सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 648, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 648

[ अधि - १६. - सू - ३२. ] दीपिकासहितम्. ६०१
मसुराणां नित्यानुपलब्धिर्मनुष्याणां च नित्योपलब्ध्य
नुपलब्धी प्रसञ्ज्येते ॥
( ५ ) 'नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसु
आपादिता भवति । एवं च मध्यममनुष्याणां मिश्ररूपत्वात्स्वरूपभूत
स्य सुखस्य दुःखस्य चोपलब्धिः समैव स्यात्, न तु कदाचिद्विषय
सुखदुःखोपलब्धिः, आवरणाभावे अनुभवाभावायोगादिति भावः ।
अनेन असुरपक्षे अनुपलब्ध्यापादनमयुक्तम्, तेषां स्वरूपानन्दादेरभा
वादेव अनुपलब्ध्युपपत्तेः । अनावरणस्य अविद्यमानानन्दानुपलब्धिं
प्रत्यप्रयोजकत्वादिति शङ्का, एवं मध्यममनुष्यपक्षेऽप्यनुपलब्ध्यापा
दनमयुक्तम् , आवरणाभावस्योपलब्ध्यभावं प्रत्यप्रयोजकत्वादिति
शङ्का च निरस्ता । असुरपक्षे सूत्रे अनुपलब्धिपदेन आसुराविद्येत्या
दाविव प्रकृतसुखाद्युपलब्धिविरुद्धदुःखोपलब्धेरेव विवक्षितत्वात् ।
मध्यममनुष्यपक्षेऽप्यनुपलब्धिपदेन निरवधारणाया दुःखानुपलब्धेरेव
विवक्षितत्वात् । अत एव टीकायामेतच्च सर्व्वजीवविषयम्, केषां चिद्दुः
खादिरूपत्वं मिश्रत्वं च ज्ञातव्यमित्युक्तम् । अत्र केचित्—'नित्यान
न्दः' इत्यादिप्रमाणानुसारेण अन्यतरशब्दस्वारस्याच्च देवानामित्या
दिभाष्यं सौत्रक्रममुल्लङ्घ्य 'अन्यतरनियमः' इत्यस्य व्याख्यानरूपं
'नित्योपलब्ध्यनुपलब्धी' इत्येतन्नित्योपलब्ध्यनुपलब्धिप्रसङ्ग इत्य
स्य व्याख्यानरूपं, सूत्रे उक्तिलाघवाय मध्यमजीवानां प्रथममापाद
नम् । एवमसुरपक्षे अनुपलब्धिरुपलब्ध्यभाव एव, न तु दुःखोपल
ब्धिः, सा तु साक्षादापाद्या, परम्परया तु सुखोपलब्धेरभाव इति व्या
चक्षते । तन्न—'नित्यानन्दः' इति प्रमाणस्योक्तपक्ष एवानुगुणत्वात्,
वक्ष्यमाणरीत्या अन्यतरशब्दस्योभयपरत्व एव स्वारस्याच्च, भाष्यटी
कातत्त्वप्रदीपाननुगुणत्वाच्च । भाष्यटीकयोर्देवदानवमिश्रक्रमेणापाद
नात् । तत्त्वप्रदीपेऽपि व्यक्तमङ्गीकारे मुक्तियोग्या विनैव साधनसम्प
त्त्या नित्यव्यक्तानन्दा भवेयुः, तमोयोग्याः संसृतावपि सुखलेशहीनाः
नित्यदुःखिनः स्युरित्यादिना देवादिक्रमेणैवासुरपक्षे दुःखोपलब्धेरेव
च आपादनात् ॥
( ५ ) द्वितीयपक्षं प्रमाणविरोधेन निराचष्टे— (ननु यदि जीवानां
आनन्दादिरूपत्वं स्यात्तदा तस्य संसृतौ अनभिव्यक्त्यर्थे ज्ञानाभावा
तिरिक्ताविद्यावरणं भगवत्प्रसादेन तन्निवृत्तिश्च अङ्गीकार्या स्यात्तदेव
७६