पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 880, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - १४. ] दीपिकासहितम्. ८३३
( २ ) नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः ।
विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता ॥
इति वाराहे ॥ १३ ॥
--
७. अधिकरणम् ॥
( १ ) सू—ॐ ॥ इतरे त्वर्थसामान्यात् ॥ ॐ ॥ १४ ॥
स्तमानामेवेति वाक्यशेषः ॥
( २ ) अत्रैव स्मृतिमाह—नैवेति ॥ सर्वगुणास्तद्विशेषाश्च सर्वैरु-
पास्या नैव । कुतो ? 'मुक्तिभेदतः' मुक्तौ फलतारतम्यात् । अन्यथा
स न स्यादिति भावः । 'यत्' यस्माद्विरिञ्चस्यैव मुक्तावानन्दफल-
स्य सुपूर्णता, अन्येषां विरिञ्चेतरेषामपूर्णता चास्तीत्यर्थः । वाराहे पु-
राणे उक्तमिति शेषः । अस्य नेत्यनेनान्वयः । न चास्य सूत्रस्य 'अ-
ज्ञात्वैनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्' ( )
इति गीताभाष्योदाहृतश्रुतिविरोधः शङ्क्यः । यतः प्रमेयदीपे ध्यानापे-
क्षया सूत्रं, ज्ञानापेक्षया तु श्रुतिरिति विशिष्टाधिकारिविषयेयं श्रुतिरि-
ति च द्वेधा समाधानमुक्तम् ॥ ६ ॥
॥ इति प्रियशिरस्त्वाधिकरणम् ॥
-:**:-
७. अधिकरणम् ॥
( १ ) अत्राधिकरणे देवगन्धर्वपर्यन्तानां ब्रह्माणीतरदेवादीनां
प्रियशिरस्त्वादिषड्गुणोपासनं समर्थ्यते । योग्यतानियमानिर्णयाद्वि-
रिञ्चेतरदेवादिभिश्चतुर्भ्योऽन्ये मध्यमगुणा नोपास्या इति प्राप्ते सिद्धा-
न्तयत्सूत्रं पठित्वा व्याचष्टे—इतरे त्विति ॥ 'आनन्दादयः' इत्यत्र प्र-
कृतेभ्यश्चतुर्भ्यः 'सर्वभेदात्' इत्यत्र प्रकृतेभ्यस्सर्वगुणेभ्यश्च 'इतरे'
मध्यमगुणाः 'इतरैः' चतुर्मुखेतरदेवादिभिः 'उपसंहर्तव्याः' उपसं-
हृत्योपास्या इत्यर्थः । अनेन तुरप्यर्थ इति सूचितम् । न चोपासन-
योग्यतानिर्णय इत्यतः तद्धेतुत्वेन अर्थादित्येतत् ल्यब्लोपनिमित्तप-
ञ्चमीत्वाभिप्रायेण व्याचष्टे—फलेति । तत्तत्प्राप्यफलानुसारेणेत्यर्थः ।
फलमपेक्ष्य कथं निर्णय इत्यतः फलोपासनयोः साम्यादिति युक्तिक-
थनपरतया सामान्यपदं व्याचष्टे—साम्येति । उपासनस्य तत्तत्प्राप्य
१०५