पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 658, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १७. सू - ४२. ] दीपिकासहितम्. ६११
त्वात्तत्प्रेरकत्वस्य । आदिशब्देनावैषम्यादि ।
( १५ ) पूर्वकर्मप्रयत्नं च संस्कारं चाप्यपेक्ष्य तु ।
ईश्वरः कारयेत्सर्वं तच्चेश्वरकृतं मतम् ॥
अनादित्वाददोषश्च पूर्णशक्तित्वतो हरेः ।
इति भविष्यत्पर्वणि ।
तस्यैव सङ्कल्प इति स्वतन्त्रता ॥ इति ॥
अत्रायं चन्द्रिकोक्तो भावः—जीवस्य विधिवाक्यतदर्थज्ञाने तज्जन्य-
साधनफलेच्छयोः साधनविषयककृतौ च भगवत्प्रेर्यत्वेऽपि न विधि-
विषयत्वकर्मफलभाक्त्वयोरनुपपत्तिरिति न शास्त्रप्रवृत्तिवैयर्थ्यम् ।
राजभटायुत्पादितेच्छादिमतोऽपि त्रिवर्णादेर्विष्टिगृहीतस्य च सन्ध्यो-
पासनादौ भारवहनादौ च विद्यादिदर्शनेन तद्वदेवास्वतन्त्रकर्तृता-
मात्रेण तयोरुपपत्तेरिति । उक्तं हि गीताभाष्ये—अकर्तृकत्वेऽपि विधि-
द्वारा ईशप्रसादादिच्छोत्पत्त्योक्तकारणैः कर्मद्वारा मोक्षो भवतीति न
प्रवृत्तिविधिवैयर्थ्यमिति । विवृतं चैतत्प्रमेयदीपे—जीवस्यापराधीनकर्-
तृत्वाभावेऽपि स्वसम्बन्धितया विधिज्ञानस्येश्वरप्रसादायत्तोः कर्मै
फलं चोद्दिश्येच्छाप्रयत्नयोरधिष्ठानादिकर्मकारणसन्निधानस्य कर्मसं-
बन्धस्य तत्फलभाक्त्वस्य च विधिविषयताप्रयोजकस्य सत्त्वात्तस्य
विधिविषयत्वोपपत्तिरिति । एतच्च प्रयोजकं नेश्वरमुक्तजीवजडेष्वस्ती-
ति न तेषां विधिविषयत्वं किन्तु संसारिजीवस्येति चोक्तम् । यद्यपि
वैषम्यादिपरिहारः पूर्वमेव वैषम्यसूत्रे कृतः । तथाऽपि स एव कर्तृत्व-
शक्तेरीश्वराधीनत्वप्रयुक्तवैषम्यादिशङ्कापरिहारायेहादिशब्देन स्मार-
यितुं पुनरुक्त इति न पौनरुक्त्यम् ॥
( १५ ) सूत्रार्थे स्मृतिमाह—पूर्वेति ॥ ‘संस्कारो’ योग्यता । चश-
ब्दौ परस्परसमुच्चये । तुशब्दोऽवधारणे । ‘सर्वं’ पुण्यपापादि कर्म
जीवेन कारयति तत्करणाय तं प्रेरयतीत्यर्थः । यद्वा—कारयति भो-
जयतीत्यर्थद्वयमपि विहितकारिणं पुण्यं भोजयति कारयति च पुण्यं,
निषिद्धकारिणं दुःखं भोजयति पुनः पापं कारयति चेति तत्त्वप्रदीपो-
क्तम् । नन्वीश्वरस्य जीवकर्मापेक्षया प्रेरकत्वे तस्य तत्कर्माकर्तृत्वं
स्यादित्यत आह—तच्चेति । अपेक्ष्यं च कर्मेत्यर्थः । स्वयं साक्षात्तर्हि
तत्प्रेरणे ईश्वरस्यापेक्ष्यकर्माभाव इत्यत आह—अनादित्वादिति । कर्म-
णः कार्यकारणीभूतकर्मपरम्परायास्त्वनादित्वान्नापेक्ष्याभावकृतवैष-