनान्वयः ॥
(११) एवं 'यतो वाचः' इत्यादिश्रुतीनां युक्त्यादिबलादर्थान्त
रोपपत्तेर्न तद्बलाच्छब्दावाच्यं ब्रह्मेति सूत्रं व्याख्यायापव्याख्यां प्रत्या
ख्याति-न चेति ॥ चशब्दः स्वसिद्धमपि नेतिसमुच्चये । तथा च जग
त्कारणं 'अशब्दं' प्रधानं न, कुतः ? अशब्दं हि तत् । 'अशब्दं' प्रधा
७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( १२ ) सू—ॐ ॥ गौणश्चेन्नात्मशब्दात् ॥ ॐ ॥ ६ ॥
( १३ ) न च गौण आत्मा दृश्यो वाच्यश्च न निर्गुण इति यु
क्तम् । आत्मशब्दात् ।
नं कारणं नेति वा, कुतः? ईक्षतेः 'तदैक्षत' इति जगत्कारणस्येक्षणक
र्तृत्वश्रवणात्प्रधानस्य चाचेतनत्वेन तदसम्भवादिति साङ्ख्यमतनि
राकरणपरतया व्याख्याने प्रथमप्रतिज्ञायां हेतूकृतं 'अशब्दत्वं' अश्रौ
तत्वं 'इतरसिद्धं' स्वेतरसाङ्ख्यसिद्धं न, न केवलमेतावत्, किन्तु
स्वसिद्धमपि न, साङ्ख्येन वैदिकत्वाभ्युपगतेः । सूत्रकारेण 'अजामे
कां' (तै. आ. १०-१०-१०) इत्यादिश्रुत्युक्तत्वाङ्गीकारात् ।
यद्वा—तत्त्वप्रदीपरीत्या मायिना साङ्ख्यं प्रति हेतुत्वेनोपन्यस्त
मशब्दत्वं मायीतरस्य साङ्ख्यस्य न सिद्धं नापि साङ्ख्येतरमायिसिद्ध
मुक्तहेतुभ्यामेव। तथा चासिद्धिरिति न तद्व्याख्यानं युक्तमितिभावः ।
एवमशब्दत्वं श्रौतत्वं ब्रह्मणस्साङ्ख्येतरमायिसिद्धं न, तन्मते अवाच्य
त्वात् । चकारादीक्षितृत्वमपि सिद्धं न, तस्येक्षतिस्वरूपत्वादित्यपि
व्याख्येयम् । तथा च हेतुद्वयमपि स्वपक्षप्रतिकूलमिति न परव्याख्या
युक्तेति भावः । तत्त्वप्रदीपे तु 'न च' इत्यादिभाष्यं 'इतरसिद्धं' मा
यिसिद्धमशब्दत्वं न श्रुत्यर्थः उक्तन्यायेन ब्रह्मणो वाच्यत्वात् । एवं
'अशब्दत्वं' अवाच्यत्वं ब्रह्मण इतरस्य मायिनोऽपि न सिद्धम् । ब्रह्म
णि व्यवहाराभावप्रसङ्गात् इति द्वेधा व्याख्याय परकृतव्याख्याप्रत्या
ख्यानाय परोक्तहेतोष्टीकारीत्याऽसिद्ध्युक्तिपरतयाऽपि व्याख्यातम् ॥५॥
( १२ ) ईक्षणीयत्वस्य हेतोर्व्यधिकरणासिद्धिमाशङ्क्य समाधातुं
सूत्रम्—'ॐ गौणश्चेन्नात्मशब्दात्' इति ॥ अस्यार्थः—यतः 'आत्म
न्येवात्मानं पश्येत्' इत्यादिश्रुत्युक्त आत्मा 'गौणः' सत्त्वादिगुणबद्धो
जीव एवातस्तदन्यथाऽनुपपत्त्या वाच्योऽपि स एव स्यान्न निर्गुणः प
रमात्मेति चेत्-न कुतः? 'आत्मानं पश्येत' इतीक्षणीये तस्मिन्नात्मशब्द
श्रवणादिति । आत्मपदसामानाधिकरण्याय पुल्लिङ्गनिर्देशः ॥
( १३ ) सूत्रं व्याचष्टे—न चेति ॥ अत्र यतो ' दृश्यः' ईक्षतिश्रुतौ
दृश्यतयोक्तः 'आत्मा' जीवाख्यो गौण एव अतस्तदन्यथानुपपत्त्या
वाच्योऽपि स एव स्यात् 'न निर्गुणः' गुणातीतो विष्णुः 'दृश्यः'
ईक्षतिश्रुत्युक्तः । गौणग्रहणे बाधकस्येतरज्ञापकस्य चाभावादिति
[ अधि - ५. सू - ६. ] दीपिकासहितम्. ७३
( १४ ) यो गुणैस्सर्वतो हीनो यश्च दोषविवर्जितः ।
हेयोपादेयरहितः स आत्मेत्यभिधीयते ।
एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् ।
अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते । इति वामने ।
( १५ ) ' द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च । तत्र यः
भावः । अतो न स वाच्यः इति चोद्यं न युक्तम् । कुतः ? ' आत्मश-
ब्दात् ' ' आत्मन्येव ' इति वाक्ये ईक्षणीये तस्मिन् आत्मशब्दश्रवणा-
दृश्यो निर्गुण एव, अत एवैक्षत्या लिङ्गेन वाच्योऽपि स एव भवेदिति
योजना । यद्यपि सुधायां गौणपदं मायाशबलितैश्वर्यादिधर्मयुक्तसगु-
णब्रह्मपरतया व्याख्यातः तथाऽपि पूर्वपक्षिणो मायाशबलितं वा गु-
णबद्धा जीवा वा दृश्या वाच्याश्च, न सर्वथा निर्गुणं ब्रह्मेत्याशयान्न
विरोधः ॥
( १४ ) नन्वात्मशब्दसद्भावे कुतोऽयं निर्गुणो न गौण इत्यत आह—
य इति ॥ यः ' सर्वतः ' प्रकारेण 'गुणैः' सत्त्वादिभिः शून्यः यश्च दुः-
खादिदोषरहितः यश्च हेयोपादेयरहितः । भावप्रधानोऽयम् । हेयत्व-
सहितोपादेयत्वरहित इति । उपादेय एवेत्यर्थः । तत्त्वप्रदीपरित्या
स्वाभाविकदोषरहितो गुणपूर्णत्वेनाप्तकात्वाद्युपादेयरहित इति
वा । तत्त्वोद्योतटीकारीत्या दोषाभावाद्धातुरभावाद्वा हेयत्वरहितः,
लौकिकगुणाभावादुपादातुरन्यस्य स्वतन्त्रस्याभावाद्वा उपादेयत्वर-
हितः अनिष्टाभावाद्धेयं नास्ति, अपूर्त्यभावादुपादेयमस्य नास्तीति
वा तथोक्तः । य एवं भूतस्स आत्मेत्यभिधीयते । य एतद्विरुद्धस्वभा-
ववान् सोऽनात्मेति सतां ' मतं ' सम्मतमित्यर्थः । क्वचित् ' हृदि
ह्येष आत्मा ' इत्यादावेतदन्यस्वभावेऽप्यात्मपदप्रयोगात् कथं सोऽना-
त्मेत्यत आह—अनात्मनीति । ' अनात्मनि ' आत्मशब्दमुख्यार्थभिन्ने
जीवे ' आत्मशब्दः ' ' सोपचारः ' उपचारः परममुख्यवृत्त्यन्यमुख्यवृ-
त्तिः तत्सहितस्तद्वृत्तिक इत्यर्थः । तुशब्दो विशेषार्थः । ' वामने ' इत्य-
नन्तरं ' निर्गुणैकनिष्ठत्वेनोक्तत्वात् ' इति शेषः । अस्य नायं दृश्यो वा
च्यश्च गौणः, किन्तु निर्गुण एवेत्यनेनान्वयः ॥
( १५ ) अत्रैव प्रमाणान्तरमाह—द्वे वावेति ॥ ' ब्रह्मणः ' परब्रह्मणः
रूपं च रूपं च रूपे । तत्राद्यो रूपशब्दः स्वरूपपरः द्वितीयो रूप्यते
१०
? मwith an anusvara? Or is itन? Wait, let's look at line 14 again: स तां स म्म ता मं ल्ये र्थः? Wait, does त्यhave an e-matra? Look aboveत्य: YES! There is a slant line going up to the left! That's an e-matra! Wait, an e-matra on त्यmakes itत्ये? No, wait! Is the e-matra on त्यor on the letter before it? Wait! Could the word be: सतां सम्मतान्वय्यर्थः? No. सतां सम्मतामेत्यर्थः? Wait, what if it is: सतां सम्मतामित्यर्थः? Let's look at the character: स तां स म्म ता मं त्य र्थः Wait, let's look at the dot aboveता: Is that an anusvara? Or a stray dot? Notice on this page, there are several small spots/ink marks (e.g. line 8 above पौन, line 10 under र्थः`).
