पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ३. सू - ३. ] दीपिकासहितम्. ५९
(९) दर्शनाच्च तपआदिफलस्य ।
(१०) ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् ।
मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥
(११) यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् ।
अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥
[इति स्कान्दे ।]
च तन्मृतशरीरे पात्रान्तरे वा निहितं पच्यते । नापि जीवत्सर्वशरी
रेषु । तस्मादपि जीवेश्वरादिसिद्धिः । प्रेत्येत्यनन्तरं स्थितस्येति शे
षः । 'प्रेत्य' जीवं विहाय स्थितस्य देहस्य 'भूताप्ययो' भूतेषु लय
इत्यर्थः । तथा च-मरणेन देहस्य पृथिव्यादिपञ्चभूतेषु लयो भवति,
न जीवतो, न चेच्छयेत्यतोऽपि तन्नियामकेश्वरादिसिद्धिः । एवं देव
ताऽभ्युपयाचनेन तत्प्रार्थनेन केषां चिदेव सम्पदादिकं भवति, एवं मृ
ते देहे चेष्टानिवृत्तिर्भवति, न पुरा न स्वेच्छया । अतोऽपि जीवेश्वरादृ
ष्टादिसिद्धिरिति ॥
(९) युक्त्यन्तरेणापि नास्तिक्यवादं दूषयति—दर्शनाच्चेति ॥
चो युक्तिसमुच्चये । आदिशब्देन पापं गृह्यते । तथा च—स्वाध्यायब्र
ह्मचर्यादिरूपात्युत्कटतपआदिफलस्य तेजस्स्वित्वादेः
६० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( १२ ) साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
इत्यारभ्य वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरा
दिरूपग्रन्थविस्तरः 'तन्नैव शास्त्रम्', किन्तु 'कुवर्त्म' कुत्सितमा-
र्गः, मार्ग इव मार्गः, कुत्सितज्ञानोपायोऽमानमित्यर्थः । ऋगादिकमेवे-
त्येवकारस्तु विरुद्धादिविषय इति भावः । स्कान्दे पुराणे इत्युक्तमित्य-
न्वयः । पाशुपतादेः कुवर्त्मत्वमितिशब्दार्थः ॥
( १२ ) इतोऽपि पाशुपतादिकं कुवर्त्मेत्याह—साङ्ख्यमिति ॥ अत्रैवं
योजना—न केवलं स्कान्दे, किन्तु मोक्षधर्मेष्वपि । 'साङ्ख्यं योगः पा-
शुपतं वेदारण्यकमेव च ' 'इत्यारभ्यो' उपक्रम्याधीतेन
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ॥
इत्युत्तरवाक्येन साङ्ख्यादिषु प्रकृतेष्वपि तत्परित्यागेन पञ्चरात्रस्यै-
व प्रामाण्यरूपमाधिक्यमुक्तं यतोऽतः पाशुपतादिकं कुवर्त्म अमानमे-
वेति । नन्वनेन पाञ्चरात्रप्रामाण्यमेव भवेन्नान्याप्रामाण्यमित्यत आ-
ह—इतरेषामिति । वेदपञ्चरात्रयोरन्येषां साङ्ख्यादीनामित्यर्थः ।
'भिन्नमतत्वं' विरुद्धदर्शनत्वं 'प्रदर्श्य' ज्ञापयित्वा प्रतिपादयेति या-
वत् ।
साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥
इति वाक्यशेषेणेति शेषः । प्रदर्श्येत्यस्य पञ्चरात्रस्यैव प्रामाण्यमुक्त-
मित्यनेनान्वयः । परस्परविरुद्धानामेकप्रामाण्योक्तावन्याप्रामाण्यला-
भादिति भावः । तर्हि वेदारण्यकस्याप्यप्रामाण्यं स्यादित्यत आह—
वेदेति । 'ऐक्याभिप्रायेण' इति । एकार्थत्वरूपमूलमूलिभावाभिप्राये-
णेत्यर्थः । तथा च—पञ्चरात्रस्य वेदसमानार्थत्वेन तत्प्रामाण्योक्तौ
वेदप्रामाण्यमेवोक्तं भवतीति न तस्याप्रामाण्यमिति भावः । न चैक्या-
भिप्रायः कुतः कल्प्यत इति वाच्यम्, यतोऽदृष्टविषयस्य पौरुषेयस्य
पञ्चरात्रस्य निर्मूलत्वेऽप्रामाण्यादाधिक्यकथनमसङ्गतं स्यात् । 'सा-
ङ्ख्यं' ईश्वरावतारान्यकपिलोक्तं शास्त्रम् ।
कपिलो वासुदेवाख्यः तन्त्रं साङ्ख्यं जगाद ह ।
सर्वागमविरुद्धं च कपिलोऽन्यो जगाद ह ॥
[ अधि - ३. सू - ३. ] दीपिकासहितम्. ६१
अस्यैव प्रामाण्यमुक्तमितरेषां भिन्नमतत्त्वं प्रदर्श्य
मोक्षधर्मेष्वपि ॥
( १३ ) शास्त्रं योनिः प्रमाणमस्येति शास्त्रयोनि ॥ ३ ॥
इत्युक्तत्वात् । 'योगो' हि हिरण्यगर्भोक्तं पातञ्जलम् । 'पाशुपतं' पशु-
पतिना प्रोक्तम् । अरण्ये निर्जने देशे अध्येतव्यत्वादारण्यकमित्युपनि-
षदुच्यते । वेदाश्चारण्यकानि च, तेषां समाहारः वेदारण्यकं, द्वन्द्वैक-
वद्भावो वा । वर्णाश्रमराजदानधर्मादिप्रतिपाद्यधर्मबहुत्वात् मोक्षधर्मा-
णां भेदाद्वा मोक्षधर्मेष्विति बहुवचनम् । अत एव तत्त्वप्रदीपे—मोक्ष-
धर्मेष्विति बहुवचनं धर्मभेदादित्युकम् । मोक्षधर्मे हि-
साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि उताहो नेति चोच्यताम् ॥
इति वैशम्पायनं प्रति जनमेजयप्रश्नः । तस्य-
साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि नात्रकार्या विचारणा ॥
इति वैशम्पायनोक्तं प्रतिवचनं चास्ति । इमे युधिष्ठिरभीष्मकर्तृके
च । भगवतः ज्ञानानि ज्ञानसाधनानि भिन्नानि भिन्नमतानि । विरुद्धा-
नामपि मतानां न सर्वेषां प्रामाण्यं सम्भवति वस्तुनो बहुरूपत्वाभा-
वात्, किन्त्वेकस्यात्र प्रामाण्यमितरेषामप्रामाण्यं वाच्यम् । तत्र कस्य
प्रामाण्यं कस्य वाऽप्रामाण्यमिति पुनर्युधिष्ठिरजनमेजयहार्दप्रश्नोत्तर-
माह भीष्मो वैशम्पायनश्च । “ साङ्ख्यस्यवक्ता कपिलः ” इत्यारभ्य
“पञ्चरात्रस्य कृत्स्नस्य” इत्यनेन ज्ञानेषु ज्ञानसाधनेषु एतत्पञ्चरात्रम्।
अभिप्रायस्तु-परमाप्ततमेन नारायणेन सर्वस्य पञ्चरात्रस्य कृतत्वा-
त्प्रामाण्यं तावत्सिद्धम्, विरुद्धानां चैकप्रामाण्ये अन्याप्रामाण्यं च। ए-
तच्चाद्यवाक्यस्थवेदारण्यकपदेन वेदमूलकपञ्चरात्रस्योत्तरवाक्यस्थ-
पञ्चरात्रपदेन च मूलभूतवेदारण्यकस्योपलक्षणामङ्गीकृत्योभयोरेक-
वाक्यतायामेव सम्भवति । अन्यथा पञ्चरात्रस्य पूर्वमप्रकृतत्वेन पू-
र्वोत्तरवाक्ययोरसङ्गतत्वापातः । उपलक्षणामङ्गीकृत्यैकवाक्यतायां
च स्वीकृतायां वेदपञ्चरात्रयोरेव प्रामाण्यं सिद्ध्यति । न तद्विरुद्धपा-
शुपतादीनामिति तेषामप्रामाण्यमेवेति ॥
( १३ ) एवं सूत्रं व्याख्याय यत्परेणोक्तं शास्त्रस्य योनिरिति तद्यु-
६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
४. अधिकरणम् ॥
( १ ) अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् ।
कुतः?
