पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 63, कुल 1267 में से
संदर्भ में पढ़ें१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २० ) अथशब्दो मङ्गळार्थोऽधिकारानन्तर्यार्थश्च । अत-
श्शब्दो हेत्वर्थः ।
चारस्याद्याप्यनारब्धत्वाच्च; किन्त्वितरेषां चतुर्णामिति ध्येयम् ।
अत्र सूत्रे आद्यन्तयोरोङ्कारः उच्चारणीयः । तत्राद्य एक एव दृष्टादृष्टोभयार्थः अत एव सूत्रावयवः सर्वसूत्रेषु अनुवृत्त्यर्थमसंहितत-
योच्चार्यते । अथ वा - आदौ ॐकारद्वयं अदृष्टार्थं दृष्टार्थञ्चेति । अ-
न्ते तु पक्षद्वयेऽपि अदृष्टार्थ एक एवोङ्कारः । अदृष्टार्थत्वं नाम केवलं
श्रवणविशरणरूपदोषपरिहारार्थत्वम् । दृष्टार्थत्वं तु अन्वेतव्यपदार्थ-
प्रतिपादकत्वम् । तत्रादिसूत्रावयवभूतं 'ॐ' इत्येतत् अव्ययं ब्रह्मश-
ब्दविशेषणं गुणपूर्णत्ववाचि । ब्रह्मशब्दोऽपि विद्वद्रूढ्या महायोगेन
च विष्णुवाची । 'अथ' शब्द आनन्तर्यार्थः । योग्यतया 'अधिकारा-
त्' इति सम्बध्यते । कर्तव्येति शेषः । तथाच 'अथ' अध्ययनशम-
दमादिरूपाधिकारानन्तरं 'अतः' स्वजन्यज्ञानजन्यप्रसादजन्यमोक्षा-
ख्यफलयुक्तत्वात् 'ॐ' गुणपूर्णस्य 'ब्रह्मणो' विष्णोः 'जिज्ञासा'
श्रवणादिरूपो विचारः कर्तव्य इति सूत्रार्थः । विष्णोः प्रसादादिति
'अतः' शब्दस्यार्थान्तरम् । अस्य जिज्ञासादिकार्यं भवेदिति वाक्य-
शेषेणान्वयः । ॐब्रह्मशब्दयोरुभयोर्यौगिकत्वेऽपि एकस्य रूढत्वेन वि-
शेष्यवाचित्वं अन्यस्य यौगिकत्वेन विशेषणवाचित्वमाश्रित्यान्वया-
ङ्गीकारान्नान्यतरवैयर्थ्यम् । "ॐमित्येतदक्षरमुद्गीथमुपासीत" "त-
द्विजिज्ञासस्व । तद्ब्रह्मेति" इत्याद्यनेकविषयवाक्यसङ्ग्रहाय चोभयोः
प्रयोगः ॥
( २० ) ग्रन्थादौ मङ्गळाचरणस्यावश्यं कर्तव्यत्वेन मङ्गळप्रयोजक-
तया अथ शब्दं व्याचष्टे - 'अथ' इति । मङ्गळं विघ्नोत्सारणसाधा-
रणकारणानुष्ठेयविष्णुस्मरणाथशब्दोच्चारणरूपमर्थः प्रयोजनं यस्य,
तथा प्रशस्तरूपानुष्ठेयमङ्गळात्मको विष्णुः तद्गुणो वाऽभिधेयो यस्य
स तथोक्तः । अथशब्दस्य मङ्गळफलकत्वं तु-
ॐङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥
इति मनुस्मृतिसिद्धम् । मुक्त्यर्थिमात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तिनिर-