[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७५
( १८ ) न हि गौणात्मनिष्ठस्य मोक्षः ।
( १९ ) यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन् सन्दोहे
गहने प्रविष्टः ।
स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स
उ लोक एव ( बृ. उ. ६-४-१३. )
इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते ।
धस्य आत्मज्ञानिनः 'मोक्षोपदेशात्' नात्मशब्दमुख्यवाच्यो गौण इ-
ति सूत्रार्थः ॥
( १८ ) तन्निष्ठस्य मोक्षोपदेशोऽपि कुतोऽयमात्मा न गौण इत्यप्रयो-
जकत्वमाशङ्कयाह - न हीति ॥ गौणमोक्षपदसमभिव्याहृतो हिशब्दो
विरोधाख्यहेतुसूचकः । तथा च- 'हि' यस्मात् 'गौणात्मनिष्ठस्य'
गुणबद्धजीवज्ञानिनः तज्ज्ञानाद्गुणबन्धनिवृत्तिरूपो 'मोक्षो' न स-
म्भवति, विरोधात् तस्मात् 'न हि' नाप्रयोजकता शङ्क्येत्यर्थः ॥
( १९ ) असिद्धिशङ्कां परिहर्तुं कोऽसावात्मनिष्ठस्य मोक्षोपदेश इ-
त्यतस्तं दर्शयति - यस्येति ॥ अत्र श्रुतिः स्वप्रयुक्तमुशब्दं एवेति व्या-
चष्टे । 'उ' एकः प्रधान इति वा । तच्छब्दो विष्णुतज्ज्ञानिपरः । तथा
च - 'हि' यस्मात् 'सः' विष्णुः 'सर्वस्य कर्ता' तस्मादेव 'वि-
श्वकृत्' वायुकर्ता 'प्रतिबुद्धः' स्वतस्सर्वज्ञः 'अस्मिन् सन्दोहे' स-
न्दुह्यते पुरुषार्थो अनेनेति वा कार्यकारणसंघातरूपत्वाद्वा भूतसमुदा-
यरूपत्वाद्वा सन्दोहनामके मध्यदेहे स्थिते 'गहने' गम्भीरे हृदयगु-
हास्थाने 'प्रविष्टः' सः 'आत्मा' विष्णुः 'यस्य' येनोपासकेन 'अ-
नुवित्तः' सम्यग्ज्ञातः 'तस्य' अधिकारिणः 'उः' प्रधानः तस्य वि-
ष्णोर्यो 'लोकः' स एव लोकः स्थानं भवतीत्यर्थः । 'सन्दोहे' इ-
ति पाठेऽप्ययमेवार्थः । 'सन्देहे' इति पाठे अनेकार्थसङ्कट इत्यर्थः ।
तत्त्वप्रदीपे तु - सः विश्वकृत् कृतकृत्यः । कुतः ? यतः स हि परमा-
त्मा प्रसन्नः सर्वशक्तिः सर्वमस्य ज्ञानिनः कार्यं करोतीत्युक्तम् । अ-
स्मिन् पक्षे प्रथमः प्रथमान्ततच्छब्दो विष्णुज्ञानिपरः, विश्वशब्दः कृ-
त्यपरः, सर्वशब्दो ज्ञानिकार्यपरः । टीकाकृतपक्षे तु-प्रथमः प्रकृतवि-
ष्णुपरः, विश्वशब्दो वायुपरः, सर्वशब्दो जगत्पर इति भेदः । पक्षद्व-
येऽपि द्वितीयतृतीयौ विष्णुतल्लोकपरौ । 'इति' इत्येवंरूपे बृहदार-
७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २० ) अयमात्मा ब्रह्म । ( मा. उ. १-२, बृ. उ.२-५-१९. )
( २१ ) ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥
चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो ।
जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥
ण्यके ' आत्मनिष्ठस्य ' तज्ज्ञानिनो ' मोक्ष उपदिश्यते ' । अस्य यत
इत्युपदिश्यते अतो ' न गौण आत्मा ' इति वक्ष्यमाणप्रतिज्ञाऽन्वयः ।
सूत्रस्य तु न गौण आत्मशब्द इति पूर्वेणान्वयः । आत्मेत्यनेन सौत्रत
च्छब्दो नात्मशब्दपरः, किन्त्वर्थतः प्रधानात्मपर इत्युक्तं भवति ॥
( २० ) आत्मशब्दो विष्णावेव मुख्यः न जीवेष्वित्यत्र न केवलं त
न्निष्ठस्येत्यादिनोक्तमनुमानं मानम्, किन्तु सूत्रकृदभिप्रेताः स्पष्टश्रुति
स्मृतयश्चेति भावेन तां ताश्चाह—अयमिति ॥ ब्रह्मेत्यन्तस्य उपदिश्य
त इति पूर्वेणान्वयः । ' अयमात्मा ' रमाब्रह्मादिषु आदानादिकर्तृत्वेन
स्थितः आत्मा ' ब्रह्म ' विष्णुरेवेति माण्डूकश्रुत्यर्थः “ सोऽयं विष्णु
रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा ” इति मा
ण्डूकभाष्योक्तः ॥
( २१ ) “ वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्म” इत्यपरं
भागवतवाक्यम् । अद्वयं समाधिकशून्यं ज्ञानस्वरूपं यत्तत्त्वं वदन्ति
ज्ञानिनः तत् देशकालादिषु बृंहितत्वात् सर्वान्तर्यामित्वाद्यैश्वर्यादिगु
णवत्त्वाच्च निमित्तात् ' ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ' अभि
धीयत इत्यर्थः । अस्यापि पूर्वेण सम्बन्धः । तत्रैव चतुर्थस्कन्धे “दत्तं ”
इत्यन्यद्वाक्यम् । एतच्च ' अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् '
इति पूर्वार्धेनैवान्वेतव्यम् ।
पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।
काश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥
इति प्रकृतेन समुच्चयर्थस्तथाशब्दः । तथा च—अनसूयाख्या अत्रि
भार्या अत्रेः सकाशात् ' आत्मेशब्रह्मसम्भवान् ' आत्मा विष्णुरीशो
रुद्रः ब्रह्मा चतुर्मुखः आत्मा चेशश्च ब्रह्मा च ते तथोक्ताः तैस्सह भव
न्तीत्यात्मेशब्रह्मसम्भवाः तान् 'अकल्मषान्' अपापान् यो दत्तं दुर्वा
साः सोमश्चैतान् पुत्रान् 'जज्ञे' जनयामासेत्यर्थः । यद्वा—अनसूया अ
त्रेर्दत्तादीन् जनयामास, ते च आत्मेशब्रह्मसम्भवा इति विपरिणामेन
[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७७
इतरेष्वात्मशब्दस्तु सोपचारः प्रयुज्यते ।
तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥
सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।
परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततस्मृतः ॥
इति पाद्मे ।
व्याख्येयम् । अत्र ब्रह्मावेशेन सहोत्पन्ने चन्द्रे निरुक्तसम्भवशब्दो मु-
ख्यः । साक्षाद्विष्णुरुद्रांशत्वेन तत्सम्भूतयोर्दत्तदुर्वाससोस्तु छत्रिन्या-
येनामुख्य इति द्रष्टव्यम् । यद्यपि “अत्रेः पत्न्यनसूया त्रीन् जज्ञेऽति
यशसः सुतान् । दत्तं” इति भागवतपाठः, तथाऽप्यनुव्याख्याने एवं
पठितत्वात्तथैव सुधायां व्याख्यातत्वात्तदन्यकल्पीयं पाठान्तरं भवि-
ष्यतीत्यदोषः । अस्यापीत्युपदिश्यत इत्यनेनान्वयः । चेतनस्त्विति पा-
द्मवाक्यम् । ‘प्रभो’ इति कस्य चित्सम्बोधनम् । तत्रेति शेषः । आ-
द्यस्तुशब्दो विशेषार्थे । द्वितीयोऽवधारणे । तथा च—‘जीवाः ब्रह्मा-
दयः प्रोक्ताः आत्मा तु’ तच्छब्दमुख्यवाच्यस्तु ‘जनार्दनो’ विष्णुः
‘एकः’ एव प्रोक्तः प्रमाणेषु । ‘इतरेषु’ ब्रह्मादिषु ‘आत्मशब्दः सोप-
चारः’ परममुख्यवृत्त्यपेक्षया हीनवृत्तियुक्त इति ज्ञानिभिरभिधीयत
इत्यर्थः । कुतस्तस्यैवात्मत्वं नान्येषामित्यत आह—तस्येति । यतः
‘तस्य’ निर्गुणस्य आत्मनो ‘ज्ञानान्मोक्षो’ भवतीति “यस्यानुवित्तः”
( बृ. उ. ४-४-१३. ) इत्यादौ ‘उदाहृतः’ उक्तः अतोऽयमात्मा निर्गुणो
विष्णुरेव नान्यः। कुतः? तस्यैव विष्णोर्निर्गुणस्य मोक्षदातृत्वसम्भवात्,
अन्येषां तदसम्भवादित्यर्थः । आत्मज्ञानान्मोक्षोपदेशोऽपि कुतो नेतरे-
षामात्मत्वं तेषामपि मोक्षदातृत्वसम्भवादित्यत आह—सगुणा इति ।
तुरवधारणे । तथाच—‘अपरे’ विष्णोरन्ये ब्रह्मादयो यतः ‘सगुणाः’
सत्त्वादिगुणबद्धा एव न स्वतस्तद्विधुराः अतः ‘तज्ज्ञानान्नैव’ सर्वथा
‘मुच्यते’ अधिकारीत्यर्थः, गुणबद्धात्मविज्ञानात् गुणबन्धनिवृत्तिरूप-
मोक्षायोगादिति भावः । ननु विष्णावपि निर्गुणत्वेनास्तु मोक्षदातृत्व-
सम्भावना, तन्निश्चयस्तु कुत इत्यत आह—परो हीति । ‘हि’ यस्मात्
‘विष्णुःपरः’ स्वतन्त्रः । तत्त्वप्रदीपरीत्या सर्वोत्तम इति वा, ‘पुरुषः’
पूर्णः ‘तस्मान्मोक्षस्ततो’ विष्णोर्भवेदेवेति स्मृतः स्मृत्युक्त इत्यर्थः ।
‘इति पाद्मे’ इत्यस्यापि इत्युपदिश्यत इति पूर्वेणान्वयः ॥ ७ ॥
७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २२ ) सू-ॐ ॥ हेयत्वावचनाच्च ॥ ॐ ॥ ८ ॥
'तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ ।
अमृतस्यैष सेतुः ( मुं.उ. २-२-५. ) इत्यन्येषां हेयत्ववच-
नादस्याहेयत्ववचनाच्च गौण आत्मा ॥
( २३ ) सू-ॐ ॥ स्वाप्ययात् ॥ ॐ ॥ ९ ॥
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ (बृ.उ.५-१-१०.)
( २२ ) युक्त्यन्तरेणात्मशब्दादितो न गौण इत्याह सूत्रकृत्-हेय-
त्वेति ॥ अत्र हेयत्वं नाम मोक्षार्थे प्राधान्येन ज्ञेयत्वेनाविहितत्वम् । त-
था च-न केवलं तन्निष्ठस्य मोक्षोपदेशात्, किन्तु “तमेवैकम्” इति
श्रुतौ आत्मनो हेयत्वावचनात्, प्रत्युत 'जानथ' इत्यहेयत्ववचनात्, जीव-
स्य च “अन्या वाचो विमुञ्चथ” इति मुमुक्षुभिर्हेयत्ववचनाच्चेति
सूत्रवृत्तिभिप्रेत्य सूत्रं व्याचष्टे-तमिति । हे ऋषयः 'तं' आत्मानं
विष्णुं 'एव एकं' प्रधानं 'जानथ' जानीध्वम् । 'अन्याः' जीवादि-
विषयिणीः 'वाचः विमुञ्चथ' त्यजत, प्राधान्येन विष्ण्वितरान् न
जानीध्वमित्यर्थः । 'जानथ आत्मानं' इति विश्लेषो विष्णोः सर्वेभ्यो
विलक्षणत्वप्रदर्शनार्थः । विकरणव्यत्ययस्तु छान्दसः । अमृतस्येत्येक-
वचनं समुदायविवक्षया । तथा च-‘अमृतस्य’ मुक्तवर्गस्य ‘एषः’
विष्णुः 'सेतुः' मुख्याश्रय इत्यर्थः । 'इति' इत्येवंरूपायां मुण्डकश्रु-
तौ 'अन्येषाम्' जीवानां 'हेयत्ववचनात्' इत्यनेन चशब्दसमुच्चेयं द-
र्शितम् । सौत्रनञो व्यत्यासेन अन्वयम् अभिप्रेत्य समुच्चेयान्तरमाह-अ-
स्य विष्णोरहेयत्वेति । चशब्दः समुच्चये । सूत्रे गौणशब्दानुवृत्तस्य
“न गौण आत्मशब्दः” इत्यस्यार्थमाह-नेति । गौण आत्मशब्दमुख्य-
वाच्यो न, किन्तु निर्गुणो विष्णुरेवेत्यर्थः । तथा च-आत्मशब्दादीक्ष-
तिश्रुत्युक्तोऽपि निर्गुण एवेति सिद्धम् । तस्येक्षत्यन्यथाऽनुपपत्त्या वा-
च्यत्वमिति भावः ॥ ८ ॥
( २३ ) युक्त्यन्तरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमु-
पन्यस्यति-स्वाप्ययादिति ॥ सूत्रं व्याचष्टे-पूर्णमिति । 'अदो' मू-
लरूपं 'पूर्ण' 'इदं' अवताररूपं च 'पूर्णम्' । 'पूर्ण' अवताररूपं
सृष्टिकाले 'पूर्णात्' मूलरूपात् 'उदच्यते' उद्गच्छति । तत्त्वप्रदीप
[ अधि - ५. सू - ९. ] दीपिकासहितम्. ७९
" स आत्मन आत्मानमुद्धृत्यात्मन्येव विलापयत्य
थात्मैव भवति " ।
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः ।
एकीभूय पुनश्शेते निर्दोषो हरिरादिकृत् । इति ।
( २४ ) स्वस्यैव स्वस्मिन्नप्ययवचनात् ।
रीत्या अमुष्मादिदं सङ्ख्यामात्रेणोच्यते एकमेव बहुसङ्ख्यं भवति
विशेषादेवैति वा । प्रलये मूलरूपं 'पूर्णस्य' स्वस्य 'पूर्णे' अवतार
