पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 663, कुल 1267 में से
संदर्भ में पढ़ें(ऋ० १-१६४ - १६.) 'द्वा सुपर्णा सयुजा सखाया'
(मु.३-१-१०.) इत्यादिना नानाव्यपदेशादंशो जीवः ।
दुर्लभमित्याह - कवीयमान इति । 'इह' लोके 'कवीयमानः' सर्वज्ञ
कल्पः तत्त्वेनाभिमतः को नु को वा इह प्रजासु ब्रह्म प्रावोचत् न कोऽ
पि । तथा 'कुतः' कस्य च 'देवं' देवसम्बन्धि परब्रह्मविषयं 'मनो'
ज्ञानमाधिक्येन समुत्पन्नम् । न कस्यापीत्यर्थः । तथा च परमात्मज्ञान
वद्देवदत्तादिज्ञानस्य दुर्लभत्वाभावान्न तज्ज्ञातृषु तत्पितृत्वादिव्यपदे
शप्रसङ्ग इति भावः । तत्त्वप्रदीपे तु योऽवरोऽस्य स्वस्य जगतो वा पि
तरं यथावद्वेद् 'परेण' परमात्मप्रसादेन, न तु स्वतः स तु जीवः प
रो भवति । अनेन परमात्मनाऽवरभूतेन निमित्तेनावरभूतपरमात्मप्रसा
देनेति यावत् । कथं परमात्मनोऽवरत्वं ? दर्शनक्रममपेक्ष्य, जीवः स्व
स्वरूपदर्शनानन्तरं हि भगवन्तं पश्यति । तथा चान्ते दृश्यमानत्वाद
वरत्वमिति व्याख्यातम् । 'त्रीणि पदा निहिता गुहासु यस्तद्वेद स
पितुष्पिता सत्' (मंहा. १-१-४.) इति तैत्तिरीयश्रुतेरयमर्थः । यस्य
'त्रीणि पदानि' स्वरूपाणि नारायणवासुदेववैकुण्ठाख्यानि गूहित
त्वात् 'गुहासु' श्वेतद्वीपादिषु निहितानि । तद्ब्रह्म यो वेद 'सः' जी
वः 'पितुः' जगत्पितुः ब्रह्मणः पिता 'असत्' अभवदित्यर्थः ॥
स्त्रियः सतीस्तां उमे पुंस आहुः पश्यदक्षण्वान्न विचेतदन्धः ।
कविर्यः पुत्रः स ईमाचिकेत यस्ता विजानात्स पितुष्पिताऽसत् ॥
इति ऋङ्मन्त्रस्यायमर्थः—'सतीः' सत्यः निर्दुष्टाः स्त्रियः स्त्रीलिङ्ग
शब्दवाच्याः 'मे' मदुपास्याः या भगवन्मूर्तयः 'तां उ' तानेव ता ए
व 'पुंसः' परमपुरुषानाहुः । वेदादयो या देवतेत्यादिस्त्रीलिङ्गशब्दैः
प्रतिपादयन्ति ता एव पुरुषादिपुल्लिङ्गशब्दैरपि प्रतिपादयन्तीति भा
वः । विधेयविवक्षया तान् पुंस इति पुल्लिङ्गप्रयोगः । योऽधिकारी ताः
'पश्यत्' पश्यति स चक्षुष्मान् । यो 'न विचेतत्' न विजानाति
सोऽन्धः । यो भगवन्मूर्तीः पश्यति जीवः तच्चक्षुरेव सफलं तदन्यन्नि
ष्फलमविद्यमानप्रायमेवेति भावः । 'यः कविः' सर्वज्ञो भगवत्पुत्रोऽ
पि विरिञ्चः 'स ईं' स एव 'आ' समन्तात्सम्यक् 'चिकेत' जानाति ।
यश्च 'ताः' मूर्तयो 'विजानात्' व्यजानात् विजानाति सः 'पितुः'
जगत्पितुः विष्णोरभिव्यञ्जकत्वान्निमित्तात् 'पिता' जनकः 'असत्'
भवेदिति । म इत्यस्मच्छब्देन दीर्घतमा नाम ऋषिः गृह्यते । अस्य स