सू- ॐ ॥ तत्तु समन्वयात् ॥ ॐ ॥ ४ ॥
( २ ) अन्वय उपपत्त्यादि लिङ्गम् ।
क्तमिति भावेन स्वाभिमतार्थं दर्शयति—शास्त्रमिति । कारणार्थकेन
योनिशब्देन योग्यतया ज्ञेयसम्बन्धे प्रमाणमिति पर्यवस्यतीत्यभिप्रा
येण 'योनिः प्रमाणं' इति व्याख्यातम् । 'अस्य' जगत्कारणस्य 'इ
ति शास्त्रयोनि' इत्यनन्तरं तुशब्दोऽध्याहार्यः । अत एव गीताभाष्ये
“इति तु शास्त्रयोनित्वं” इत्युक्तम् । तुरेवार्थः । तथा च—शास्त्रं योनिः
प्रमाणं यस्य तच्छास्त्रयोनीत्येव शास्त्रयोनिपदार्थो ब्रह्म, न तु शास्त्र
स्य योनित्यर्थः । परव्याख्यानं तूक्तानुपयुक्तमयुक्तं चेति टीकायामेव
दूषितम् ॥ ३ ॥
॥ इति शास्त्रयोनित्वाधिकरणम् ॥
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे जगत्कारणस्य शास्त्रयोनित्वान्न लक्षणाति
व्याप्तिरिति पूर्वाधिकरणफलाक्षेपपरिहारमुखेन तस्य लक्षणत्वसि
द्धये विष्णोरेव जगत्कारणत्वेन शास्त्रगम्यत्वं नेतरेषामपीति समर्थ्य
ते । पूर्वपक्षसूचनपूर्वकं सिद्धान्तमाह—अज्ञानामिति ॥ कर्तरि षष्ठीय
म् । इतरेषां इति सम्बन्धे । समुच्चयार्थस्याप्येरुभयत्रान्वयः । प्रतीत्या आ
गमोपलक्षणा वा । तथा च—न केवलं पाशुपताद्युक्तम्, किन्तु 'अज्ञानां'
श्रुतितात्पर्यार्थाज्ञानिभिरापातः ज्ञायमानमपि न केवलं विष्णोः कि
न्तु 'इतरेषां' रुद्रादीनामपि शास्त्रयोनित्वं, जगत्कारणत्वेन शास्त्रगम्य
त्वं नेत्यर्थः । ननु प्रतीत्यादेरज्ञानमूलत्वादिकं परिकल्प्यान्येषां कारण
तया शास्त्रयोनित्वाग्रहणे को हेतुरिति पृच्छति—कुत इति । प्रतीय
मानमपीत्यनेनास्यान्वयः । तत्र हेतुकथनाय सूत्रमुपन्यस्यति—तत्त्वि
ति । यत इत्यादौ ग्राह्यम् ॥
( २ ) सूत्राक्षराणि व्याचष्टे—अन्वय इति ॥ अन्वीयते स्वार्थेन स
म्बध्यते तत्परतया ज्ञायते शास्त्रं शब्दो वाऽनेनेत्यन्वयः उपपत्त्यादिता
त्पर्यलिङ्गमित्यर्थः । सूत्रानुसारादेकवचनं समुदायाभिप्रायम् । तेन
[ अधि - ४. सू - ४. ] दीपिकासहितम्. ६३
( ३ ) उक्तं च बृहत्संहितायाम्—
चोपक्रमादीनां क्वचिदविरोधं सूचयति । आदिपदं श्रुतिलिङ्गवाक्य-
प्रकरणस्थानसमाख्यानामपि ग्राहकम् । अत्र श्रुत्यादिषट्कं च ग्राह्य-
मिति टीकोक्तेः । अत्र वाक्ये श्रुत्यादिषट्कमप्यादिपदेन ग्राह्यमिति हि
तस्यार्थः । परन्तु श्रुत्यादीनामुपक्रमादिवत्तात्पर्यग्राहकत्वाभावादा-
गमार्थमात्रनिर्णायकत्वात् नात्र तन्निदर्शकप्रमाणोक्तिः । अत एवो-
त्तरत्र—
श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।
स्थानं पूर्वे बलीयः स्यादेवमागमनिर्णये ॥
इति तत्रापि प्रमाणं वक्ष्यति । उक्तं हि प्रमाणलक्षणटीकायाम् “ उपक्र-
मादीनां तात्पर्यलिङ्गत्वमेतेषां पुनरर्थ एवेति विशेषज्ञापनार्थो योगवि-
भागः ” इति । न चैवं “ अत्र श्रुत्यादिषट्कं च ग्राह्यं ” इति टीकायां
तात्पर्यग्राहकेष्वन्तर्भावोक्तिरयुक्तेति वाच्यम्, यतोऽत्रेत्यस्य समन्व-
यशब्दार्थ इत्येवार्थो न तात्पर्यग्राहकेष्विति, ‘ आकाशस्तल्लिङ्गात् ’
‘ शब्दादेव प्रमितः ’ ( ब्र.सू.१-१-२२,४-२४. ) इत्यादौ श्रुतिलिङ्गादि-
भिरागमार्थनिर्णयदर्शनेन तेषामपि अन्वीयते शक्तिरूपसम्बन्धवत्तया
ज्ञायते पदजातमेभिरितिव्युत्पत्त्या अन्वयशब्दार्थत्वौचित्यात् । न चो-
पक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रक-
रणस्थानसमाख्याश्च तात्पर्यलिङ्गानीति ज्ञानपादीयसुधाविरोध इति
वाच्यम्, अत्र शक्तेरपि संयोजनात् । अत एव चन्द्रिकायामुपक्रमादि-
प्रमाणकः शक्तितत्पर्यलक्षणस्सम्बन्धः समन्वय इत्युक्तम् । अत्रादिप-
दं श्रुत्यादीनामपि ग्राहकम् । व्युत्क्रमेणान्वयः । अनेनात्र बृहत्संहिता-
वचनोदाहरणं वक्ष्यमाणस्य श्रुतिर्लिङ्गमिति वचनस्योपलक्षककमिति
सूचितम् ॥
( ३ ) कानि तान्युपपत्त्यादीनि कुत्र च लिङ्गानीत्यत आह—उक्तं
चेति ॥ उपपत्त्यादीत्यनुषज्यते । न केवलमुपपत्त्याद्युक्तं निर्दिष्टं, किन्तु
तज्ज्ञाप्यं चोक्तमिति चार्थः । अस्मदुक्तमुपपत्त्यादि लिङ्गं बृहत्संहिता-
यामप्युक्तमिति वा । किमुक्तमित्यतस्तत्पठति—उपक्रमेति । प्रकरणा-
दिरुपक्रमः तदन्त उपसंहारः । उपक्रमोपसंहारश्च तौ तथोक्तौ ।
अत्रोपक्रमोपसंहारतदैक रूप्याभ्यासापूर्वताफलार्थवादाश्चेति प्रमाण
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इति ।
( ४ ) उपक्रमादितात्पर्यलिङ्गैः सम्यङ्निरूप्यमाणे तदेव
[ शास्त्रगम्यम् ।
लक्षणोक्तेः प्रत्येकविवक्षया विशकलितावुपक्रमोपसंहारौ द्वौ समुदा-
यविवक्षया उभयाविरोधलक्षणं एकार्थत्वलक्षणं वा तदैकरूप्यमपि
पृथक्तात्पर्यग्राहकमनुसन्धेयम् । अत एव द्विवचनप्रयोगः । एकप्रका-
रासकृदुक्तिरभ्यासः । प्राचुर्येण प्रमाणान्तरासिद्धार्थबोधकता अपूर्व-
ता । फलवदर्थप्रतिपादकं फलम् । स्तुतिः, निन्दा, एककर्तृकोपाख्या-
नरूपा परकृतिः, अनेककर्तृकोपाख्यानरूपः पुराकल्पश्च, अर्थवादः । उ-
पपत्तिः युक्तिः । 'तात्पर्यनिर्णये' वाक्यतात्पर्यनिश्चये 'लिङ्गं' साध-
