सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 856, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 856

[ अधि - २०. सू - ४०. ] दीपिकासहितम्. ८०९
२०. अधिकरणम् ॥
( १) कर्मापेक्षत्वात्फलदानस्य तदेव ददातीति न वाच्यम्।
कुतः ?
( २ ) सू—ॐ ॥ फलमत उपपत्तेः ॥ ॐ ३९ ॥
अत एवेश्वरात्फलं भवति । न ह्यचेतनस्य स्वतः प्रवृ-
त्तिर्युज्यते ॥ ३९ ॥
( ३ ) सू—ॐ ॥ श्रुतत्वाच्च ॥ ॐ ॥ ४० ॥
२०. अधिकरणम् ॥
( १ ) अत्राधिकरणे भगवतः स्वर्गादिकर्मफलदातृत्वं समर्थ्यते ।
पूर्वपक्षयति—कर्मेति ॥ फलदानस्येति षष्ठी सप्तम्यर्थे । ईश्वरस्येति
शेषः । तथा च शुभाशुभफलदाने ईश्वरस्य पुण्यपापाख्यकर्मापेक्षत्वा
दित्यर्थः । यद्वा—ईश्वरकर्तृकफलदानस्य कर्मापेक्षत्वासद्धीनत्वादि
त्यर्थः । कर्मापेक्षत्वादित्येतद्व्याहत्यसिद्धिपरिहाराय कर्मापेक्षत्वस्ये
श्वरवादिभिरङ्गीकृतत्वादित्यपि व्याख्येयम् । एवं फलदानस्य फलख
ण्डनस्य फलादानस्य कर्मापेक्षत्वात् तदकरणापेक्षत्वादिति व्यतिरेक
परतयाऽपीदं व्याख्येयम् । तथा च अन्वयव्यतिरेकाभ्यां तदेव कर्मैव
फलं ददाति नेश्वर इति ज्ञायत इत्यर्थः । सिद्धान्तयन्नेतत्प्रतिषेधति-
इति न वाच्यमिति । अत्र हेतुं पृच्छति—कुत इति ॥
( २ ) एतच्चोद्योत्तरत्वेन सूत्रमुपन्यस्य व्याचष्टे—फलमिति ॥ अ
त इत्यनूद्य सावधारणत्वाभिप्रायेणास्मादीश्वरादेवेति व्याख्यातम् ।
न कर्मण इत्येवार्थः । उपलक्षणमेतत् । अतः सर्वत्र सर्वमेतस्मादित्यु
क्तेरेवेति तत्त्वप्रदीपोक्तमपि द्रष्टव्यम् । 'फलं' स्वर्गनरकादिरूपम् ।
भवतीति सूत्रशेषोक्तिः । इतिशब्दो हेतौ, सूत्रार्थस्य न वाच्यमिति
साध्ये हेतुत्वद्योतकः । फलमत इति प्रतिज्ञायामुपपत्तेरिति हेतुर्यो
ज्यः । तस्येश्वरस्य चेतनत्वात्सर्वेशितृत्वाच्च फलदातृत्वोपपत्तेरित्य
र्थः इत्याशयेनैवकारेणोक्ते कर्मणः फलदातृत्वाभावे उपपत्तिरित्यनेना
र्थलब्धं हेतुं स्वयं योजयति—न हीति । अचेतनस्येति हेतुगर्भः । 'प्र
वृत्तिः' फलदाने । फलदातृत्वमिति यावत् । अस्मदादावदर्शनादिति
हिशब्दार्थः । अन्याधीनप्रवृत्तिदर्शनात्कथमेतदित्यत आह-स्वत इति॥
( ३ ) नन्वीश्वरस्य चेतनत्वेन फलदातृत्वसम्भावनैव भवेत् न नि
१०२