सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 447, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 447

[४०० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]]

सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेऽप्रामा-
ण्यमेव स्यादिति चेत्—
( ३ ) न, अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वज्ञैरेव कृत
त्वाच्छ्रुतेराधिक्यं च सिध्यति ॥ १ ॥
प्राबल्यार्थान्तरपरत्वासम्भवसूपानवकाशत्वाख्यहेतवो दर्शिताः । त
तः किमित्यत आह—अत इति । 'तेषां' रुद्रादीनां विरोधे सति वि
ष्णुजगत्कर्तृतापरत्वरूपविरुद्धार्थकल्पनेनेति भावः । 'अप्रामाण्यं' श्रु
तेरित्याकृष्यते । एवशब्देनाविरोधो देशान्तरे प्रामाण्यं च व्यवच्छिद्य
ते । स्यादित्यनेन सौत्रः प्रसङ्गशब्दो विवृतः । तथा च यतो रुद्रादयः
सार्वज्ञ्यादिमत्त्वेनागमसिद्धाः, अतस्तेषां वचनानां तत्स्मृतीनामाप्तिमू
लत्वं सिद्धं, अत एव प्राबल्यं च, अत एव निरवकाशत्वं च; अतः श्रु
तेः 'यतो वा' (तै.उ-३-१-१०) इत्यादिरूपायाः विष्णुजगत्कर्तृतापरत्व
कल्पने तद्विरोध एव स्यात्, न त्वविरोधः । तद्विरोधे च तन्निमित्ताप्रा
माण्यमेव स्यात्, न तु भागविशेषे प्रामाण्यमपि, न वा देशकालभेदेन
अविरोधोऽपि । तथा सति वस्तुनि विकल्पप्रसङ्गः, ततस्तत्परिहारार्थं
श्रुतेर्विष्णुजगत्कर्तृतापरत्वत्यागेनार्थान्तरपरता वक्तव्या । अतः प्रमा
णाभावान्न सा सिध्यति । अतो न तस्य जिज्ञास्यतेति योजना । वचन
विरोधेऽप्रामाण्यमित्यनेन सौत्रस्मृतिपदं तद्विरोधोपलक्षकं, दोषपदं
चाप्रामाण्याख्यदोषपरमित्युक्तं भवति । एवेत्यनेन प्रोपसर्गार्थ उक्तो
भवति ॥
( ३ ) सिद्धान्तांशं व्याचष्टे—नेति ॥ स्मृतीनामिति कृतत्वादि
ति श्रुतेरिति चावर्तते । विरोध इत्यनुवर्तते । अत्रापि सार्वज्ञ्यमुपलक्ष
कम् । एवशब्दोऽसार्वज्ञ्यव्यवच्छेदकः । यदा सर्वज्ञकृतानामाप्तिमू
लत्वं तदा सुतरां निरतिशयसर्वज्ञकृतानामिति कैमुत्ये वैवशब्दः ।
स्मृतेरप्रामाण्यं चशब्दार्थः । तथा च न विष्णुजगत्कर्तृत्वं प्रमाणशू
न्यत्वादयुक्तम्, किन्तु युक्तमेव । कुतः ? 'श्रुतेः' 'यतो वा' इत्या
दिश्रुतिसिद्धत्वात् । न च श्रुतेर्विष्णुजगत्कर्तृतापरत्वे अन्यस्मृतिवि
रोधेनाप्रामाण्यदोषप्रसङ्गात् तस्याः अर्थान्तरपरत्वमिति वाच्यम् ।
कुतो ? यतोऽन्यस्मृतीनां पाशुपतादिरूपाणामेवाप्रामाण्यम् । कुत एत
त् ? श्रुतेः 'विरोधेन' विरोधनिमित्तात् । न च श्रुतिविरोधेऽपि ना
न्यस्मृतीनामप्रामाण्यं सिध्यति, स्मृत्यपेक्षया श्रुतेराधिक्यासिद्धेरधिक