सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 633, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 633

५८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
सम्यगसम्यगवस्थानविशेषाद्युज्यते चन्दनस्येति चेत्—
( १५ ) न, ‘हृदि ह्येष आत्मा’ (प्र० ३.६०) इति जीवस्यापि
तथाऽभ्युपगमात् ॥ २५ ॥
नबिन्दोः सांशत्वेन शरीरैकदेशे सम्यगवस्थानस्य अन्यत्र असम्यग-
वस्थानस्य च विशेषस्यानुभवसिद्धत्वात् न तथा जीवस्य । कुतः ?
यतोऽयं न तथा सांशः, तथा सत्यनित्यत्वप्रसङ्गादिति योजना । विशे-
षादित्युक्त्या सूत्रे स्वार्थे ष्यञिति ज्ञापितम् ॥
( १५ ) परिहारांशं व्याचष्टे—नेति ॥ न जीवस्य शरीरे सम्यगस-
म्यगवस्थानाभाव इत्यर्थः । येन दृष्टान्तवैषम्यं स्यादिति भावः । कुतो
नेत्यतस्तत्र हेतुतया अभ्युपगमादित्यंशं योजयति—जीवस्येति ॥ अ-
नेन सूत्रे ज्ञस्य जीवस्येत्यस्य अनुवृत्तिस्सूचिता । न केवलं चन्दनबि-
न्दोः किन्तु जीवस्यापीत्यपेरर्थः । ‘तथाऽभ्युपगमात्’ चन्दनबिन्दुव-
द्देहे हृदयतदितरस्थानयोः सम्यगसम्यगवस्थानाभ्युपगमात् । कथ-
मेतत् ‘तथाऽभ्युपगमात्’ चन्दनबिन्दुवज्जीवस्यापि सांशत्वाभ्युपग-
मादित्यर्थः । न चानित्यत्वप्रसङ्गः । यतो न सांशत्वमात्रमनित्यत्वे प्र-
योजकम्, किन्त्वारम्भकांशवत्त्वं, तच्च न जीवेऽस्ति । अन्यथा प्रकृत्या-
देरपि दशदिक्सम्बन्धेन सांशत्वादनित्यत्वप्रसङ्गादिति भावः । अयं
च भावस्तत्त्वप्रदीपे सूचितः । कुतस्तथाऽभ्युपगम इत्यतस्तत्र हेतुत-
या हृदि हीत्यंशं योजयति—हृदीति । श्रुतेरिति शेषः । हृदि हीति श्रु-
तिप्रतीकग्रहणम् । हृदयेऽवस्थितितयैवोभ्याभ्युपगमादिति स्थलोक्तिरू-
पे वा । ‘हि’ यतः ‘एष आत्मा’ जीवो ‘हृदि’ हृदये स्वरूपेणास्ति,
अतो नेन्द्रियवृत्तिं विनाऽप्येतस्य विषयसङ्गतिरिति षट्प्रश्नश्रुतिवा-
क्यार्थः । अनेन—चन्दनवज्जीवस्य ‘अविरोधः’ स्वरूपतदंशाभ्यां
सर्वशरीरव्याप्तिर्युज्यते । कुतः ? चन्दनबिन्दोरात्मनस्सकाशात्
‘अवस्थितिवैशेष्यात्’ शरीरैकदेशे सम्यगवस्थानस्य अन्यत्र अस-
म्यगवस्थानस्य च विशेषस्य अनुभवसिद्धत्वादस्य च जीवेऽभावा-
दिति चेत्—न, कुतो?जीवस्यापि हृदि तदन्यत्र च तथाभावाभ्युपग-
मात् । सोऽपि कुतः ? ‘हृदि हि’ इति श्रुतेरिति सूत्रयोजना, विरोधप-
दानुवृत्त्या नञावृत्त्या तथाशब्दाध्याहारेण च दर्शिता भवति । इदं
त्ववधेयम्—सांशानां देवादीनामेकस्मिन् देहे हृदि नवनीतपिण्डव-
स्सान्द्रद्रव्यरूपेण सम्यगवस्थानं तदन्यत्रासम्यगवस्थानमिति । यथो-