नमित्यर्थः । यद्वा—निर्णेतव्ये तात्पर्ये साध्ये 'लिङ्गं'
[ अधि - ४. सू - ४. ] दीपिकासहितम्. ६५
( ५ ) मां विधत्तेऽभिधत्ते मां विकल्प्योऽपोह्य इत्यहम् ।
खप्रमाणकत्वे हेतुरिति सूचितं भवति । न केवलमुपपत्त्यादिकं सम-
न्वयशब्दार्थः, किन्तु तद्धेतुकः शास्त्रजन्यप्रमागोचरत्वरूपः शास्त्र-
योनित्वे हेतुभूतः । “तत्परत्वसंबन्धोऽपि” इति सुधोक्तेः । अनेन ‘स-
मन्वयात्’ सावकाशत्वनिरवकाशत्वादिना बलाबलनिश्चयपुरस्सरं अ-
न्यतरबाधया वाक्यार्थविमर्शरूपसम्यग्विचारितत्वलक्षणसम्यक्त्व-
युक्तादुपक्रमादिशक्तितात्पर्यलिङ्गसमुदायात्समन्वयात् सर्वशास्त्रस्य
भगवत्येव सम्यग्वचनवृत्त्या शक्तितात्पर्याख्यसंबन्धावगमात् तद्वि-
ष्ण्वाख्यं ब्रह्मैव जगत्कारणतया शास्त्रयोनि न रुद्रादीति ‘समन्वया-
त्’ इत्यस्यावृत्त्या सूत्रयोजना दर्शिता भवति ॥
( ५ ) ननु कर्मविधानादिरूपशास्त्रस्य कथं ब्रह्मपरतेत्याशङ्कां भ-
गवद्वाक्येन प्रतिषेधति— मामिति ॥ यद्यपि भागवते “इत्यस्या हृदयं
लोकः” इति पाठः, तथा पूर्वोत्तरार्धयोर्व्युत्क्रमेण पाठश्च दृश्यते । त-
थाऽप्यार्योक्तेरन्यकल्पीयोऽयमित्यदोषः । एकादशस्कन्धे उद्धवं प्रति
कृष्णवचनमेतत् । अत्रास्मच्छब्देन कृष्ण उच्यते । तथा च “वसन्ते
वसन्ते” ( ) इत्यादि कर्मविधात्री श्रुतिः ‘मां’ उद्दि-
श्यैव मत्पूजात्वेन कर्म विधत्ते । इन्द्राद्यभिधात्री ‘मामभिधत्ते’ मङ्गु-
णानैश्वर्यादीनभिधत्ते । ‘अहं विकल्प्यः’ कल्पनं विधानं तथा च—
‘चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति’
(ऋ० १ - १६४ - ४५०) इति श्रुत्या या वाग्वक्तृत्वा॑न्निमित्ताद्वाक्शब्दि-
तो हरिः तस्या यानि स्थानापेक्षया ‘परिमितानि’ परिच्छिन्नानि ‘च-
त्वारि पदानि’ वासुदेवादि रूपाणि तानि ये मनीषिणः ब्राह्मणाः त
एव विदुः । तत्र वाचो हृदयगुहायां निहितानि वासुदेवादि त्रीणि रू-
पाणि ‘मनुष्याः’ साधारणाः ‘नेङ्गयन्ति’ न जानन्ति । ‘तुरीयं’ अ-
निरुद्धाख्यं तु ‘वदन्ति’ जानन्तीत्येवंरूपेण अहमेव चतुष्ट्वसंख्यावि-
शिष्टवासुदेवादि विविधरूपतया बहुत्वेन विधेय इत्यर्थः । ‘अहमपो-
ह्यः’ ‘न सुरां पिबेत्’ (मनु० ११ - ९४.) इत्यादिवाक्येनाप्रियादति-
शेषः । तथा च “निषेधबुद्धिविषयमप्रियं हि हरेः स्मृतम्” इति
भागवततात्पर्योक्तेः सुरापानादिकं मदप्रीतिसाधनत्वात् निषिध्यते
९
६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन । इति भागवते ॥ ४ ॥
५. अधिकरणम् ॥
( १ ) ननु यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
[ ( तै. उ. २-४-१. )
इत्यप्रियद्वारा ‘ न सुरां पिबेत् ’ इत्यादीना अहमेव निषेध्य इत्यर्थः ।
अथवा—अहमप्रियादपोह्यः ममाप्रीतिकरात्सुरापानशब्दितात् “सुरा
हरेर्गुणा मे स्युः” इति चिन्तनात्तदपेक्ष्य अपोह्यो निषेध्य इत्यर्थः ।
तदुक्तं भागवततात्पर्ये—विधिरूपत्वेन कल्पनं विकल्पः चत्वारि
वागित्यादि । तत्र वागित्यनुवादः ।
विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः ।
विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम् ।
उच्यते सर्ववेदेषु तच्च वेद स एव हि ॥ इति । तथा—
सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् ।
सुरापानमिति प्रोक्तं तन्न कुर्यात्कथं चन ॥ इति ।
तत्त्वप्रदीपे तु-‘द्वे वाव ब्रह्मणो रूपे’ इति विकल्प्य विविधं कल्पयित्वा
‘ तत्र यस्स आत्मा’ ( तलवकारब्राह्मणम् ) इति सदोषादपोह्यो नि
र्दोषत्वेन विधेयोऽप्यहमेवेत्यर्थः उक्तः । अत्र तत्त्वप्रदीपपक्षे विकल्प्ये
ति ल्यप् । टीकाकृत्पक्षे तु विकल्प्यशब्दस्समासान्तर्गतो व्यस्तो वेति
विशेषः। इयं च भगवति वाक्यसमन्वयरीतिः—आद्यस्य इतिशब्दस्य
प्रकारार्थस्य हृदयमित्यनेनान्वयः । द्वितीयस्य एवंभूताया इत्यर्थः ।
तथा च ह्येवंभूताया विधिनिषेधादिरूपाया अन्यपरत्वेन प्रतीताया
श्चास्याश्श्रुतेरिति ‘ मां विधत्ते ’ इत्याद्युक्तप्रकारेण ‘ हृदयं ’ तात्पर्यं
‘ अहमेव वेद ’ जानामि ‘ मदन्यः कश्चन ’ कोपि विशेषतः प्रायः न
वेद न जानातीत्यर्थः । भागवत इत्यनन्तरं तदेव शास्त्रगम्यमित्युक्त
त्वात् न कथमितिशङ्कावकाश इति वाक्यशेषः ॥ ४ ॥
॥ इति समन्वयाधिकरणम् ॥
—:::—
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे संशब्द्योक्तं वाच्यत्वं कात्स्न्र्येन चाक्षिप्य समा
धीयते । पूर्वपक्षयति—नन्विति ॥ ‘ इत्यादिभिश्चश्रुतिभिः ’ इति तृती
[ अधि - ५, सू - ५. ] दीपिकासहितम्. ६७
( २ ) 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च
[ यत् ' । ( कठ. ३ - १५. )
( ३ ) 'अवचनेनैव प्रोवाच' ( बाष्कलश्रुतिः. )
या पञ्चम्यर्थे । नेत्याद्यावर्तते । तथा च 'तत्' पूर्वसूत्रे तच्छब्दोक्तं
ब्रह्म शब्दगोचरं शास्त्रोक्तं कारणं न, कुतः? यतो न शब्दगोचरं शास्त्र
मुख्यार्थः न, तदपि कुतः ? यतो न शब्दगोचरं शब्दावाच्यं, नचेक्षणीय
त्वविरोधः तदसिद्धेः । कुतः ? यतो न तद्गोचरं ज्ञानविषयः न, अज्ञेयमिति
