सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 802, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 802

[ अधि-७. सू-१०. ] दीपिकासहितम्. ७५५
श्रुतिः 'आत्मानमेव लोकमुपासीत' (बृ.उ.३-४-१५०)
इति च विधिः ॥ ९ ॥
――:❖:――
७. अधिकरणम् ॥
( १ ) सू—ॐ ॥ मुग्धोऽर्धसम्पत्तिः परिशेषात् ॥ ॐ ॥ १० ॥
मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य ।
( २ ) हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यति ।
पास्यत्वप्राप्त्या श्रुतौ परमात्मन एवोपास्यत्वावधारणानुपपत्तिरिति
भावः । श्रुतिस्तु भाक्तनये व्याख्याता ॥ ६ ॥
॥ इति कर्मानुस्मृत्यधिकरणम् ॥
――:※:――
७. अधिकरणम् ॥
( १ ) अत्राधिकरणे ईश्वरस्यावान्तरावस्थासंस्थितजीवप्राप्यत्व-
महिमा निरूप्यते । भगवत्येव मोह इति पूर्वपक्षे मोहावस्थायाः सुषु-
प्त्यन्तर्भावापत्त्या पृथगवस्थासंस्थितजीवप्राप्यत्वमहिमालाभात् मो-
हावस्थाया अर्धप्राप्तिरूपत्वेन ईश्वरतदितराधिकरणकत्वमिति समर्थ-
नेन पृथगवस्थात्वसमर्थनमपि तन्निरूपणोपयुक्तमेव भवति । अत्र भ-
गवत्येव मोहो न तदितरत्रापीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य प्र-
तिज्ञांशं तावद्व्याचष्टे — मुग्ध इति ॥ मोहेत्यनेन 'मुग्धे' मूर्च्छायामिति
मुग्धपदं भावार्थकक्तप्रत्ययान्ततया व्याख्यातम् । परमेश्वरत्यनेन त-
दभावसूत्रादात्मनीत्यस्यानुवृत्तिः सूचिता । अर्धप्राप्तिरिति । भगवदुद-
रे अर्धप्रवेश एवेत्यर्थः । अनेनार्धसम्पत्तिपदं व्याख्यातम् । 'पर'इति सू-
त्रादनुवृत्तस्य अस्येत्यस्यार्थो जीवस्येति । अनेन न मोह ईश्वर एव,
नापि तदितरत्रैव, किन्त्वीश्वरे तदितरत्र चेति सिद्धान्तप्रतिज्ञा प्रदर्शि-
ता भवति ॥
( २ ) एवं प्रतिज्ञांशं व्याख्याय परिशेषादिति हेत्वंशं व्याख्यातुं प्र-
तिज्ञाहेत्वात्मकसमस्तसूत्रार्थे स्मृत्तिमुदाहरति — हृदयस्थादिति ॥
ल्यब्लोपनिमित्ते पञ्चम्यौ । तथाशब्दस्समुच्चये । तथा च यदा जीवः
'परात्' परमात्मानमपेक्ष्य 'दूरस्थः' अक्षिस्थो भवति तदा 'जाग्रत्'
जाग्रत्त्वमेष्यति । यदा तु 'समीपस्थः' कण्ठदेशस्थस्तदा स्वप्नाव-
स्थामेष्यति । यदा च 'अस्मिन्' परमात्मनि 'लयं' मक्षिकाणां मधु