रूपं 'आदाय' स्वीकृत्यैकीभूय 'पूर्णमेव' अन्यत्रालिनं सदैव स्वयं
'अवशिष्यते' इति बृहदारण्यकश्रुत्यर्थः । 'स' इत्यन्या श्रुतिः । तदर्थ
स्तु—'स' विष्णुः 'आत्मनः' स्वस्मात् मूलरूपात् 'आत्मानं' अव-
तारगतं स्वस्वरूपं 'उद्धृत्य' सृष्टिकाले पृथग्व्यक्तीकृत्य प्रलये 'आ-
त्मनि' स्वस्मिन्नेव 'विलापयति' एकीभावयति । 'अथ' अनन्तरं
स विष्णुः 'आत्मैव' मूलरूप्येव 'भवति' अवशिष्यत इति । 'स दे-
वः' इति स्काान्दस्मृतिः श्रौततच्छब्दार्थविवरणरूपा । 'देवो' द्योत-
नादेः 'निर्गुणः' सत्त्वादिगुणेभ्यो निष्क्रान्तः तत एव गुणकार्यदोष-
हीनः 'पुरुषोत्तमः' क्षराक्षरचेतनोत्तमः 'आदिकृत्' विश्वस्योत्पत्ति-
कर्ता प्रथमकर्ता वा 'सः' श्वेतद्वीपगो 'हरिः' आदिसृष्टौ 'बहुधा
भूत्वा' वराहादिबहुरूपणि सृष्ट्वा 'पुनः' अथ प्रलये 'एकीभूय' मूल-
रूपेण तान्येकतां प्रापयित्वा अहिपतौ 'शेते' योगनिद्रां करोतीत्य-
र्थः । इतीत्यस्य इति श्रुत्युक्तत्वाच्चेत्यध्याहारेण 'वाच्यमेव तत्' इति
परमसाध्येनान्वयः ॥
( २४ ) एतच्छ्रुत्युक्तोऽपि निर्गुणः कुतः? गौण एव किं न स्यादित्य-
तस्तत्र सौत्रं हेतुं सावधारणस्वशब्दावृत्त्या योजयति—स्वस्यैवेति ॥
एवकारो भिन्नक्रमः । इतिशब्द आवृत्तोऽत्रापि योज्यः । वचनादि-
त्यावर्त्तते । न गौण इत्यनुवर्तते । अयमिति शेषः । स्वाप्ययपदं पूर्ण-
त्वस्याप्युपलक्षकम् । तथा च—पूर्णमिति श्रुतौ स्वाप्ययपदोपलक्षि-
तपूर्णत्वस्य वचनात् स्वस्य स्वस्मिन्नेवाप्ययवचनाच्च, स इति स्पष्टश्रु-
तावपि आत्मन्येव विलापयतीति स्वस्य स्वस्मिन्नेवाप्ययवचनात्,
तस्य च निर्गुणहरिनिष्ठतायाः स्मृतौ वचनाच्च अयं निर्गुण एव न
गौण इति योजना । वाच्यत्वे स्वाप्ययस्य साक्षाद्धेतुत्वाभावात् सूत्रे
८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
न हि गौणात्मनि निर्दोषस्य लयः ॥ ९ ॥
( २५ ) न च कासुचिच्छाखास्वन्यथोच्यते ॥
भाष्ये च चशब्दाभावः । यद्यप्यत्रोपलक्षणाभिप्रायकटीकारीत्या पूर्ण-
त्वहेतुसमुच्चायकश्चशब्दोऽनुवर्तनीयः । तथाऽप्यस्य वाच्यत्वे साक्षा-
दहेतुत्वात्तत्र हेत्वन्तरस्य ज्ञापकचशब्दो नानुवर्तनीयः । न च श्रुत्यु-
क्तत्वाच्चेत्यध्याहृतहेतौ चशब्दावश्यंभावात् कथं तदभाव इति वा-
च्यम्, सूत्रश्रुतहेतौ चशब्दाभाव इत्यभिप्रायात् । अत एव टीकायां
तन्नेत्युक्तम् । तथा चायं सूत्रार्थः-न केवलं निर्गुणविष्ण्वाख्यं ब्रह्म ई-
क्षणीयत्वाद्वाच्यम्, किन्त्वेतच्छ्रुत्युक्तत्वाच्च । श्रत्युक्तं निर्गुणमेव न गौ-
णमिति कुतः? पूर्णत्वात्स्वस्य स्वस्मिन्नप्ययाच्च, गौणस्यापूर्णत्वान्
अन्यस्मिन् लयेन स्वाप्ययशून्यत्वाच्चेति । श्रत्युक्तस्वाप्ययपूर्णत्वयोर
सिद्धिपरिहाराय हेतौ साध्यसामानाधिकरण्योपपादनाय च श्रुति
स्मृत्योर्वचनादित्युक्तं भाष्ये । नन्वयं स्वाप्ययवान् अन्यत्रालीनश्च गौ-
णस्स्यात्, निर्गुणोऽन्योऽस्तीति चेत्-न, यद्ययं स्वाप्ययवान् गौणः त-
र्ह्ययं निर्गुणश्चोभौ प्रलयेऽन्यत्र लयेहीनौ तिष्ठतः? उत एकस्मिन्नन्यस्य
लयो भवति? नाद्यः “इदं वा अग्रे नैव किञ्च नासीत्” (तै.ब्रा.२-२-
९-१०) इत्यादिश्रुतिविरोधात्, अत्र प्रलये द्वितीयामात्रनिषेधात् । द्वि
तीये न तावद्गौणस्य निर्गुणे लयः, तस्य स्वाप्ययवत्तया अवस्थानाभ्यु-
पगमात् । तथा च निर्गुणस्य सगुणे लयो वाच्यः । स च न सम्भवती-
त्याह—न हीति । ‘गौणात्मनि’ जीवे ‘निर्दोषस्य’ सत्त्वादिगुणबन्ध-
रूपदोषहीनस्य निर्गुणस्य विष्णोर्लयो नोपपद्यत इत्यर्थः । हिशब्देन
“यत्प्रयन्ति” (तै.उ.३-१०) इत्यादिश्रुतिविरोधादिति हेतुः सूचितः ।
तस्मान्निर्गुणस्य स्वस्मिन्नेव लयो वाच्य इत्यतोऽयमनन्यलीनो निर्गुण
एवेति तस्यैव श्रत्युक्तत्वाद्वाच्यत्वं सिद्धमिति भावः । अत्र नये गौणा-
दिव्यपदेशः सत्त्वादिगुणयुक्तत्वतदभावरूपधर्माश्रयजीवपरमात्मधि-
षयक एव, न तु मुख्यासम्भवे गौणाश्रयणादित्यत्रेव निर्गुणोऽयमित्यत्रे
व वा मुख्यार्थगुणहीनविषय इति सूचनाय निर्गुणस्येति वक्तव्यत्वे
ऽपि निर्दोषस्येत्युक्तम् ॥
( २५ ) नन्वस्तु निर्गुणस्य विष्णोर्वाच्यत्वोपपत्तौ सत्यां कारणत्वे
न शास्त्रगम्यत्वम् । तच्चोपक्रमादिबलात् प्रसिद्धशाखास्वेव कारणत्वे
[अधि - ५. सू - १०.] दीपिकासहितम्. ८१
सू-ॐ ॥ गतिसामान्यात् ॥ ॐ ॥ १० ॥
सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेक
मेव । प्रकाशयन्ते न विरोधः कुतश्चिद्वेदेषु सर्वेषु
तथेतिहासे ॥
इति पैङ्गिश्रुतेर्गतेर्ज्ञानस्य साम्यमेव ॥
न प्रतिपाद्यत्वपर्यवसितम् । अप्रसिद्धशाखासु पुनरन्योऽपि कारणत्वे
न उच्यताम् । न च ता न सन्ति, तासामानन्त्येनेयत्ताऽनिश्चयादित्यत
आह—न चेति ॥ चोऽप्यर्थः । तथा च—‘कासुचित्’ अप्रसिद्धशा
खास ‘अन्यथा’ अन्यो निर्गुणात् सगुणोऽपि ‘अन्यथा’ अकारणत्वादेः
कारणत्वेन आत्मशब्दमुख्यवाच्यत्वेन मोक्षजनकज्ञानविषयत्वेन च,
निर्गुणो वा ‘अन्यथा’ अकारणत्वादिना ‘उच्यते’ उच्यतामिति ‘न’
