सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 878, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 878

[ अधि - ६. सू - १३. ] दीपिकासहितम्. ८३१
( २ ) सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता ।
सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता ॥
इति ब्रह्मतर्के ॥ १२ ॥
— * —
६. अधिकरणम् ॥
( १ ) सू—ॐ ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि
भेदे ॥ ॐ ॥ १३ ॥
यद्यपि सूत्रे आनन्दमात्रस्य मुखतो निर्देशात्सङ्ख्यानिर्देशक्लप्त्यस-
म्भवः। तथाऽपि सत्पदोदितनिर्दोषत्वस्य ज्ञानानन्दयोः आत्मपदोदि-
तस्वामित्वस्य सर्वापेक्षितत्वात् स्वसम्बन्धानुस्मरणस्य भगवत्प्रीति-
साधनत्वेन सर्वापेक्षितत्वात् 'तं यथा यथा' ( ) इति श्रुते-
रपेक्षितफलानुसारेणैवेश्वरस्योपास्यत्वात् प्रधानस्येत्युक्तफलपर्यालो-
चनया आदिपदेन ज्ञानादित्रयस्यैव ग्राह्यत्वात् सङ्ख्यानिर्देशज्ञानं सु-
करमिति न दोषः। यद्यप्युपासनस्यानन्दादिरूपमोक्षार्थत्वादिति सौत्रो
हेतुः निर्देशनियमसाधक एव, न त्वधिकसङ्ख्येयसमुच्चयव्यवच्छेद-
मुखेन सङ्ख्यानियमसाधकः। तथाऽपि तत्सूचितस्सर्वेषां मुमुक्षूणाम-
धिकोपासनासमर्थत्वादिति हेतुस्तत्साधको भविष्यतीत्यदोषः ॥
( २ ) अत्र स्मृतिं चाह—सच्चिदिति ॥ 'सर्वेषां मुमुक्षूणां' कर्म-
क्षयादिचतुर्विधमोक्षेच्छूनां ब्रह्म सच्चिदानन्दात्मेत्येवं प्रकारेणोपासा वि-
निश्चिता कर्तव्यतयेति शेषः । कुतः ? यतः सा 'अपेक्षिता' अपे-
क्षितफलसाधनम् । न चास्तु अन्यथाऽप्युपासनं, 'फलसाम्यात्' फ-
लस्योपास्तिसदृशत्वात् । यद्वा—उपासनस्य प्रतिमुखस्य 'यथा
मुखश्रीः' इति भागवतोक्तेः अपेक्षितफलेन साम्यात् तदनुसारित्वा-
दित्यर्थः ॥ ५ ॥
॥ इति आनन्दाधिकरणम् ॥
—:*:—
६. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मोपासने प्रियशिरस्त्वादिगुणानां सर्वाधि-
कारिसाधारण्यनिरासेन सर्वेषां चतुर्गुणनियमः समर्थ्यते । अप्राप्ति-
रित्यनेन प्राप्तिपूर्वपक्षसूचनात्तमनुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य
व्याचष्टे—प्रियेति ॥ सूत्रे प्रधानस्येत्यनुवर्तते । तस्य भेदशब्देनान्व-