यावत् । न चावाच्यत्वाज्ञेयत्वयोरसिद्धिः । “यतो वाचो निवर्तन्ते”
इत्यादि श्रुतेरिति योजना । 'यतो वाचः' इति वाक्ये अवाच्यत्वस्य
'अप्राप्य मनसा सह' इत्यज्ञेयत्वस्य च उक्तत्वादिति भावः । “त्रयी
न श्रुतिगोचरा” इत्यत्र गोचरशब्दस्य विशेष्यलिङ्गतया प्रयोगात् 'न
तच्छब्दगोचरम्' इति साधु । सुधायां तु शब्दानां गवां ज्ञानानां चर
श्चरणं वृत्तिर्यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहिं चरश्च
रणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं चाश्रित्य शब्दगोचरमित्यस्य
साधुत्वमुक्तम् । 'यतः' इति तैत्तिरीयवाक्यम् । यतो 'वाचो' वेदा वा
गिन्द्रियाणि च 'मनसा' मनोरूपेन्द्रियेण सह 'तमप्राप्य' तद्विषय
कवत्तिज्ञानमजानन्त्य एव निवर्तन्ते । तं ब्रह्मण आनन्दं विद्वान्न बिभेति
इत्यर्थः । गुणगुणिनोरभेदाश्रयेणैतदुदाहृतम् ॥
( २ ) 'अशब्दम्' इति काठकवाक्यम् । अत्र सर्वत्र यच्छब्दो
योज्यः । न विद्यते शब्दो गुणः प्रमाणं वा यस्मिंस्तत्तथोक्तम् । प्राक्त
नशब्दगुणशून्यं शब्दप्रमाणाविषयः शब्दभिन्नं चेत्यर्थः । 'अस्पर्श'
स्पर्शगुणशून्यं तत एव स्पर्शालिङ्गाविषयः तद्भिन्नं च, 'अरूपं' स्वरू
परहितं अत एव चाक्षुषप्रत्यक्षाविषयस्तद्भिन्नं च । 'अरसं' रसगुण
शून्यं रसभिन्नं च । अगन्धमित्यस्याप्युपलक्षकमेतत् । अनेन पञ्चमा
त्राविलक्षणत्वमप्युक्तम् । 'अव्ययं नित्यम्' इत्याभ्यां स्वरूपतो देहत
श्च नाशशून्यत्वमुच्यते । अगन्धवदित्यनेन गन्धवत्पृथिवीविलक्षणत्व
मुक्तम् । अनेनोपलक्षणया पञ्चमहाभूतविलक्षणत्वमप्युक्तं भवति । अ
स्य 'निचाय्य तं मृत्युमुखात्प्रमुच्यते' इत्यनेनान्वयः ॥
( ३ ) 'अवचनेन' इत्यन्यच्छ्रुतिवाक्यम् । 'अवचनेन' वचनवृ
tail! It IS an इ!
Wait, why would it be इश्रुतिभिः?
Because line 3 ended with इत्यादिभि, and the typesetter mistakenly repeated इ at the start of line 4, making इश्रुतिभिः, OR it was broken from इत्यादिभिः -> wait, could line 3 be इत्यादिभि and line 4 इ? No, line 3 has इत्यादिभि.
Wait, look at line 4 again:
Could it be द्भिः? No.
It is literally printed as इश्रुतिभिः!
Wait, let's look closer at line 4:
Could it be श्श्रुतिभिः?
Wait, look at श् in तच्छब्दगोचरम् (line 4) - च्छ.
Look at श् in श्रोत्रम् (line 3).
Look at इ in इत्यादिभि (line 3).
The letter in line 4 is: इ!
Yes, it is printed as इश्रुतिभिः.
Let's check line 15:
(५) सिद्धान्तयत्सूत्रमवतारयति - नेति ॥ इतिशब्द आवर्
Wait, at the end of line 15:
आवर् followed by त्य?
Notice the letter:
‘ आत्मन्येवात्मानं पश्येत्’ ( बृ. ६-४-२३. ) ‘विज्ञाय
प्रज्ञां कुर्वीत ’ ( बृ. ६-४-२१. ) इत्यादिवचनैरीक्षणी
यत्वाद्वाच्यमेव ।
( ६ ) औपनिषदत्वान्नावचनेनेक्षणम् ।
न ‘ परात्परं ’ उत्तमादुत्तमं ‘पुरिशयं’ सकलदेहान्तर्गतं ‘पुरुषं ’ पूर्णं
वासुदेवं परमात्मानं ‘ ईक्षते ’ जानातीत्यर्थः । यद्यपि षट्प्रश्नटीकायां
“जीवघनाद्विरिञ्चात्तदुपासनयेति यावत्, ईक्षते पुनरभिबुद्धज्ञानो भ
वति । ईक्षित्वाच तं प्राप्नोति ” इत्युक्तेरीक्षतेरपरोक्षज्ञानार्थत्वं प्रतीय
ते । तथाऽपि मूले ज्ञानसामान्यविषयत्वरूपेक्षणीयत्वहेतोरसिद्धिपरि
हाराय अस्याः श्रुतेरुपन्यस्तत्वात् “ हिरण्यगर्भोपदेशेन ” इति टी
कोक्तेश्चेह प्रकृतानुगुण्यादीक्षतिः परोक्षज्ञानार्थो व्याख्येयः । ‘ आत्म
नि ’ इत्यपरं काण्ववाक्यं जिज्ञासा नये व्याकृतम् । ‘विज्ञाय ’ इत्य
न्यद्वाजसनेयवाक्यम् । ‘ब्राह्मणो ’ ब्रह्मनिष्ठो धीरः ‘तं ’ परमात्मानमे
वं शास्त्रेणाचार्याद्वा ‘विज्ञाय ’ परोक्षतो ज्ञात्वा ‘प्रज्ञां ’ प्रकृष्टमपरोक्ष
ज्ञानं ‘कुर्वीत’ सम्पादयेदित्यर्थः । इत्यादीति । एवमादिवाक्यैरित्यर्थः ।
आदिशब्देन “ आत्मा वा अरे द्रष्टव्यः ” ( बृ. उ. २-४-५. ) “ अज
आत्मा महान् ध्रुवः” ( बृ. उ. ४-४-२०. ) “ तमेव धीरो विज्ञाय ”
(बृ. उ. ४-४-२१. ) इत्यादिकं गृह्यते । ईक्षणीयत्वात् । अवगमोपलक्ष
कमेतत् । अन्यथाऽनन्वयात् । अनेनासिद्धिः परिहृता । तदन्यथाऽनुपप
त्तेरिति शेषः । वाच्यमेवेति सौत्रनञ्द्वयलब्धार्थोक्तिः । न त्ववाच्यं
नापि लक्ष्यमिति एवशब्दार्थः । तादर्थ्येनास्यान्वयः । आनन्तर्यसूचनाय
सूत्रभाष्ययोः प्रतिज्ञाहेत्वोर्व्युत्क्रमेणोक्तः ॥
( ६ ) नन्वस्त्वीक्षणीयत्वं ब्रह्मणः, तथाऽपि न तदन्यथाऽनुपपत्त्या
तस्य वाच्यत्वं वाच्यं प्रत्यक्षादिनाऽपीक्षणीयत्वोपपत्तेरित्यत आह—
औपनिषदत्वादिति ॥ तदित्येतद्विपरिणम्यानुवर्तते । तथा च ‘तस्य’ ब्र
ह्मणः ‘औपनिषदत्वात्’ उपनिषदेकसमधिगम्यत्वात् ‘अवचनेन ’
वचनेतरप्रमाणेन ‘ईक्षणं’ ज्ञानं नेत्यर्थः । तथा च श्रुतिस्मृतिसाहाय्य
रहितप्रत्यक्षाद्यवेद्यत्वविशिष्टेक्षणीयत्वान्यथाऽनुपपत्या ब्रह्मणो वा
च्यत्वं सिद्ध्यत्येवेति भावः । परिशेषप्रमाणपरतया वा इदमावृत्य व्या
ख्येयम् । योजना तु—ब्रह्मणश्श्रुतिषूक्तं ईक्षणं प्रमाणेनैव हि भवेत् । प्र
७० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ७ ) 'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वद-
न्ति' । ( कठ. २-१५० )
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।
( भ. गी. १५-१५० ) इत्यादिश्रुतिस्मृतिभ्यश्च ।
( ८ ) अवाच्यत्वादिकं त्वप्रसिद्धत्वात् ।
सर्वप्रमाणेषु च 'नावचनेन' वचनेतरप्रमाणेनेक्षणं सम्भवति औप-
निषदत्वाद् वचनेनैव भवदीक्षणं नावचनेन वचनवृत्त्यन्यलक्षणादि-
ना सम्भवति । कुतः ? 'अवचनेन' भावप्रधानो बहुव्रीहिः । अवचन-
त्वेनावाच्यत्वेन निमित्तेन अतः परिशेषादीक्षणं वाच्यत्वमेव साध-
यतीति ॥
( ७ ) ननु श्रुतिसिद्धमवाच्यत्वं कथमीक्षणीयत्वयुक्तिमात्रेण दू-
ष्यते ? 'प्राबल्यमागमस्यैव' इति युक्तितः श्रुतेः प्राबल्योक्तेरित्यतः
सौत्रो हेतुरागमोपलक्षक इति भावेन वाच्यत्वे श्रुतिस्मृती चाह—
सर्वे इति ॥ कठानामियं श्रुतिः । सर्वे वेदा 'यत्पदं' यस्य ब्रह्मणः स्व-
रूपं 'आमनन्ति' मुख्यवृत्त्या सतात्पर्यं प्रतिपादयन्ति । सर्वे वेदाः स-
र्वाणि तपांसि प्रसिद्धानि 'यन्' ब्रह्म प्रति 'वदन्ति' तदुद्देशेन कर्त-
व्यानीति बोधयन्तीत्यर्थः । तत्त्वप्रदीपरित्या 'तपांसि' आलोचनरूपा
युक्तय इति वा । सर्वैर्वेदैरहमेव 'वेद्यो' मुख्यतः प्रतिपाद्यः । अहं
'वेदान्तकृत्' ब्रह्मसूत्रकृत् 'वेदवित्' वेदार्थज्ञानी चेति गीतास्मृत्य-
र्थः । आदिपदात् 'अथ कस्मादुच्यते' 'नामानि सर्वाणि' 'वचसां
वाच्यमुत्तमम्' इत्यादेस्सङ्ग्रहः । तथाच श्रुतौ 'आमनन्ति' इति सा-
क्षाद्वाच्यत्वोक्तेः, स्मृतौ च 'अहमेव' इत्यवधारणोपपत्तये मुख्यतया
वेद्यत्वस्य विवक्षणीयत्वात् तस्य च वाच्यत्वं विनाऽयोगात्सर्वशब्द-
लक्षणायाश्चासम्भवाद्वाच्यत्वमेवाभ्यां सिद्ध्यतीति भावः । स्मृतिभ्य
श्चेत्यस्य वाच्यमेवेत्यनेनान्वयः । आदिशब्दोपात्त श्रुतिस्मृत्यपेक्षया ब-
हुवचनम् । न केवलमीक्षणीयत्वहेतोरिति चार्थः ॥
( ८ ) नन्वेवं वाच्यत्वस्य युक्त्यादिसिद्धत्वे अवाच्यत्वाज्ञेयत्वा-
विधायकोदाहृतश्रुतेः 'यतो वाचः' इत्यादिरूपायाः का गतिरित्यत
आह—अवाच्यत्वादिकमिति ॥ अज्ञेयत्वमतर्क्यत्वं च आदिशब्दार्थः ।
[ अधि - ५. सू - ५. ] दीपिकासहितम्. ७१
(९) न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः । इतिवत् ॥
(१०) अप्रसिद्धेरेवाच्यं तद्वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम् ॥ इति गारुडे ।
(११) न चाशब्दत्वमितरसिद्धम् ॥
तुशब्दः शङ्काव्यावर्तकः । भिन्नक्रमेणावधारणे वा । तथा च 'अप्रसि
द्धत्वात्' साकल्येन अगोचरत्वान्निमित्तादेव ब्रह्मणि 'अवाच्यत्वादि
कं' अवाच्यत्वादिव्यपदेशो युज्यत इति न तद्विरोध इति भावः ।
अनेन सिद्धान्ते 'अशब्दम्' इत्यादेरप्रसिद्धत्वात्साकल्येन वाचकश
ब्दशून्यमित्यादिरर्थः । 'अवचनेनै' इत्यस्य तु साकल्येन वचनमन्तरे
णेत्यर्थ इत्युक्तं भवति ॥
(९) नन्वप्रसिद्धिनिमित्तकोऽवाच्यत्वादिव्यपदेशः क्व दृष्ट इत्य
त आह-न तदिति॥ यस्मात् 'विपश्चितो' ज्ञानिनो मेरो रूपं पश्यन्तोऽ
पि 'ईदृगिति' साकल्येन 'न पश्यन्ति' न जानन्ति । अनेनाप्रसिद्धत्वहेतुः
सूचितः। तस्मान्मेरो रूपं न ज्ञेयं प्रत्यक्षेण। न वाच्यं शब्देन। 'न तर्क्यते'
नानुमीयते च लिङ्गेनेत्युच्यत इत्यर्थः । इतिवदिति । इति वाक्य इवे
त्यर्थः। अस्यावाच्यत्वादिकमिति पूर्वेणान्वयः। तथा च यथा मेरुरू
पे अप्रसिद्धिनिमित्तकावाच्यत्वादिव्यपदेशस्तथा ब्रह्मण्यपीति भावः ।
(१०) न केवलं 'पश्यन्तः' इत्युक्तस्यान्यथाऽनुपपत्तिमात्रेणैव अप्र
सिद्धेरज्ञेयत्वातर्क्यत्वावाच्यत्वव्यपदेश इति व्यवस्था सिद्धा, अपि
तु स्मृतिसिद्धा चेति भावेनाह-अप्रसिद्धेरिति ॥ तद्ब्रह्म यतः 'परं'
पूर्ण अतस्साकल्येनाप्रसिद्धत्वादवाच्यमुच्यते । सर्वे सदागमोक्तत्वा
त्तप्रसिद्धत्वाद्वाच्यं च भवतीत्यर्थः । एवमप्रसिद्धिप्रसिद्धिभ्यां तत्
अतर्क्यं अनुमेयं च अज्ञेयं ज्ञेयं ज्ञानिप्रत्यक्षगम्यं च 'स्मृतं' स्मृति
कारैरुक्तमित्यर्थः । गारुडे इत्यनन्तरं उक्तमिति शेषः। अस्याप्यवा
च्यत्वादिकमित्यनेनान्वयः ॥
(११) एवं 'यतो वाचः' इत्यादिश्रुतीनां युक्त्यादिबलादर्थान्त
रोपपत्तेर्न तद्बलाच्छब्दावाच्यं ब्रह्मेति सूत्रं व्याख्यायापव्याख्यां प्रत्या
ख्याति-न चेति ॥ चशब्दः स्वसिद्धमपि नेतिसमुच्चये । तथा च जग
त्कारणं 'अशब्दं' प्रधानं न, कुतः ? अशब्दं हि तत् । 'अशब्दं' प्रधा
७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( १२ ) सू—ॐ ॥ गौणश्चेन्नात्मशब्दात् ॥ ॐ ॥ ६ ॥
( १३ ) न च गौण आत्मा दृश्यो वाच्यश्च न निर्गुण इति यु
क्तम् । आत्मशब्दात् ।
नं कारणं नेति वा, कुतः? ईक्षतेः 'तदैक्षत' इति जगत्कारणस्येक्षणक
र्तृत्वश्रवणात्प्रधानस्य चाचेतनत्वेन तदसम्भवादिति साङ्ख्यमतनि
राकरणपरतया व्याख्याने प्रथमप्रतिज्ञायां हेतूकृतं 'अशब्दत्वं' अश्रौ
तत्वं 'इतरसिद्धं' स्वेतरसाङ्ख्यसिद्धं न, न केवलमेतावत्, किन्तु
