पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 655, कुल 1267 में से
संदर्भ में पढ़ें६०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
सू—ॐ ॥ शक्तिविपर्ययात् ॥ ३८ ॥
अल्पशक्तित्वाज्जीवस्य ॥ ३८ ॥
(१०) सू—ॐ ॥ समाध्यभावाच्च ॥ ॐ ॥ ३९ ॥
समाधानाभावाच्च अस्वातन्त्र्यं प्रतीयते अतः ॥ ३९ ॥
(११) सू—ॐ ॥ यथा च तक्षोभयथा ॥ ॐ ॥ ४० ॥
मानियमौ ईशजीवयोः 'कुतः' किंनिमित्तकावित्यर्थः । अत्र स्वात-
न्त्र्यपारतन्त्र्यनिमित्तौ नियमानियमाविति परिहारं वक्तुं ईशजीवयोः
स्वातन्त्र्यपारतन्त्र्ये साधयत्सूत्रं पठित्वा व्याचष्टे—शक्तीति ॥ अ-
ल्पशक्तित्वादित्यनेन मुख्यत्वाच्छक्तिशब्दः पूर्णशक्तिपरः विपर्ययशब्द-
स्तु तद्विपरीताल्पशक्तिपर इति सूचितम् । ज्ञस्येत्यनुवृत्तपदस्यार्थो
जीवस्येति । उपलक्षणमेतत् । ईश्वरस्य पूर्णशक्तित्वादित्यपि द्रष्टव्य-
म् । अस्वातन्त्र्यं स्वातन्त्र्यमिति वक्ष्यमाणमत्रापि सम्बध्यते ॥
(१०) युक्त्यन्तरेणेशजीवयोः स्वातन्त्र्यपारतन्त्र्ये समर्थयत्सूत्र-
मुपन्यस्य व्याचष्टे—समाध्यभावाच्चेति ॥ समाधानमलं बुद्धिरपूर्णका-
मत्वमिति यावत् । न केवलमल्पशक्तित्वादिति चार्थः । जीवस्येति व-
र्तते । सूत्रे तु ज्ञस्येति वर्तते । उपलक्षणमेतत् । समाधिभावाच्चेश्वर-
स्य स्वातन्त्र्यमित्यपि द्रष्टव्यम् । चशब्द उक्तानुक्तहेतुसमुच्चायकः।
अस्तूक्तहेतुभ्यः ईशजीवयोः स्वातन्त्र्यपारतन्त्र्यसिद्धिः । तावता नि-
यमानियमयोः किंनिमित्तकत्वमुक्तं भवतीत्यत आह—अत इति ।
नियमानियमाविति शेषः । तथा च यत एवमीशजीवयोः स्वातन्त्र्य-
पारतन्त्र्ये प्रतीयेते अतस्तयोस्ताभ्यां निमित्ताभ्यां कर्मणि नियमानि-
यमौ प्रतिपत्तव्यावित्यर्थः । तत्त्वप्रदीपे तु अत इत्यस्य 'यथा च तक्षो-
भयथा' इति सूत्रेणान्वयमभिप्रेत्य अतोऽस्वातन्त्र्यप्रमाणेभ्यः कर्तृत्व-
मानेभ्यश्च यथा च तक्षोभयथा व्यपदिश्यते एवं जीवोऽस्वतन्त्रः क-
र्ता चेति व्यपदिश्यत इत्युक्तम् ॥
(११) ननु यदि जीवस्य न स्वातन्त्र्येण कर्तृत्वम्, अपि तु ईश्वरे-
च्छयैव, तर्हि कथं जीवः कर्तोच्यते, स्वतन्त्रः खलु कर्तेत्याशङ्कां परि-
हरत्सूत्रमुपन्यस्य व्याचष्टे—यथेति ॥ यथा च 'तक्ष्णो' वर्धकेः प्रा-
सादकारयितृराजादिप्रेरितत्वं तत्कर्तृत्वं च अस्ति, एवं जीवस्यापि
ईश्वरनियतत्वं घटादिकर्तृत्वं चास्त्वित्यध्याहारेण योजना । कारयितृ-
नियतत्वं कर्तृत्वमित्यनेनोभयथेत्युक्तप्रकारद्वयं दर्शितम् । एवं जीव