इति योजना । ‘नान्यथा’ इत्यनेन सूत्रे गौणसूत्रान्नेत्यस्यानुवृत्तिः
अन्यथेत्यध्याहारश्च सूचितः । ‘तत्तु सं’ इत्युक्तादन्यथा नेत्यर्थः । कु
तो नेत्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याचष्टे—गतीति । उत्तरसूत्र
पदाकर्षणेन सर्वाधिकारिसाधारणं गतिसामान्यस्य श्रुतत्वादिति
योजनामभिप्रेत्य असिद्धिपरिहाराय तत्सूत्रसूचितां श्रुतिमाह—सर्वे
इति । वेदा इत्यस्य विवरणं ‘सर्वे’ इति । तथा च—‘सर्वे वेदाः’ त
था ‘सुप्रमाणाः’ सुष्ठु प्रमाणं प्रमाणान्तरं मूलभूतं यासां ताः ‘युक्त
यः’ । ‘तथेतिहासे’ इति वक्ष्यमाणानुरोधादत्रेतिहासा अप्युपल
क्ष्याः । तथा चेतिहासाश्च । ‘ब्राह्मं’ ब्रह्मैकविषयं ‘एकं’ एकविधमे
व परमार्थविषयकत्वात् ‘परमं’ उत्तमं ‘ज्ञानं’ ‘प्रकाशयन्ते’ उत्पा
दयन्ति, न पुनरनेकम् । अतः ‘सर्वेषु वेदेषु’ तथा युक्तिषु ‘तथेतिहा
से’ इतिहासेषु ‘कुतश्चित्’ कश्चिदपि विषयकृतो वा प्रकारकृतो
वा ‘विरोधो न’ इत्यर्थः ज्ञानरूपमेकमेव ब्रह्मस्वरूपं ज्ञापयन्तीति
वा । श्रुतेरिति पञ्चमी तृतीयार्थे । गतेरित्यस्य व्याख्या ज्ञानस्येति ।
सामान्यादिति सौत्रपदे प्रातिपदिकार्थमाह—साम्यमिति । विषयगु
णानामनन्योक्त्या साम्यमित्यर्थः । “न ह्येकत्र ज्ञानानन्दादिकमु
क्त्वाऽन्यत्राज्ञानादिरूपत्वं ब्रह्मण उच्यते” इति तत्त्वप्रदीपोक्तेः क
थ्यत इति शेषः । न तु विषमत्वमिति वा स्वयमेव साक्षान्न त्वन्यमुखे
नेति वा एवशब्दार्थः । तथा च—‘सर्वे वेदा’ इति श्रुत्या स्वयमेव
११
८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २६ ) सू— ॐ ॥ श्रुतत्वाच्च ॥ ॐ ॥ ११ ॥
‘ एको देवस्सर्वभूतेषु गूढः सर्वव्यापी सर्वभूता
[ न्तरात्मा ।
कर्माध्यक्षस्सर्वभूताधिवासः साक्षी चेता केवलो
[ निर्गुणश्च । ” ( श्वे. ६-११. ) इति ।
साक्षाच्छ्रुतेः सर्वशाखोत्पाद्यज्ञानस्य सामान्यात् एकविधत्वोक्तेः न का
सु चिच्छाखासु अन्यथोच्यत इति सूत्रार्थः । अत्र भिन्नविषयप्रकार
केष्वपि ज्ञानेषु ज्ञानत्वेन साम्यसत्त्वात्साम्यादित्युक्तौ विषयप्रकारै
क्यं न सिद्धयतीति सामान्यात् समानत्वात् एकविधत्वात् इत्युक्तं सू
त्रे । भाष्यपदस्याप्ययमेवार्थ इति ध्येयम् ॥ १० ॥
( २६ ) इतश्च निर्गुणं ब्रह्म वाच्यमित्याह सूत्रकृत्—श्रुतत्वाच्चेति ॥
चो हेतुसमुच्चये । तदशब्दं नेति वर्तते । तथा च तद्विष्ण्वाख्यं निर्गुणं
न केवलमीक्षत्यादिभिः नाशब्दं शब्दावाच्यम् । किन्तु “ एकः ” इति
श्वेताश्वतरश्रुतौ ‘ श्रुतत्वाच्च ' स्ववाचकनाम्ना साक्षादुक्तत्वाच्चेत्यर्थ
इत्याशयेन सूत्रोपात्तश्रुतिं पठति—एक इति । ‘ एकः ’ प्रधानः स्व
स्मिन्भेदशून्य इति वा ‘ देवो ’ द्योतनादेः ‘ सर्वभूतेषु गूढः ’ सर्व
प्राणिषु गुप्ततयाऽवस्थितः । न केवलं भूतेषु स्थितः किन्तु ‘ सर्वव्या
पी ’ च देशतः कालतो गुणतश्च सर्वं व्याप्नोतीत्यर्थः । न केवलं सर्व
भूतेषु स्थितिमात्रं, किन्तु ‘ सर्वभूतान्तरात्मा ’ सर्वप्राणिनां अन्तःस्थि
त्वा आ सम्यक् तन्नियन्ता च माता चेति वा । आदानादिकर्तृत्वाद्वा
तथोक्तः । ‘ कर्माध्यक्षः ’ कर्माधिपतिः, “ कर्मोपरि अस्याक्षाणीन्द्रिया
णि वर्तन्त इत्यध्यक्षः ” इति तत्त्वप्रदीपोक्तेः । ‘ सर्वभूताधिवासः ’
सर्वप्राणिनामाश्रयः । सर्वं साक्षादीक्षते पश्यतीति ‘ साक्षी ’ । ईक्षणं
च न प्राकृतं किन्तु चैतन्यस्वरूपमित्याह—‘ चेता ’ ज्ञानरूप इति ।
‘ केवलो ’ जडामिश्रः, समाभ्यधिकशून्य इति वा “ केवलं तादृशा
भावात् ” इति द्वितीयतात्पर्योक्तेः । केवलं चैतन्येनेक्षणमसंप्रज्ञातस
माधिस्थस्य योगिनोऽपि भवतीति तद्व्यावर्तनायाह ‘ निर्गुण ’ इति ।
सत्त्वादिगुणबन्धहीन इत्यर्थः, प्राकृतगुणहीन इति वा । इतिशब्दस्य
‘ श्रुतौ निर्गुणस्य ’ इति पदद्वयाध्याहारेण श्रुतत्वादिति सूत्रेणान्व
यः । “ अत्र वाच्यत्वं प्रतिपादयत्सूत्रं तदुपात्तश्रुत्युदाहरणपूर्वकं पठ
[ अधि - ६. सू - ११. ] दीपिकासहितम्. ८३
न ह्यशब्दं श्रूयते । न चाप्रसिद्धं कल्प्यम् । सर्व
शब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ ५ ॥
६. अधिकरणम् ॥
( १ ) तमेव समन्वयं प्रकटयति 'आनन्दमयोऽभ्यासात्' इत्यादि
ति—एक इति" इति क्वाचित्कटीकापाठानुसारेण भाष्ये क्वचित् श्रु
तिपाठानन्तरं सूत्रपाठो दृश्यते । तत्पक्षे त्वन्वयस्सुलभ एवेति ध्येय
म् । श्रुतेत्वेऽप्यशब्दः किं न स्यादित्यप्रयोजकत्वशङ्कायामाह — न ही
ति । 'हि' यतः 'अशब्दः' अवाच्यः पदार्थो 'न श्रूयते' न श्रुतिप
देनोच्यत इत्यर्थः । अतो नाप्रयोजकत्वं हेतोरिति वाक्यशेषः । विरो
धादित्यपि हिशब्दार्थः । ननु अशब्दस्यापि ब्रह्मणो लक्षणया श्रुतत्वं
किं न स्यादित्यत आह— न चेति । 'अप्रसिद्धं' अवाच्यस्य ब्रह्मणो
लक्ष्यत्वं न कल्प्यमित्यर्थः । कुतः ? यतोऽवाच्यस्य वस्तुनो लक्ष्यत्व
मप्रसिद्धं अत इति व्याप्तिपरत्वेनापीदं योजनीयम् । ननु कथमेतत् ?