स्वसिद्धमपि न, साङ्ख्येन वैदिकत्वाभ्युपगतेः । सूत्रकारेण 'अजामे
कां' (तै. आ. १०-१०-१०) इत्यादिश्रुत्युक्तत्वाङ्गीकारात् ।
यद्वा—तत्त्वप्रदीपरीत्या मायिना साङ्ख्यं प्रति हेतुत्वेनोपन्यस्त
मशब्दत्वं मायीतरस्य साङ्ख्यस्य न सिद्धं नापि साङ्ख्येतरमायिसिद्ध
मुक्तहेतुभ्यामेव। तथा चासिद्धिरिति न तद्व्याख्यानं युक्तमितिभावः ।
एवमशब्दत्वं श्रौतत्वं ब्रह्मणस्साङ्ख्येतरमायिसिद्धं न, तन्मते अवाच्य
त्वात् । चकारादीक्षितृत्वमपि सिद्धं न, तस्येक्षतिस्वरूपत्वादित्यपि
व्याख्येयम् । तथा च हेतुद्वयमपि स्वपक्षप्रतिकूलमिति न परव्याख्या
युक्तेति भावः । तत्त्वप्रदीपे तु 'न च' इत्यादिभाष्यं 'इतरसिद्धं' मा
यिसिद्धमशब्दत्वं न श्रुत्यर्थः उक्तन्यायेन ब्रह्मणो वाच्यत्वात् । एवं
'अशब्दत्वं' अवाच्यत्वं ब्रह्मण इतरस्य मायिनोऽपि न सिद्धम् । ब्रह्म
णि व्यवहाराभावप्रसङ्गात् इति द्वेधा व्याख्याय परकृतव्याख्याप्रत्या
ख्यानाय परोक्तहेतोष्टीकारीत्याऽसिद्ध्युक्तिपरतयाऽपि व्याख्यातम् ॥५॥
( १२ ) ईक्षणीयत्वस्य हेतोर्व्यधिकरणासिद्धिमाशङ्क्य समाधातुं
सूत्रम्—'ॐ गौणश्चेन्नात्मशब्दात्' इति ॥ अस्यार्थः—यतः 'आत्म
न्येवात्मानं पश्येत्' इत्यादिश्रुत्युक्त आत्मा 'गौणः' सत्त्वादिगुणबद्धो
जीव एवातस्तदन्यथाऽनुपपत्त्या वाच्योऽपि स एव स्यान्न निर्गुणः प
रमात्मेति चेत्-न कुतः? 'आत्मानं पश्येत' इतीक्षणीये तस्मिन्नात्मशब्द
श्रवणादिति । आत्मपदसामानाधिकरण्याय पुल्लिङ्गनिर्देशः ॥
( १३ ) सूत्रं व्याचष्टे—न चेति ॥ अत्र यतो ' दृश्यः' ईक्षतिश्रुतौ
दृश्यतयोक्तः 'आत्मा' जीवाख्यो गौण एव अतस्तदन्यथानुपपत्त्या
वाच्योऽपि स एव स्यात् 'न निर्गुणः' गुणातीतो विष्णुः 'दृश्यः'
ईक्षतिश्रुत्युक्तः । गौणग्रहणे बाधकस्येतरज्ञापकस्य चाभावादिति
[ अधि - ५. सू - ६. ] दीपिकासहितम्. ७३
( १४ ) यो गुणैस्सर्वतो हीनो यश्च दोषविवर्जितः ।
हेयोपादेयरहितः स आत्मेत्यभिधीयते ।
एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् ।
अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते । इति वामने ।
( १५ ) ' द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च । तत्र यः
भावः । अतो न स वाच्यः इति चोद्यं न युक्तम् । कुतः ? ' आत्मश-
ब्दात् ' ' आत्मन्येव ' इति वाक्ये ईक्षणीये तस्मिन् आत्मशब्दश्रवणा-
दृश्यो निर्गुण एव, अत एवैक्षत्या लिङ्गेन वाच्योऽपि स एव भवेदिति
योजना । यद्यपि सुधायां गौणपदं मायाशबलितैश्वर्यादिधर्मयुक्तसगु-
णब्रह्मपरतया व्याख्यातः तथाऽपि पूर्वपक्षिणो मायाशबलितं वा गु-
णबद्धा जीवा वा दृश्या वाच्याश्च, न सर्वथा निर्गुणं ब्रह्मेत्याशयान्न
विरोधः ॥
( १४ ) नन्वात्मशब्दसद्भावे कुतोऽयं निर्गुणो न गौण इत्यत आह—
य इति ॥ यः ' सर्वतः ' प्रकारेण 'गुणैः' सत्त्वादिभिः शून्यः यश्च दुः-
खादिदोषरहितः यश्च हेयोपादेयरहितः । भावप्रधानोऽयम् । हेयत्व-
सहितोपादेयत्वरहित इति । उपादेय एवेत्यर्थः । तत्त्वप्रदीपरित्या
स्वाभाविकदोषरहितो गुणपूर्णत्वेनाप्तकात्वाद्युपादेयरहित इति
वा । तत्त्वोद्योतटीकारीत्या दोषाभावाद्धातुरभावाद्वा हेयत्वरहितः,
लौकिकगुणाभावादुपादातुरन्यस्य स्वतन्त्रस्याभावाद्वा उपादेयत्वर-
हितः अनिष्टाभावाद्धेयं नास्ति, अपूर्त्यभावादुपादेयमस्य नास्तीति
वा तथोक्तः । य एवं भूतस्स आत्मेत्यभिधीयते । य एतद्विरुद्धस्वभा-
ववान् सोऽनात्मेति सतां ' मतं ' सम्मतमित्यर्थः । क्वचित् ' हृदि
ह्येष आत्मा ' इत्यादावेतदन्यस्वभावेऽप्यात्मपदप्रयोगात् कथं सोऽना-
त्मेत्यत आह—अनात्मनीति । ' अनात्मनि ' आत्मशब्दमुख्यार्थभिन्ने
जीवे ' आत्मशब्दः ' ' सोपचारः ' उपचारः परममुख्यवृत्त्यन्यमुख्यवृ-
त्तिः तत्सहितस्तद्वृत्तिक इत्यर्थः । तुशब्दो विशेषार्थः । ' वामने ' इत्य-
नन्तरं ' निर्गुणैकनिष्ठत्वेनोक्तत्वात् ' इति शेषः । अस्य नायं दृश्यो वा
च्यश्च गौणः, किन्तु निर्गुण एवेत्यनेनान्वयः ॥
( १५ ) अत्रैव प्रमाणान्तरमाह—द्वे वावेति ॥ ' ब्रह्मणः ' परब्रह्मणः
रूपं च रूपं च रूपे । तत्राद्यो रूपशब्दः स्वरूपपरः द्वितीयो रूप्यते
१०
? मwith an anusvara? Or is itन? Wait, let's look at line 14 again: स तां स म्म ता मं ल्ये र्थः? Wait, does त्यhave an e-matra? Look aboveत्य: YES! There is a slant line going up to the left! That's an e-matra! Wait, an e-matra on त्यmakes itत्ये? No, wait! Is the e-matra on त्यor on the letter before it? Wait! Could the word be: सतां सम्मतान्वय्यर्थः? No. सतां सम्मतामेत्यर्थः? Wait, what if it is: सतां सम्मतामित्यर्थः? Let's look at the character: स तां स म्म ता मं त्य र्थः Wait, let's look at the dot aboveता: Is that an anusvara? Or a stray dot? Notice on this page, there are several small spots/ink marks (e.g. line 8 above पौन, line 10 under र्थः`).
