सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 795, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 795

७४८ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ]
२. अधिकरणम् ॥
( १ ) सू—ॐ ॥ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्ध
विपर्ययौ ॥ ॐ ॥ ५ ॥
बन्धमोक्षप्रदत्वात्स एव स्वप्नतिरस्कर्ता ।
( २ ) स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च ।
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे भगवतः स्वप्नतिरोधायकत्वमहिमा वर्ण्यते ।
सौत्रतुशब्देनैव बाह्यार्थज्ञानादेव स्वप्नतिरोधानं नाशः, तस्य तदज्ञान
कृतत्वादिति सयुक्तिकपूर्वपक्षस्य सूचनात् सिद्धान्तयत्सूत्रमेवोपन्य
स्य व्याचष्टे—परेति ॥ बन्धमोक्षप्रदातृत्वादित्यनेन हिशब्दो हेत्वर्थतया
व्याख्यातः । मोक्षेति विपर्ययपदार्थकथनम् । सूत्रे पराभिध्यानादिति
च्छाग्रहणेऽपि इच्छेश्वरयोरैक्यात्स पर ईश्वर एवेत्युक्तम् । न ज्ञान
मित्येवशब्दार्थः । अनेन तुशब्दो व्याख्यातः । स्वप्नतिरस्कर्तेति । जी
वस्य स्वाप्नपदार्थज्ञानकर्ता तत्तिरस्कर्ता चेत्यर्थः । अनेन सूत्रे तिरो
हितमित्युपलक्षणम् । आविर्भूतमिति च द्रष्टव्यम् । सन्ध्यमिति च सं
योज्यम् । कर्मणि क्तः । स्वप्नस्य तिरस्कर्ता इति विग्रहे भावेक्तः अ
स्येति स्वप्नजीवयोरित्युक्तं भवति । न च बन्धमोक्षप्रदातृत्वेन कथं
स्वप्नतिरोधायकत्वसिद्धिः व्याप्त्यभावादिति वाच्यम् । यदभिध्यान
निबन्धनोऽनादिबन्धः तद्विमोक्षश्चातिदुरापोऽनन्तकालीनः, स्वप्नप्रति
रोधानादिशक्तिः किं तस्य वर्णनीयेति तत्त्वप्रदीपोक्तरीत्याऽस्य कैमु
त्यपरत्वेन व्याप्त्यनभ्युपगमात् । टीकायां तु यथा 'अस्य' जीवस्य ब
न्धमोक्षावज्ञानज्ञानकृतत्वेन सुप्रसिद्धावपि हि 'बन्धको भवपाशेन
भवपाशाच्च मोचकः' इति वचनात् 'पराभिध्यानात्तु' परमेश्वरेच्छा
या एव तदधीनावेव । नाज्ञानज्ञानकृतौ तयोरचेतनत्वेनास्वातन्त्र्या
त् । तथा 'अस्य' स्वप्नस्य तिरोधानम् । उपलक्षणमेतत् आविर्भाव
श्च 'पराभिध्यानात्' इच्छाऽभिन्नपरमेश्वरादेव जायते, न ज्ञानाज्ञाना
भ्याम् । ते तु निमित्तमात्रमिति दृष्टान्तदार्ष्टान्तिकभावपरतया सूत्रं
व्याख्यातम् । अनेन ज्ञानाज्ञाने न स्वातन्त्र्येण तिरोभावादिहेतू अ
चेतनत्वात्तन्निमित्तमात्रत्वेन प्रसिद्धत्वादित्यनुमानं सूचितम् ॥
( २ ) नेदं दृष्टान्तमूलकानुमानमात्रमिति भावेन सूत्रार्थे स्मृतिं
चोदाहरति—स्वप्नादीति ॥ स्वप्नः अर्थात्मा, तद्बुद्धेः पृथगुक्तत्वात्