सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 72, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 72

[ अधि - १. सू - १. ] दीपिकासहितम्. २५
( ४४ ) भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान्नरः ।
( ४५ ) अधमः शमादिसंयुक्तो मध्यमस्समुदाहृतः ।
( ४६ ) आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् ।
( ४७ ) विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः ।
( ४८ ) स उत्तमोऽधिकारी स्यात्संन्यस्ताखिलकर्मवान् ॥ इति ॥
( ४४-४५ ) तमेव दर्शयति - 'भक्तिमान्' इति । पूर्वमुद्देशवाक्ये ब-
हुवचननिर्देशेऽप्यत्र 'नरः' इत्येकवचननिर्देशो नानुपपन्नः, अस्य
लक्षणवाक्यत्वात्, "प्रमाणानि" इत्युद्देशवाक्ये बहुवचननिर्देशेऽ-
पि "प्रमाकरणं प्रमाणं" इत्येकवचनेन लक्षणोक्तिवत् । अत्र
अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते ।
गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥ इत्युक्तेः । अध्ययन-
लब्धापि विष्णुभक्तिः शमादिकं चाभक्तानधिकारिकताऽध्ययनशमा-
दिनिवृत्त्यर्थं पृथगुक्तम् । आदिशब्देन "शान्तो दान्तः" इत्युक्तानां
ग्रहणम् । सारनित्यसमुच्चये चापिशब्दौ । 'इति' इति शेषः । 'नरो'
भक्तजनः । अस्य सर्वत्र सम्बन्धः । तथा च - यो नरः परमे विष्णौ
भक्तिमान् अध्ययनवांश्च सोऽधमोऽधिकारीति प्रामाणिकैः समु-
दाहृतः । यः शमादिसंयुक्तो नरः स मध्यम इति प्रोक्तः ॥
( ४६ ) यः 'आब्रह्मस्तम्बपर्यन्तं' चतुर्मुखमारभ्य तृणजीवपर्यन्तं
जीवजातं 'असारं' असर्वोत्तमं, असारपदं मोक्षादवरपरं वा 'अनि-
त्यकं' अनित्यं ब्रह्मादिजीवानां देहनाशोऽपि स्वरूपनाशाभावात् कप्र-
त्ययः । परब्रह्म तु सर्वसारं सर्वथा नित्यं चेति ।
( ४७ ) 'विज्ञाय' ज्ञानवान् सन् सारासारनित्यानित्यवस्तुविवेकवा-
निति यावत् । यश्च ततो विवेकात् 'जातवैराग्यः' इति विज्ञाय जनित-
वैराग्य इति वा । यश्च 'विष्णुपादैकसंश्रयः' विष्णुपाद एव एको मुख्यः
संश्रयो मम शरणमिति ज्ञानं यस्य सः ।
( ४८ ) यश्च 'संन्यस्ताखिलकर्मवान्' संन्यस्तं भगवति समर्पि-
तं अखिलं यत्काम्यं कर्म तद्वान् 'सः' नरः 'उत्तमोऽधिकारी' स्या-
दिति योजना । अत्र सन्यासो नाम भगवान् सर्वाणि कर्माणि करोति
सर्वकर्माणि भगवत्पूजारूपाणीति च ज्ञात्वा भ्रान्त्या जीवकर्तृकत्वेन
ज्ञातानां कर्मणां भगवति विसर्गः । यथोक्तं गीताभाष्ये - "भगवा-
४