गङ्गापदावाच्यस्यापि तीरस्य तत्पदलक्ष्यत्वप्रसिद्धेरित्यत उक्तं— स
र्वेति । 'सर्वशब्दावाच्यस्य' ब्रह्मणो लक्षणायाः वेदपदलक्ष्यत्वस्यायु
क्तेः विप्रतिपन्नं न लक्ष्यं, केनापि पदेनावाच्यत्वात् व्यतिरेकेण ती
रवदिति युक्तिविरुद्धत्वादित्यर्थः । तथा च— नास्माभिः केवलावा
च्यत्वेन लक्ष्यत्वाभावः साध्यते येन तीरादौ व्यभिचारः शङ्क्येत,
किन्तु सर्वशब्दावाच्यत्वेन । तच्च न तीरादिगतं, तस्य तीरादिपदवा
च्यत्वात् । ब्रह्म तु न तथा, तस्य सर्वशब्दावाच्यतयैव परेणाङ्गीकृत
त्वात् । अतो न व्यभिचार इति युक्तिविरोधो दुष्परिहर इति भा
वः । ननु लक्ष्यत्वाभाववति प्रवाहादौ हेत्वभावादसाधारणमिति
चेत्— न, लक्षणायोग्यस्यैव लक्ष्यपदार्थत्वे सर्वपदार्थानामपि कि
ञ्चित्पदलक्षणायोग्यत्वेन तदभावरूपसाध्यस्य कुत्राप्यभावेन स
पक्षस्यैवाभावात् ॥ ११ ॥
॥ इति ईक्ष्यत्यधिकरणम् ॥ ५ ॥
६. अधिकरणम् ॥
( १ ) अथाध्यायपादयोरुपोद्घातत्वेन पीठरूपायामस्यां पञ्चा
ना समस्तेनाध्यायेन प्रायेण ।
त्रिकरण्यां ब्रह्मस्वरूपनिरूपणे अनवशेषात्किमध्यायात्मकशेषग्रन्थेने
त्यत आह—तमेवेति ॥ तथाऽपीत्यादौ योज्यम् । समन्वयशब्दश्च विप
रिणामेनावर्तनीयः । तथा च—तथाऽपि प्रकटनं विनाऽध्यायाख्यशेष
ग्रन्थस्य कृत्यान्तराभावेऽपि ‘तमेव’ ‘ “तत्तु समन्वयात्” इत्यनेन
हेतुतया सामान्यतः सिद्धवदुपन्यस्तमेव समन्वयात् ‘समन्वयं’ उ
पक्रमादिलिङ्गज्ञाप्यं सम्यग्वचनवृत्त्या सर्वशास्त्रीयवचनानां हरौ नि
रूपणं तत्परत्वं ‘प्रकटयति’ प्रतिवाक्यग्रहणेन तद्धेतूपन्यासादिना
प्रपञ्चयति “आनन्दमयोऽभ्यासात्” इत्यादिना अनेन प्रथमेनाध्या
येन सूत्रकार इत्यर्थः । अन्यथा प्रतिज्ञामात्रस्य “तदेव शास्त्रयोनि,
समन्वयात्” इति सिद्धवदुपन्यासमात्रस्य साधकत्वे “विष्णोरन्य
देव शास्त्रयोनि, कुतः ? समन्वया
[ अधि - ६. सू - ११० ] दीपिकासहितम्. ८५
(२) प्रायेणान्यत्र प्रसिद्धानां शब्दानां परमात्मनि समन्व
यः प्रदर्श्यतेऽस्मिन् पादे । नान्यथा तददृष्टेः ।
(३) ब्रह्मजिज्ञासा कर्तव्येत्युक्तम् । तच्च 'ब्रह्म पुच्छं
भूमार्थे 'प्रायः' इत्यव्ययमप्यस्ति इत्यपिशब्दः प्रायोजि । प्रमेयदीपे
ऽपि सान्तस्यैवाव्ययत्वमुक्तम् ॥
(२) तर्हि अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यतः
समन्वेतव्यभेदात् समन्वयेऽप्यवान्तरभेद इति भावेन प्रथमाध्यायप्र
थमपादप्रतिपाद्यं दर्शयति—प्रायेणेति ॥ 'अस्मिन्' प्रथमे पादे 'प्रा
येण' बाहुल्येन 'अन्यत्र' विष्णोरन्यत्र 'प्रसिद्धानां' श्रुत्यादितो लो
कतो वाऽऽपाततो रूढत्वेन प्रतीयमानानां नामात्मकानां 'शब्दानां'
'परमात्मनि' विष्णौ निरुक्तः 'समन्वयः' 'प्रदर्श्यते' प्रपञ्च्यत इ
त्यर्थः । अत्रापि अन्तरधिकरणे अन्तःस्थत्वलिङ्गसमन्वयप्रतिपादनात्
अव्याप्तिनिरासाय—प्रायेणेति । तत्त्वप्रदीपे तु—एक एव भाष्ये प्राये
णेति शब्दः । तस्यैवोत्तरत्रापि सम्बन्ध इत्याशयेन “प्रायेणान्यत्र प्र
सिद्धानामिति च सम्बन्धः” इत्युक्तम् । तथा -आनन्दमयाधिकरणे
लिङ्गविचारात्तदपि प्रायेणेति व्यावर्यमिति चोक्तम् । यद्वा—टीका
यामप्यावृत्त्यभिप्रायेणैकस्यैव पुनरुत्तरत्रापि अन्वयप्रदर्शनाय प्रतीक
ग्रहणं कृतमिति न ग्रन्थवैरूप्यं कल्प्यम् । अतएव तत्त्वप्रदीपानुसारे
ण “आनन्दमयनाम्नः इति टीकायामानन्दमयनामशब्दः आनन्दादि
नामपरो वा योज्यः” इत्युक्तं चन्द्रिकायाम् । अथ परोक्तं पादार्थं दू
षयति—नेति । 'अन्यथा' प्रथमे स्पष्टब्रह्मलिङ्गानां शब्दानां द्वितीय
तृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः प्रतिपाद्यते । तयोस्तु सविशेष
निर्विशेषविषयतया भेदः । चतुर्थपादे तु प्रधानस्याशाब्दत्वोक्तिरित्ये
वं रूपोऽस्मदुक्तादन्यप्रकारेण पादार्थो न वाच्य इत्यर्थः । कुतो नेत्यत
आह-तदिति । 'तस्य' परोक्तपादार्थनियमस्य 'अदृष्टेः' एतदध्यायगत
पादेष्वदर्शनादित्यर्थः । सर्वसाङ्कर्यादिति भावः । तच्च टीकादावुक्तम्॥
(३) नन्वानन्दमयाधिकरणमारभ्य सर्वेषामधिकरणानामवश्य
वक्तव्ये सङ्गतिपञ्चके अस्मिन्नधिकरणे लोकतोऽन्यत्रप्रसिद्धानन्दम
यशब्दोपलक्षितगुणवाचिशब्दानामानन्दादिगुणवाचिशब्दानां च ब्र
ह्मणि समन्वयकरणात् अस्यास्तु शास्त्रेऽध्याये पादे चान्तर्भावरूपा
सङ्गतिः । तथाऽपि आनन्दमयस्य विष्णुत्वसमर्थने का अपूर्वस्सङ्गति
८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
प्रतिष्ठा ' ( तै. २-५-२. ) इत्यानन्दमयावयवरूपं प्र
रिस्यतोऽव्यवहितपूर्वाधिकरणेनैव सङ्गतिर्वक्तव्येति नियमाभावात्