[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७५
( १८ ) न हि गौणात्मनिष्ठस्य मोक्षः ।
( १९ ) यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन् सन्दोहे
गहने प्रविष्टः ।
स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स
उ लोक एव ( बृ. उ. ६-४-१३. )
इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते ।
धस्य आत्मज्ञानिनः 'मोक्षोपदेशात्' नात्मशब्दमुख्यवाच्यो गौण इ-
ति सूत्रार्थः ॥
( १८ ) तन्निष्ठस्य मोक्षोपदेशोऽपि कुतोऽयमात्मा न गौण इत्यप्रयो-
जकत्वमाशङ्कयाह - न हीति ॥ गौणमोक्षपदसमभिव्याहृतो हिशब्दो
विरोधाख्यहेतुसूचकः । तथा च- 'हि' यस्मात् 'गौणात्मनिष्ठस्य'
गुणबद्धजीवज्ञानिनः तज्ज्ञानाद्गुणबन्धनिवृत्तिरूपो 'मोक्षो' न स-
म्भवति, विरोधात् तस्मात् 'न हि' नाप्रयोजकता शङ्क्येत्यर्थः ॥
( १९ ) असिद्धिशङ्कां परिहर्तुं कोऽसावात्मनिष्ठस्य मोक्षोपदेश इ-
त्यतस्तं दर्शयति - यस्येति ॥ अत्र श्रुतिः स्वप्रयुक्तमुशब्दं एवेति व्या-
चष्टे । 'उ' एकः प्रधान इति वा । तच्छब्दो विष्णुतज्ज्ञानिपरः । तथा
च - 'हि' यस्मात् 'सः' विष्णुः 'सर्वस्य कर्ता' तस्मादेव 'वि-
श्वकृत्' वायुकर्ता 'प्रतिबुद्धः' स्वतस्सर्वज्ञः 'अस्मिन् सन्दोहे' स-
न्दुह्यते पुरुषार्थो अनेनेति वा कार्यकारणसंघातरूपत्वाद्वा भूतसमुदा-
यरूपत्वाद्वा सन्दोहनामके मध्यदेहे स्थिते 'गहने' गम्भीरे हृदयगु-
हास्थाने 'प्रविष्टः' सः 'आत्मा' विष्णुः 'यस्य' येनोपासकेन 'अ-
नुवित्तः' सम्यग्ज्ञातः 'तस्य' अधिकारिणः 'उः' प्रधानः तस्य वि-
ष्णोर्यो 'लोकः' स एव लोकः स्थानं भवतीत्यर्थः । 'सन्दोहे' इ-
ति पाठेऽप्ययमेवार्थः । 'सन्देहे' इति पाठे अनेकार्थसङ्कट इत्यर्थः ।
तत्त्वप्रदीपे तु - सः विश्वकृत् कृतकृत्यः । कुतः ? यतः स हि परमा-
त्मा प्रसन्नः सर्वशक्तिः सर्वमस्य ज्ञानिनः कार्यं करोतीत्युक्तम् । अ-
स्मिन् पक्षे प्रथमः प्रथमान्ततच्छब्दो विष्णुज्ञानिपरः, विश्वशब्दः कृ-
त्यपरः, सर्वशब्दो ज्ञानिकार्यपरः । टीकाकृतपक्षे तु-प्रथमः प्रकृतवि-
ष्णुपरः, विश्वशब्दो वायुपरः, सर्वशब्दो जगत्पर इति भेदः । पक्षद्व-
येऽपि द्वितीयतृतीयौ विष्णुतल्लोकपरौ । 'इति' इत्येवंरूपे बृहदार-
७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २० ) अयमात्मा ब्रह्म । ( मा. उ. १-२, बृ. उ.२-५-१९. )
( २१ ) ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥
चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो ।
जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥
ण्यके ' आत्मनिष्ठस्य ' तज्ज्ञानिनो ' मोक्ष उपदिश्यते ' । अस्य यत
इत्युपदिश्यते अतो ' न गौण आत्मा ' इति वक्ष्यमाणप्रतिज्ञाऽन्वयः ।
सूत्रस्य तु न गौण आत्मशब्द इति पूर्वेणान्वयः । आत्मेत्यनेन सौत्रत
च्छब्दो नात्मशब्दपरः, किन्त्वर्थतः प्रधानात्मपर इत्युक्तं भवति ॥
( २० ) आत्मशब्दो विष्णावेव मुख्यः न जीवेष्वित्यत्र न केवलं त
न्निष्ठस्येत्यादिनोक्तमनुमानं मानम्, किन्तु सूत्रकृदभिप्रेताः स्पष्टश्रुति
स्मृतयश्चेति भावेन तां ताश्चाह—अयमिति ॥ ब्रह्मेत्यन्तस्य उपदिश्य
त इति पूर्वेणान्वयः । ' अयमात्मा ' रमाब्रह्मादिषु आदानादिकर्तृत्वेन
स्थितः आत्मा ' ब्रह्म ' विष्णुरेवेति माण्डूकश्रुत्यर्थः “ सोऽयं विष्णु
रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा ” इति मा
ण्डूकभाष्योक्तः ॥
( २१ ) “ वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्म” इत्यपरं
भागवतवाक्यम् । अद्वयं समाधिकशून्यं ज्ञानस्वरूपं यत्तत्त्वं वदन्ति
ज्ञानिनः तत् देशकालादिषु बृंहितत्वात् सर्वान्तर्यामित्वाद्यैश्वर्यादिगु
णवत्त्वाच्च निमित्तात् ' ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ' अभि
धीयत इत्यर्थः । अस्यापि पूर्वेण सम्बन्धः । तत्रैव चतुर्थस्कन्धे “दत्तं ”
इत्यन्यद्वाक्यम् । एतच्च ' अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् '
इति पूर्वार्धेनैवान्वेतव्यम् ।
पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।
काश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥
इति प्रकृतेन समुच्चयर्थस्तथाशब्दः । तथा च—अनसूयाख्या अत्रि
भार्या अत्रेः सकाशात् ' आत्मेशब्रह्मसम्भवान् ' आत्मा विष्णुरीशो
रुद्रः ब्रह्मा चतुर्मुखः आत्मा चेशश्च ब्रह्मा च ते तथोक्ताः तैस्सह भव
न्तीत्यात्मेशब्रह्मसम्भवाः तान् 'अकल्मषान्' अपापान् यो दत्तं दुर्वा
साः सोमश्चैतान् पुत्रान् 'जज्ञे' जनयामासेत्यर्थः । यद्वा—अनसूया अ
त्रेर्दत्तादीन् जनयामास, ते च आत्मेशब्रह्मसम्भवा इति विपरिणामेन
