सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 735, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 735

६८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
(८) कथं तर्हि विशेषवचनमित्यत आह -
सू — ॐ ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ ॐ ॥ २३ ॥
भूतानां तु विशेषसंयोगादेव विशेषव्यवहारः ।
(९) पार्थिवानां शरीराणामर्धेन पृथिवी स्मृता ।
इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तु भागतः ॥
चेति वाक्यशेषः ॥
(८) यदि शरीरं नैकभूतप्रकृतिकं, कथं तर्हि विशेषोक्तिरित्युक्ता-
र्थमाशङ्क्य तत्परिहाराय सूत्रमवतार्य व्याचष्टे—कथमिति ॥ तर्हीति
श्रवणात् यदीति लभ्यते । यदि शरीरं नैकभूतोपादानकमिति तदर्थः।
विशेषवचनमिति । आपः शरीरं, पृथिवी शरीरं, हिरण्यशरीर इति
विशेषोक्तिरित्यर्थः । एवमिदमेव वाक्यं यदि मांसादिकं नैकभूतप्रकृ-
तिकं, कथं तर्हि भौमं मांसमित्यादिविशेषव्यवहार इत्यप्यवतारणीयम्।
भूतानामिति । पृथिव्यादिभूतानां पार्थिवादिशरीरेषु मांसादिषु च ‘वि-
शेषसंयोगात्’ सम्बन्धाधिक्यात्तदपेक्षयैव ‘विशेषव्यवहारः’ पार्थिव-
माप्यमित्यादिविशेषोक्तिरित्यर्थः । न तु एकैकभूतात्मकत्वादित्येवार्थः।
उपपद्यते यत इति शेषः । अस्यातो न विशेषोक्तिविरोध इति लब्ध-
साध्येनान्वयः । अनेन — सूत्रे तुरेवार्थः । तच्छब्दो वैशेष्यपरः । वैशे-
ष्यशब्दश्च स्वार्थे ष्यञन्तो वा विशेषिणां भाव इति भावे ष्यञन्तो वा
भूतानां धर्मिणां विशेषसंयोगपरः । पञ्चमी ल्यब्लोपनिमित्तेति सूचि-
तम् । तथा च यतः ‘तद्वादः’ आपः शरीरं, आपो वाव मांसमित्यादि-
विशेषोक्तिः ‘वैशेष्यात्तु’ भूतानां धर्मिणां संयोगाधिक्यमपेक्ष्यैवोपपद्य-
ते, अतो न शरीरस्य मांसादेर्वा नैकभूतोपादानकत्वे तद्विरोधः शङ्क्य
इति सूत्रार्थ उक्तो भवति ॥
(९) ननु शरीरे मांसादिषु वा भूतानां विशेषसंयोग एव कुतः ?,
सर्वशरीरेषु सर्वभूतानां विशेषसंयोगाभावे च पुनः एकैकभूतप्राचु-
र्यविवक्षया पार्थिवादिविशेषोक्त्ययोग इत्यत आह—पार्थिवानामि-
ति॥ पृथिवीस्थितानां स्थलजानां शरीराणां ‘अर्धेन भागेन पृथिवी स्मृ-
ता’ तेष्वर्धं पृथिवीभाग इत्यर्थः । तेषामर्धादितरस्मिन् अर्धे ‘त्रिभागि-
न्य आपः’ त्रयोऽब्भागाः, तत्र स्मृता इति यावत् । ‘भागतस्तु तेजो’
भागमात्रं तेजः एकस्तत्र तेजोभाग इत्यर्थः । स्मृत इति विपरिणामेना-
नुषज्यते । एवं सामान्यतः पार्थिवाप्यशरीरेषु सर्वेष्वपि स्वस्वभाग-