व्यवहितपूर्वेण जिज्ञासाधिकरणेन तद्विषयेण च अस्यानन्तर्यलक्षण
लक्षितामाक्षेपिकीं सङ्गतिं तावद्दर्शयति—ब्रह्मेति ॥ 'उक्तं' जिज्ञासा
धिकरणे इति शेषः । 'तच्चेति' । यज्जिज्ञास्यतया प्रतिज्ञातं ब्रह्म तद्दे
वेत्यर्थः । यद्वा—प्रकृतानुसन्धानार्थश्चशब्दः । इतीत्यनन्तरं 'श्रुतौ'
इति शेषः । 'आनन्दमयावयवरूपमिति' आनन्दमयाख्यस्य कस्य
चित्पुच्छाख्यावयवभूतं प्रतीयत इत्यर्थः । ननु ब्रह्मणोऽवयवत्वोक्ताव
पि किमर्थमानन्दमयस्य विष्णुत्वसमर्थनमित्यत आह—न हीति । हि
शब्दो हेतौ । 'अत' इत्यावर्तते । 'तच्च' इत्यादि 'इत्यत आह' इत्य
न्तं सङ्गतिप्रयोजनोभयपरतया व्याख्येयम् । न हीत्येतत्तदुपपादकम् ।
योजना तु—यतो 'ब्रह्म पुच्छं प्रतिष्ठा' इति श्रुतौ जिज्ञास्यतयोक्तं ब्र
ह्म आनन्दमयाख्यस्य कस्य चिदवयवरूपं 'प्रतीयते' उच्यते यतश्च
अन्याङ्गतया जिज्ञास्यत्वेऽपि 'अवयविनं' आनन्दमयं विना 'अवय
वमात्रस्य' अवयवस्यैव केवलस्य ब्रह्मणो न पृथक् 'ज्ञेयता' जिज्ञा
स्यता सम्भवति । अमुख्यत्वात् । नापि जिज्ञासाया एव त्यागो यु
ज्यते । “तद्विजिज्ञासस्व” (तै. उ. ३-१.) इति श्रुतिविहितत्वादित्येवं
शङ्का प्राप्ता । अतः शङ्कारूपसङ्गतिसद्भावात् अत्रानन्दमयस्य विष्णुव
न्यत्वपक्षे ब्रह्मजिज्ञासाक्षेपात् विष्णुत्वपक्षे च तत्समाधानात् एवं च
पूर्वपक्षसिद्धान्तयोः फलसद्भावाच्च 'अतो' ब्रह्मजिज्ञासासिद्ध्यर्थं 'आन
न्दमयोऽभ्यासात्' इत्यानन्दमयस्य विष्णुत्वं 'आह' समर्थयति सूत्र
कार इति ॥
“ तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमयः ।
तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्व
यं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद
उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।” ( तै. उ. २-५-२. )
इति तैत्तिरीयवाक्यस्यायमर्थः । 'तस्मात्' आत्मपदोदितात् 'एत
स्मात्' जीवशरीरगतात् विज्ञानपूर्णत्वात् विज्ञानमयशब्दवाच्यात्
विष्णोः अनन्योऽप्यन्यशब्दोक्तः 'आनन्दमयः' आनन्दपूर्णत्वादानन्द
मयशब्दवाच्यः 'आत्मा' नारायणः 'अन्तरो' विज्ञानमयस्यान्तःस्थितः
[ अधि - ६. सू - ११. ] दीपिकासहितम्. ८७
तीयते । न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयत्वं
त्यत आह ॥—
'तेन' आनन्दमयेन 'एषः' विज्ञानमयशब्दवाच्यो वासुदेवः 'पूर्णः'
निश्चिद्रत्वेन पूरितः । वैशब्दः प्रसिद्धौ । 'स एष' आनन्दमयः 'पुरु-
षविध एव' पुरुषाकार एव । 'तस्य' आनन्दमयस्य शरीरस्थानीयस्य
पुरुषाकारतां 'अनु' अनुसृत्य 'अयं' विज्ञानमयः शरीरस्थानीयः 'पुरु-
षविधः' तस्मात्प्रादुर्भूतः,
उत्तरैः पूरिताः पूर्वे निश्चिद्रत्वेन सर्वशः ।
सर्वेऽपि पुरुषाकारा उत्तरात्पूर्वसम्भवः ॥
इति तैत्तिरीयभाष्योक्तेः । 'तस्य' आनन्दमयस्य विष्णोः अवयवभू-
तं 'परेयं प्रियनामकम्' इति भाष्योक्तेः । परैरुत्तमैः देवैः प्राप्यत्वा-
त्प्रियशब्दवाच्यं यत्सुखं तत्तस्य 'शिरः' तदेवानन्दमयाख्यस्य जी-
वशरीरस्य परैरन्यैरुपकर्तृभिः प्राप्यत्वात् प्रियनामकमुपकारजन्यवै-
षयिकसुखाख्यं यच्छिरः तत्स्थं च । एवमानन्दमयाख्यस्य विष्णोः ये
दक्षिणोत्तरबाहुमध्यदेहाः मोदप्रमोदकारित्वानन्तत्वनिमित्तैर्मोदप्रमो-
दानन्दनामानः ते आनन्दमयाख्यजीवशरीरस्य दक्षिणोत्तरपक्षा-
त्मनामानो दक्षिणसव्यबाहुमध्यदेहाः । “मोदो' भोगनिमित्तकः 'प्र-
मोदः' तद्विशेषोत्थः” इत्यैतरेयभाष्योक्तेः ।
मुन्नाम विषयोत्थं यत्प्रकृष्टविषयात्प्रमूत् ।
सुखं स्वरूपभूतं यदानन्द इति कथ्यते ॥
इति बृहद्भाष्योक्तेश्च । अपकृष्टविषयोद्भूतत्वप्रकृष्टविषयोत्थत्व-
जीवस्वरूपानन्दत्वनिमित्तैर्मोदप्रमोदानन्दनामानस्तेषु स्थिताश्च । ए-
वमानन्दमयाख्यस्य विष्णोः 'पुच्छं' प्रतिष्ठति गच्छति लोक आ-
भ्यामिति व्युत्पत्त्या प्रतिष्ठापदोक्तौ यः पादाख्योऽवयवः तद्ब्रह्म 'ब्रह्म
सृष्ट्या तु बृंहयेत्' इति तैत्तिरीयभाष्योक्तरीत्या सृष्ट्यादिक्रियया वि-
श्वगुणवृद्धिकरत्वाद्व्रह्मशब्दवाच्यः स एवानन्दमयाख्यजीवशरीरस्य
यत् पुच्छं यः पादाख्योऽवयवः तत्स्थिते ब्रह्माख्ये प्रधानवायौ स्थितः ।
अनेन कोशावयवस्य ब्रह्मशब्दवाच्यत्वं ब्रह्मशब्दवाच्यप्रधानवाय्वधि-
ष्ठानत्वनिमित्तं, प्रधानवायोर्ब्रह्मशब्दवाच्यत्वं तु परब्रह्माधिष्ठानत्वादि-
त्युक्तं भवति । अनेनानन्दमयादिशब्दवाच्यस्य विष्णोरवयवभूताः ये प्रि
८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
सू—ॐ ॥ आनन्दमयोऽभ्यासात् ॥ ॐ ॥ १२ ॥
( ४ ) आनन्दमयो ब्रह्मादिः प्रकृतिर्विष्णुर्वा ।