[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७७
इतरेष्वात्मशब्दस्तु सोपचारः प्रयुज्यते ।
तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥
सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।
परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततस्मृतः ॥
इति पाद्मे ।
व्याख्येयम् । अत्र ब्रह्मावेशेन सहोत्पन्ने चन्द्रे निरुक्तसम्भवशब्दो मु-
ख्यः । साक्षाद्विष्णुरुद्रांशत्वेन तत्सम्भूतयोर्दत्तदुर्वाससोस्तु छत्रिन्या-
येनामुख्य इति द्रष्टव्यम् । यद्यपि “अत्रेः पत्न्यनसूया त्रीन् जज्ञेऽति
यशसः सुतान् । दत्तं” इति भागवतपाठः, तथाऽप्यनुव्याख्याने एवं
पठितत्वात्तथैव सुधायां व्याख्यातत्वात्तदन्यकल्पीयं पाठान्तरं भवि-
ष्यतीत्यदोषः । अस्यापीत्युपदिश्यत इत्यनेनान्वयः । चेतनस्त्विति पा-
द्मवाक्यम् । ‘प्रभो’ इति कस्य चित्सम्बोधनम् । तत्रेति शेषः । आ-
द्यस्तुशब्दो विशेषार्थे । द्वितीयोऽवधारणे । तथा च—‘जीवाः ब्रह्मा-
दयः प्रोक्ताः आत्मा तु’ तच्छब्दमुख्यवाच्यस्तु ‘जनार्दनो’ विष्णुः
‘एकः’ एव प्रोक्तः प्रमाणेषु । ‘इतरेषु’ ब्रह्मादिषु ‘आत्मशब्दः सोप-
चारः’ परममुख्यवृत्त्यपेक्षया हीनवृत्तियुक्त इति ज्ञानिभिरभिधीयत
इत्यर्थः । कुतस्तस्यैवात्मत्वं नान्येषामित्यत आह—तस्येति । यतः
‘तस्य’ निर्गुणस्य आत्मनो ‘ज्ञानान्मोक्षो’ भवतीति “यस्यानुवित्तः”
( बृ. उ. ४-४-१३. ) इत्यादौ ‘उदाहृतः’ उक्तः अतोऽयमात्मा निर्गुणो
विष्णुरेव नान्यः। कुतः? तस्यैव विष्णोर्निर्गुणस्य मोक्षदातृत्वसम्भवात्,
अन्येषां तदसम्भवादित्यर्थः । आत्मज्ञानान्मोक्षोपदेशोऽपि कुतो नेतरे-
षामात्मत्वं तेषामपि मोक्षदातृत्वसम्भवादित्यत आह—सगुणा इति ।
तुरवधारणे । तथाच—‘अपरे’ विष्णोरन्ये ब्रह्मादयो यतः ‘सगुणाः’
सत्त्वादिगुणबद्धा एव न स्वतस्तद्विधुराः अतः ‘तज्ज्ञानान्नैव’ सर्वथा
‘मुच्यते’ अधिकारीत्यर्थः, गुणबद्धात्मविज्ञानात् गुणबन्धनिवृत्तिरूप-
मोक्षायोगादिति भावः । ननु विष्णावपि निर्गुणत्वेनास्तु मोक्षदातृत्व-
सम्भावना, तन्निश्चयस्तु कुत इत्यत आह—परो हीति । ‘हि’ यस्मात्
‘विष्णुःपरः’ स्वतन्त्रः । तत्त्वप्रदीपरीत्या सर्वोत्तम इति वा, ‘पुरुषः’
पूर्णः ‘तस्मान्मोक्षस्ततो’ विष्णोर्भवेदेवेति स्मृतः स्मृत्युक्त इत्यर्थः ।
‘इति पाद्मे’ इत्यस्यापि इत्युपदिश्यत इति पूर्वेणान्वयः ॥ ७ ॥
७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २२ ) सू-ॐ ॥ हेयत्वावचनाच्च ॥ ॐ ॥ ८ ॥
'तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ ।
अमृतस्यैष सेतुः ( मुं.उ. २-२-५. ) इत्यन्येषां हेयत्ववच-
नादस्याहेयत्ववचनाच्च गौण आत्मा ॥
( २३ ) सू-ॐ ॥ स्वाप्ययात् ॥ ॐ ॥ ९ ॥
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ (बृ.उ.५-१-१०.)
( २२ ) युक्त्यन्तरेणात्मशब्दादितो न गौण इत्याह सूत्रकृत्-हेय-
त्वेति ॥ अत्र हेयत्वं नाम मोक्षार्थे प्राधान्येन ज्ञेयत्वेनाविहितत्वम् । त-
था च-न केवलं तन्निष्ठस्य मोक्षोपदेशात्, किन्तु “तमेवैकम्” इति
श्रुतौ आत्मनो हेयत्वावचनात्, प्रत्युत 'जानथ' इत्यहेयत्ववचनात्, जीव-
स्य च “अन्या वाचो विमुञ्चथ” इति मुमुक्षुभिर्हेयत्ववचनाच्चेति
सूत्रवृत्तिभिप्रेत्य सूत्रं व्याचष्टे-तमिति । हे ऋषयः 'तं' आत्मानं
विष्णुं 'एव एकं' प्रधानं 'जानथ' जानीध्वम् । 'अन्याः' जीवादि-
विषयिणीः 'वाचः विमुञ्चथ' त्यजत, प्राधान्येन विष्ण्वितरान् न
जानीध्वमित्यर्थः । 'जानथ आत्मानं' इति विश्लेषो विष्णोः सर्वेभ्यो
विलक्षणत्वप्रदर्शनार्थः । विकरणव्यत्ययस्तु छान्दसः । अमृतस्येत्येक-
वचनं समुदायविवक्षया । तथा च-‘अमृतस्य’ मुक्तवर्गस्य ‘एषः’
विष्णुः 'सेतुः' मुख्याश्रय इत्यर्थः । 'इति' इत्येवंरूपायां मुण्डकश्रु-
तौ 'अन्येषाम्' जीवानां 'हेयत्ववचनात्' इत्यनेन चशब्दसमुच्चेयं द-
र्शितम् । सौत्रनञो व्यत्यासेन अन्वयम् अभिप्रेत्य समुच्चेयान्तरमाह-अ-
स्य विष्णोरहेयत्वेति । चशब्दः समुच्चये । सूत्रे गौणशब्दानुवृत्तस्य
“न गौण आत्मशब्दः” इत्यस्यार्थमाह-नेति । गौण आत्मशब्दमुख्य-
वाच्यो न, किन्तु निर्गुणो विष्णुरेवेत्यर्थः । तथा च-आत्मशब्दादीक्ष-
तिश्रुत्युक्तोऽपि निर्गुण एवेति सिद्धम् । तस्येक्षत्यन्यथाऽनुपपत्त्या वा-
च्यत्वमिति भावः ॥ ८ ॥
( २३ ) युक्त्यन्तरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमु-
पन्यस्यति-स्वाप्ययादिति ॥ सूत्रं व्याचष्टे-पूर्णमिति । 'अदो' मू-
लरूपं 'पूर्ण' 'इदं' अवताररूपं च 'पूर्णम्' । 'पूर्ण' अवताररूपं
सृष्टिकाले 'पूर्णात्' मूलरूपात् 'उदच्यते' उद्गच्छति । तत्त्वप्रदीप