सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 737, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 737

६९० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
विचारो यत्र सज्जयेत पूर्वोक्तस्यावधारणे ॥
( १२ ) अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् ।
विनिन्द्य चेतरान् मार्गान् सम्पूर्णफलता तथा ॥ इति च ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र
भाष्ये द्वितीयाध्यायस्य चतुर्थः पादः.
॥ द्वितीयाध्यायस्समाप्तः ॥
॥ ॐ ॥
क्षबलाबलचिन्तेत्यर्थः 'यत्र' यस्मिन् ग्रन्थे 'सज्जयेत' सम्बध्येत येन
क्रियेत इति यावत् । तत्राध्यायान्त इति पूर्वेणान्वयः । पूर्वोक्तस्येति ।
अध्यायादिमारभ्योक्तार्थस्येत्यर्थः 'अवधारणे' अवधारणार्थम् ॥
( १२ ) उक्तमुक्त्वा द्विरुक्तेः पूर्वानुक्तं प्रयोजनविशेषमाह—अनुक्ता
नामिति ॥ सूत्रपदैर्मुखतोऽनुक्तानामित्यर्थः । सूचितानामिति यावत् ।
'स्वीकारः' सङ्ग्रहो द्विरुक्तेरिति शेषः । प्रयोजनविशेषान्तरमाह—
विनिन्द्येति । 'इतरान्' सूत्रतदनुकूलेतरान् 'मार्गान्' ज्ञानोपायान्
तथाविधानि शास्त्राणि 'विनिन्द्य' विषयादिशून्यत्वेन अनुपादेयानी
ति गर्हयित्वा अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेदित्यन्वयः ।
अनेन निन्दनाख्यं प्रयोजनं सूचितम् । द्विरुक्तेः प्रयोजनविशेषान्तरं
चाह—सम्पूर्णेति । विशिष्टमोक्षसाधनतेत्यर्थः । तथाशब्दः समुच्चये ।
शास्त्रस्योक्ता भवतीति शेषः । इति गारुडे इत्यन्वयः । अस्य सर्वोध्या
येत्यादिनोक्तमुक्तमित्यध्याहृतेनान्वयः ॥ १३ ॥
इति मांसाधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि
कायां द्वितीयाध्यायस्य चतुर्थः पादः
॥ द्वितीयाध्यायस्समाप्तः ॥
॥ ॐ ॥