यादयः ते विष्णवभिन्नाः ये चानन्दमयादिजीवकोशावयवाः प्रियादय
स्ते प्रतिशरीरं भिन्ना इति द्विविधा प्रियादय इत्युक्तं भवति । यथो
क्तं चन्द्रिकायाम्—ये जीवाभिमन्यमानानन्दमयादिकोशावयवाः प्रि
यादयस्ते प्रतिशरीरं भिन्नाः, न ते आनन्दमयाद्याख्यस्य विष्णोरवय
वाः । ये च भगवतोऽवयवाः प्रियादयो न ते प्रतिशरीरं भिन्नाः कि
न्त्वभिन्ना इति जीवस्वरूपस्यानन्दस्य हृदयाख्यमध्यगतत्वात्कोशम
ध्यदेहत्वं स्वरूपदेहस्य जडावयवत्वं चामूख्यं युज्यते । यद्यपि भाष्ये
' शिरो नारायणः ' इत्युदाहरिष्यमाणवचनपर्यालोचनयाऽऽनन्दमया
ख्यो नारायणः पुनर्नाrayana... wait, पुनर्नारायणादिरूपेण पञ्चधा भिन्नः शिरःप्रभृत्यवय
वात्मना तिष्ठतीति प्रतीयते । तैत्तिरीयभाष्ये तु—प्रियादीनामानन्दम
यावयवत्वम् । तथापि प्रियादिसुखविशेषदेहस्थितब्रह्माख्यप्रधानवा
युगतानां नारायणादिरूपाणामेव आनन्दमयाख्यविष्ण्ववयवत्वसम्भ
वात्तेषामेव ।
परेयं प्रियनामकम् ।
मोदप्रमोदनामानौ मोदनाच्च प्रमोदनात् ।
देहस्थवायुसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ।
इति तैत्तिरीयभाष्योक्तरीत्या प्रियादिशब्दवाच्यत्वस्यापि सम्भवान्न
विरोधः । तत्त्वप्रदीपे तु-प्रियशिरस्त्वादिनये “श्रवणोत्थं प्रियं, दर्शनो
त्थो मोदः, भोगोत्थः प्रमोदः ” इति पदत्रयस्यार्थान्तरमुक्तम् । तथा
तत्रैव ' अभावं बादरिः ' इति सूत्रेण ' प्रियाप्रिये ' ( छां. ८-१२-१. )
इति श्रुतिस्थप्रियशब्देन ' परेयं प्रियनामकम् ' इति तैत्तिरीयच्छान्दो
ग्यभाष्ययोरुक्तत्वात्परप्राप्यसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्य
मिति सूचितम् ” इति चोक्तम् । इदं त्ववधेयं—परिदृश्यमानमन्नम
यं शरीरम् । तदन्तः प्राणमयो देहः । तदन्तर्मनोमयो देहः । तदन्त
र्विज्ञानमयो देहः । तदन्तरानन्दमयोऽस्ति । एतेषु पञ्चसु देहाख्यको
शेषु तत्तच्छब्दवाच्यानि पुरुषाकाराणि अनिरुद्धप्रद्युम्नसङ्कर्षणवासुदे
वनारायणरूपाणि देहदेहिभावेन वर्तन्त इति ॥
( ४ ) एवं सङ्गतिं फलं चोक्त्वा विषयसंशयौ दर्शयति—आन
न्दमय इति ॥ आनन्दमय इत्युपलक्षकपदेन विषयो दर्शितः । ब्रह्म
[ अधि - ६. सू - १२. ] दीपिकासहितम्. ८९
( ५ ) ब्रह्मशब्दाद्धिरण्यगर्भस्य प्राप्तिः । शतानन्दनाम्ना च ।
( ६ ) अष्टमूर्तित्वात्सूर्ये प्रोक्तत्वाच्च रुद्रस्य ।
( ७ ) एवमन्येषामपि ।
( ८ ) ‘ मम योनिर्महद्ब्रह्म ’ ( भ.गी. १४-३. ) इति ब्रह्मश
दिरित्यत्र ब्रह्मा आदिर्यस्य जीवसङ्घस्येति विग्रहः । ब्रह्मा चतुर्मुखः,
आदिशब्देन रुद्रेन्द्रबृहस्पतिमुखा देवास्तत्तद्देहगतजीवाश्च गृह्यन्ते ।
प्रकृतिशब्देन च चित्प्रकृतिः । ‘ इति संशय ’ इति शेषः ॥
( ५ ) अत्र सयुक्तिकं पूर्वपक्षमाह-ब्रह्मशब्दादिति ॥ आनन्दमयमध्-
कृत्योदाहृते ‘ अस्ति ब्रह्मेति चेद्वेद ’ ( तै.उ.२-६-१. ) इत्यादौ श्रुताद्ब्र-
ह्मशब्दादित्यर्थः । ब्रह्मशब्दस्य अन्यत्रापि वृत्तेः कथं तेन चतुर्मुखस्या-
नन्दमयत्वनिश्चय इत्यतो युक्त्यन्तरमाह— शतेति । चोऽप्यर्थे समुच्च-
ये । “ ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः ” ( तै.उ.
२ - ८ - ४. ) इति वाक्यादर्थात्सूचितेन शतानन्दनाम्नेत्यर्थः । यद्वा—
आनन्दमयशब्दसमानार्थकेन हिरण्यगर्भे विद्यमानेन शतानन्दनाम्ने-
त्यर्थः । ‘प्राप्तिः ’ आनन्दमयत्वस्येति शेषः । तथा च—हिरण्यगर्भस्य
आनन्दमयत्वस्य प्राप्तिरित्यन्वयः ॥
( ६ ) एवमेकं पूर्वपक्षमभिधाय अन्यमाह— अष्टमूर्तित्वादिति ॥
चशब्दो रुद्रस्य चेति सम्बध्यते । प्राप्तिरित्यस्यानुकर्षणार्थो वा । तथा
च-रुद्रस्य चानन्दमयत्वप्राप्तिः । कुतः ? सूर्ये प्रोक्तत्वात् । ‘यश्चासावा-
दित्ये’ ( तै.उ.२-८-५. ) इत्यानन्दमयस्य सूर्ये स्थितेः उक्तत्वादुद्रस्य
च सूर्याद्यष्टशरीरत्वादित्यर्थः । तथाच-रुद्रलिङ्गस्य आनन्दमये श्रुत-
त्वात् आनन्दमयो रुद्र एवेति भावः । रुद्रस्य सूर्याद्यष्टप्रतिमत्वं च
सूर्यो जलं मही वह्निर्वायुराकाश एव च ।
दीक्षितो ब्राह्मणस्सोम इत्येतास्तनवः क्रमात् ॥
इति विष्णुपुराणवाक्यात्सिद्धम् ॥
( ७ ) पूर्वपक्षान्तरं दर्शयति-एवमिति ॥ उक्ताभ्यां ‘अन्येषां’ इन्द्र-
बृहस्पत्यादीनामपि ‘ एवं ’ उक्तप्रकारेण स्वावरसूर्याद्यधिष्ठातृत्वादि-
ना आनन्दमयत्वप्राप्तिरित्यर्थः ॥
( ८ ) सयुक्तिकं पूर्वपक्षान्तरमाह—ममेति ॥ योजना तु चित्प्रकृ-
तेर्याऽऽनन्दमयत्वप्राप्तिः । कुतः ? ब्रह्मशब्दात् । आनन्दमये श्रुतस्य ब्रह्म-
शब्दस्य ‘ मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ’ इति गीता-
१२