सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 739, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 739

६९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
( २ ) भूतबन्धो हि बन्धः ।
भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम् ।
इति वाराहे ॥
( ३ ) तच्च मरणे भवति ।
भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम् ।
भूतानां संप्रयोगश्च जनिरित्येव पण्डितैः ॥
इति भारते । अतः किं साधनैरिति ।
( २ ) अत्राधिकरणे भगवत्प्राप्तिसाधनवैराग्याय जीवस्य भूतावि-
योगः समर्थ्यते । पूर्वपक्षयति—भूतेति ॥ यन्निवृत्त्यर्थं वैराग्यादि सा-
धनमिष्यते स बन्धो नाम पञ्चभिः भूतैर्बन्ध इत्यर्थः । उपलक्षणमेतत् ।
बन्धनिवृत्तिर्मुक्तिरित्यपि द्रष्टव्यम् । हिशब्दो यत इत्यर्थे । अत इत्युत्त-
रेणान्वेति । कुत एतदुभयमवगतमित्यत आह—भूतबन्धस्त्विति । तुः
एवार्थः । यस्संसाराख्यो बन्धः स भूतबन्ध एवेत्यर्थः । मुक्तिस्त्विति
चाऽन्वयः । तथा च या बन्धनिवृत्त्याख्या मुक्तिः सा तेभ्यो भूतेभ्य आ-
त्यन्तिकविमोचनमेव, नान्येत्यर्थः । वाराहे पुराणवचने उक्तमिति शे-
षः । न केवलमस्माभिरिति चार्थः ॥
( ३ ) ततः किमित्यत आह—तच्चेति ॥ चस्त्वर्थः । तथा च तद्भूत-
विमोचनं तु 'मरणे' प्राणत्यागे सति तन्निमित्तं भवतीत्यर्थः । यद्वा—
'मरणं समुदाहृतम्' इत्यभेदोक्तेर्मरणशब्दार्थेऽन्तर्भवति तद्रूपं भवती-
त्यर्थः । भूतविमोचनं मरणे भवतीत्येतत्कुत इत्यत आह—भूतानामि-
ति । तुः अवधारणे । चः समुच्चये । तथा च पूर्वपक्षे भूतनिवृत्तिरात्य-
न्तिक्यभिमता । सा च तद्वियोगः स च मरणाविनाभावीति वा भूत-
संयोगवियोगावेव जनिमरणे इति वा पण्डितैः समुदाहृतमित्यर्थः । भार-
त इत्यनन्तरं पूर्ववच्छेषश्चार्थश्च बोध्यः । किञ्चाऽत इत्यत आह-अत इ-
ति । तथा च यतो बन्धनिवृत्त्यर्थं साधनान्यनुष्ठेयानि, सा च मरणमेव
तत्कारकं वा, मरणं च नियतत्वान्न साधनसापेक्षं, अतो वैराग्यादि-
साधनैः किं कृत्यं, न किमपीति न तान्यनुष्ठेयानीति योजना । साधनै-
रिति सामान्योक्त्या वैराग्यादिसर्वसाधनविचारारम्भप्रयोजकतया
जिज्ञासासूत्रस्य शास्त्रेणेवास्याधिकरणस्य साधनाध्यायेनौपोद्घाति-
की सङ्गतिरुक्ता भवति । अत एवास्य वैराग्यप्रतिपादनारम्भप्रयोज-
कत्वादेतत्पादेनाप्यस्ति सङ्गतिरित्यभिप्रेति । उक्तं हि तत्त्वप्रदीपे—