सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 70, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 70

[ अधि - १. सू - १. ] दीपिकासहितम्. २३
( ३७ ) अथातश्शब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः ।
( ३८ ) सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते ॥ इति ।
( ३९ ) अधिकारश्चोक्तो भागवततन्त्रे—
( ४० ) मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः ।
ये तु स्वरूपत आधिक्यादेवेत्यवधारणार्थतेति ध्येयम् । 'एते' इत्य-
स्य विवरणं 'सर्वे' ओमथातश्शब्दा इति । 'अतः पूर्वं' एतच्छास्त्रा-
दाविति अतश्शब्दावृत्त्या अन्वयः । 'क्रमात्' इत्यत्रापि सम्बध्यते ।
'उच्चार्याः' इत्येवं 'सतां' जनानां सम्मता इत्यर्थः । यद्वा — 'सतां'
मुख्यानां ब्रह्मसूत्राणां पूर्वं आदिसूत्रे इत्यर्थः । न चात्र "सकलसूत्र-
कारैरेवमेव प्रयुक्तत्वात्" इति सुधाविरोधः, तस्याथातश्शब्दमात्रवि-
षयत्वात् । अत एव "एतौ" इति पूर्वमुक्त्वा सकलसूत्रकारैरेवमेवे-
त्युक्तम्, क्रमान्तरं विहायादावेवेत्यर्थः । अथशब्दस्य सूत्रकृतेति शेषः ।
(३७-३८) तत्किमत्रेत्यादिप्रश्नोत्तरमुपसंहरति— 'अथ' इति । तुश-
ब्दोऽवधारणे विशेषे च । 'एवं' उक्तप्रकारेण 'वीर्यं' स्वरूपाधिक्यादि-
माहात्म्यं 'आज्ञाय' तत्त्वतो विज्ञाय 'सूत्रेषु' विचारशास्त्रादिषु सर्वेषु
'तौ' अथातश्शब्दावेव नत्वन्यं 'आदौ' प्रथममेव 'प्रयुञ्जते' प्रयोगं
कुर्वन्तीत्यर्थः । 'महाप्राज्ञाः' इत्यनेन सूत्रकृतां शब्दमाहात्म्यतत्त्वज्ञाने
असामर्थ्यं निवारयति । एवकारः सर्वशास्त्रादिसूत्रविवक्षयोङ्कारव्यव-
च्छेदकः । अत एव 'अतश्च' इति त्रयाणां प्रकृतत्वेपि ॐङ्कारवैषम्यज्ञा-
पनाय अथातश्शब्दयोरेवोक्तिः । अत एव अथातश्शब्दविषये उपक्रमो-
पसंहारयोः 'निखिलानि सूत्राणि' 'सूत्रेषु' इति सर्वसूत्रोक्तिः, ॐङ्का-
रविषये तु तदनुक्तिः । अथशब्दस्योङ्कारेण सह पाठेऽपि न सार्वत्रिक-
त्वं, उपक्रमोपसंहारविरोधात् । इतिशब्दस्य उक्तमित्येनेनान्वयः ॥
(३९) अथशब्दोधिकारानन्तर्यं वक्तीत्युक्तं; तत्र कोसावधिकारो
ब्रह्मजिज्ञासायां, कतिविधश्च स इत्यत आह — 'अधिकारः' इति ।
चशब्दो न केवलमधिकारः किन्तु तद्विभागश्च भागवततन्त्राख्यग्र-
न्थेऽभिहित इति समुच्चये । अत्र प्रमाणे अधिकारिकथनेऽपि तद्वि-
शेषणतया देवत्वादिरूपोऽप्यधिकारः उक्तो भवतीति नासङ्गतिः ॥
(४०) कथमित्यतस्तद्वाक्यं पठति — 'मन्द' इति । त्वः प्रत्येकं
सम्बध्यते । इत्थंभूतलक्षणे तृतीया । हिशब्दः प्रसिद्धौ ॥