पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 671, कुल 1267 में से
संदर्भ में पढ़ें६२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
अदृष्टाश्रुतवस्तुत्वात्स जीवो यः पुनर्भवः ॥
( १८ ) स्वांशाश्चाथो विभिन्नांश इति द्वेधांश इष्यते ।
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ॥
तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्पशक्तिस्स्यात्किञ्चित् सादृश्यमात्रयुक् ॥
इति वाराहे ।
( १९ ) न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः । (गी. ११-४३.)
रूपत्वात् 'पुनर्भवः' पौनःपुन्येन जायमानो म्रियमाणश्च संसारी स जी
व इत्यर्थः । तत्त्वप्रदीपे तु—अदृष्टाश्रुतवस्तुत्वादित्यस्य अव्यूढगुणबृं
हितमित्यनेन अन्वय उक्तः । पुनर्भव इत्यनन्तरमिति भागवते इति
शेषः ॥
( १८ ) न केवलमसंसारित्वसंसारित्वाभ्यां रक्षकत्वरक्ष्यत्वाभ्यां गु
णबन्ध्यागुणबन्ध्याभ्यां मत्स्यादीनां जीवानां चांशिनोऽभेदभेदावसाम्यं
च, किन्तु मत्स्यादीनां स्वरूपांशत्वलक्षणयुक्तत्वात् जीवानां तु भिन्नां
शलक्षणयोगित्वात् अंशिना भेदाभेदावसाम्यं चेति भावेन स्वरूपा
स्वरूपांशविभागपूर्वकं तयोर्लक्षणं तावत् स्मृत्या दर्शयति—स्वांश
श्चेति ॥ स्वरूपांश इत्यर्थः । चशब्दो द्वैधैवेत्यवधारणार्थः । अथो इत्य
र्थान्तरे । 'सामर्थ्यं' जगत्सृष्ट्यादिलक्षणं, तुश्चार्थः । 'यत्स्वरूपं' य
थाज्ञानानन्दादि 'यथा स्थितिः' यथा सर्वोत्तमत्वादि । सुधारीत्या
सर्वगतत्वादि परिमाणं वा, देशतः कालतो गुणतः व्याप्तत्वेन स्थिति
रिति वा । तदेव स्वरूपांशस्य भवतीति शेषः । न तु ततो भिन्नमित्ये
वार्थः । कुत इत्यत आह—न भेदस्स्वांशांशिनोरिति । स्वरूपांशांशि
नोः 'क्वचिदपि' काले भेदो नास्तीत्यर्थः । ननु केवलभेदाभावेऽपि अ
भेदसहितः किं न स्यादित्यत आह—अणुमात्रोऽपीति । अभेदसहितो
ऽपीत्यर्थः विभिन्नांशलक्षणमाह—विभिन्नांश इति । किञ्चित्सादृश्यमा
त्रयुगित्येतत् सुधारीत्या परमेश्वरेण चित्त्वादिरूपेण किञ्चित्सादृश्यमा
त्रयुगिति, अंशिशब्दमुख्यवाच्येन मत्स्यादिना किञ्चित्सादृश्यं तत्सत्त
यैव सत्तावत्त्वरूपं तन्मात्रयुगिति च द्वेधा व्याख्येयम् । मात्रशब्देन
सर्वथा सादृश्यमभेदो भेदाभेदौ च निरस्तौ ॥
( १९) एतच्च स्वरूपांशत्वलक्षणं कृष्णाद्यवतारेऽस्तीति स्मृत्याऽऽ
ह—नेति ॥ त्वत्समोऽन्यो नास्ति कुतोऽधिक इत्यर्थः । कृष्णं प्रति पा