सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 800, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 800

[ अधि - ६. - सू - ९. ] दीपिकाकहितम्. ७५३
प्रमातैव परमः' इति कौण्डिन्यश्रुतिः ॥ ८ ॥
—:*:—
६. अधिकरणम् ॥
( १ ) सू—ॐ ॥ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॥ ॐ ॥९॥
न च केषां चित्स्वप्नादिकर्ता न तु सर्वेषामिति ।
'एष ह्येव साधु कर्म कारयति' ( कौ. ३-८. ) इति क
र्मेण्यवधारणात् ।
सुप्तस्य प्रबोधकः । एष परम इति तदुपपादनमिति श्रुत्यर्थः ॥ ५ ॥
॥ इति प्रबोधाधिकरणम् ॥

६. अधिकरणम् ॥
( १ ) अत्राधिकरणे सर्वपुरुषीयसार्वकालिकसर्वावस्थानां भग
वदधीनत्वमहिमा वर्ण्यते । न सर्वेषां सार्वकालीनावस्थाः भगवदधी
नाः, किं नाम ? केषां चित् किञ्चित्कालीनैवेति पूर्वपक्षे सिद्धान्तयत्सू
त्रमुपन्यस्य व्याचष्टे—स एवेति ॥ चशब्दः शङ्कापरिहारसमुच्चये ।
केषां चित्पुरुषाणाम् इत्युपलक्षणम् । कदाचिदित्यपि द्रष्टव्यम् । 'सः'
ईश्वरः । स्वप्नादीत्यादिशब्देन सुषुप्तिः गृह्यते । तुशब्दोऽवधारणे केषां
चिदेवेति । तद्व्यावर्त्यमाह-नेति । सर्वेषामित्युपलक्षणम् । सर्वदेत्यपि
द्रष्टव्यम् । न कदाचित् केषां चित्, किन्तु सर्वदा सर्वपुरुषाणां स
परमात्मैव स्वप्नादिकर्तेति सौत्रचशब्दः साध्यधर्मसमुच्चायकः । यद्वा-
सौत्रैवशब्दः पुरुषान्तरे कालान्तरे अवस्थाप्रेरकत्वव्यवच्छेदकः। चश
ब्दस्त्ववधारणार्थः परमात्मनः ईश्वरान्तरसाहित्येन सर्वावस्थाप्रेर
कत्वव्यवच्छेदकः । अत एव टीकायां पक्षान्तरनिषेधार्थश्चशब्द इत्यु
क्तम् । तत्त्वप्रदीपरीत्या हेतौ वा चशब्दः । तस्मात्स एव परमात्मा स
र्वकर्ता, नान्यो न च किञ्चित्स्वभावत एव । स्वभावस्यापि परमात्मा
धीनत्वादित्यभिप्राय इत्युक्तम् । इति न च मन्तव्यमित्यन्वयः । कुत
इत्यतस्तत्र हेतुत्वेन कर्मेत्याद्यंशं योजयति—एष ह्येवेति । श्रुताविति
शेषः । 'कर्मणि' सर्वक्रियाहेतुत्वे । तथा च 'एष ह्येव' इति श्रुतावी
शस्यैव सर्वकर्महेतुत्वं, नान्यस्येत्येवकारेणान्यत्र क्रियाहेतुत्वस्य 'अ
वधारणात्' व्यवच्छेदात्स्वप्नादिप्राप्तेरपि क्रियारूपत्वात्स एव सर्वे
९५