सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 65, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 65

१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]


(२४) कश्चार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः ।
(२५) एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥
(२६) एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः ।
(२७) आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥


(२४) नन्ववश्यवक्तव्यार्थत्वं स्वरूपोत्तमत्वं अर्थतआधिक्यं वा
नियामकं भविष्यतीत्याशङ्कयाद्यपक्षे पृच्छति — ‘कश्च’ इति । चः
प्रश्नसमुच्चये, अवधारणे वा । द्वितीयस्तुशब्दार्थः अर्थस्यावश्यक
वक्तव्यत्वरूपविशेषमाह । तुशब्दपाठस्तु स्वरसः । तथा च—‘तयोः’ अथा
तःशब्दयोः कोसाववश्यवक्तव्योर्थः येन प्राथम्यमित्यर्थः । द्वितीयमा
क्षिपति — ‘कथं’ इति । ‘उत्तमता’ स्वरूपतश्चाधिक्यम् । न कथ
मपीत्यर्थः । एवं कथंशब्दस्य प्रश्नपरत्वमङ्गीकृत्य तृतीयपक्षप्रश्नपरत्वे
नापि कथमित्येतद्योजनीयम् । अर्थत इति शेषः । तथा च-तयोरथातः
शब्दयोः अर्थतः उत्तमता आधिक्यं कथमित्यर्थः । अत्र आद्यतृतीयप
क्षयोरवश्यवक्तव्यार्थतार्थाधिक्ययोस्तदभावयोश्च लोके शब्दान्तरेषु
दर्शनात् अथातःशब्दयोस्तत्सन्देहात् प्रश्न एव न त्वाक्षेपः । द्वितीय
पक्षे तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनात् आक्षेप एवेति ध्येयम् ।
अत्रोङ्कारस्य प्रश्नाद्यविषयत्वं सर्वशास्त्रादिसूत्रावयवत्वाभावात् ,
‘स्रवति’इति श्रुत्या ‘सिसृक्षोः’ इत्यादिस्मृत्या चैतच्छास्त्रमात्रमुख्यादित्वे
न सिद्धत्वाच्चेत्यवधेयम् ॥
(२५-२६) ‘एतत्’ प्रश्नाक्षेपविषयीभूतं नियामकं ‘अहं तत्त्वतो’
याथार्थ्येन ‘यथा ज्ञास्यामि’ तथा ‘मे’ मह्यं ‘आख्याहि’ ब्रूहीति
‘एवं नारदेनोक्तः’ पृष्टः आक्षिप्तश्च ‘सत्तमः’ सर्वजीवोत्तमः ‘ब्रह्मा’
प्रत्युवाचेत्यर्थः ।
(२७) जिज्ञासाधिकारस्यावश्यवक्तव्यत्वेन तद्धेतुतासाधकानन्त
र्यस्य जिज्ञासाहेतोस्तत्कर्तव्यताहेतोश्चावश्यवक्तव्यत्वात्तदर्थकत्वात्त
योः प्रथमप्रयोग इति परिहारमभिप्रेत्यावश्यवक्तव्यार्थत्वं अथातश्श
ब्दयोर्दर्शयति — ‘आनन्तर्ये’ इति । परस्परसमुच्चये तथाचशब्दौ ।
एवकारो भिन्नक्रमः ; तेनाभिधेयान्तरं व्यावत्र्यते । तथा च-- सौत्रा
थशब्दः ‘अधिकारस्यानन्तर्ये’ अधिकारनिरूपितानन्तर्यरूपार्थे तद्धि