पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 636, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १३. सू - २७. ] दीपिकासहितम्. ५८९
शक्तियोगात्सुराणां तु विविधा च व्यवस्थितिः ॥
इति ॥ २६ ॥
—:*:—
१३. अधिकरणम् ॥
(१) 'स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं
लोकममुं चावर्तते स विमुच्यते स एकधा न सप्तधा
न दशधा न शतधा' इति गौपवनश्रुतावेकस्याबहु-
त्वं प्रतीयते । 'सपञ्चधा स सप्तधा स दशधा भ-
वति स शतधा च सहस्रधा स गच्छति स मुच्यते '
मात्रशब्दोऽवधारणार्थः । तथा च अणूनामपि जीवानां देवेतरेषामण्ड-
मात्रे यथाक्रमं प्रकाशो व्यापकः । अतएव तत्त्वप्रदीपे—'तद्यथाणुन-
श्चक्षसः प्रकाशो व्याततः एवमेवास्य प्रकाशो व्याततः' (शाण्डिल्य.)
इति श्रुतिमुदाहृत्य जीवमात्रस्य शरीराद्वहिरपि प्रकाशव्याप्तिरस्ती-
त्युक्तम् । अतात्त्विकदेवाना मण्डमात्रे यथाक्रममंशो व्यापकः । ता-
त्त्विकदेवानां तु यथाक्रमं बहिरपि अंशो व्यापक इत्युभयपरं वाक्य-
मिति न विरोधः ॥ १२ ॥
॥ इति उत्क्रान्त्यधिकरणम् ॥
१३. अधिकरणम् ॥
(१) अत्राधिकरणे जीवस्यैकरूपत्वानेकरूपत्वविषयश्रुतिविरो-
धः परिह्रियते । सन्देहबीजं श्रुतिविगाने दर्शयति— स इति ॥ 'सः'
जीवो नित्यः । तत्र हेतुः—यतो निरवयव इति । तत्रैव हेत्वन्तरम्—
पुण्ययुक्पापयुक्चेति । तत्फलभोक्तेत्यर्थः । तथा च नित्यत्वाभावे कृत-
हानाकृताभ्यागमप्रसङ्गात्तदेष्टव्यमिति भावः । अतएव तेषां बद्धक्रम-
त्वात्न पृथक् तच्छब्दाभावः । 'इमं' भूलोकं 'प्रत्यावर्तते' पुण्यपाप-
क्षये पुनः पुनरागच्छति । एवममुं परलोकं 'प्रत्यावर्तते' तदा तदा ग-
च्छति 'स विमुच्यते' बन्धात् । 'स एकधा भवति' एकरूप एव भव-
ति । नानेकरूप इत्यर्थः । यद्यपि स एकधेत्याद्येवोदाहार्यम् । तथाऽपि
तच्छब्दबोध्यस्य जीवत्वज्ञापनाय, निरवयवत्वाद्देशबाहुल्येनाप्यनेकरू-
पत्वं न सम्भवतीति पूर्वपक्षयुक्तिज्ञापनाय च श्रुतेरीश्वरविषयत्वनि-
वारणाय 'पुण्ययुक्' इत्यादिवाक्यस्य, 'स नित्यः' इति तदादिवा-