सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 423, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 423

३७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
तस्मै स होवाच द्वे विद्ये वेदितव्ये' (मु. १-१०)
(१०) 'कथं नु भगवस्स आदेशो भवतीति । यथा सोम्यै
श्प्रतिवचनसूचकमित्याशयेन तान्युदाहरति—कस्मिन्निति ॥ 'क-
स्मिन्' इति चाथर्वणे श्रुतम् । अस्यार्थः—हे 'भगवः' भगवन् 'नु'
इदानीं 'सर्वमिदं' कर्मादिकं कस्मिन् विज्ञाते विज्ञातं भवति । क-
र्मादिज्ञानमात्रस्य निष्फलत्वात् विज्ञातस्य कर्मादेः फलं कस्मिन् ज्ञा-
ते सति भवतीति प्रश्नाशयः । श्रुतिगतेतिशब्दस्य इति प्रकारेण शौन-
केनाङ्गिरसं प्रति प्रश्ने कृत इत्यर्थः । एवं पृष्टोऽङ्गिराः अपरविद्यया स-
र्वे कर्मादि विज्ञातं भवति । विज्ञातं च परविद्याविषयपरमात्मज्ञानेन
सफलं भवति इत्युत्तरं 'तदेतत्' इत्यादिनाऽभिधास्यन् तदुपोद्घा-
तत्वेन द्विविधा विद्या प्रथमं सर्वैर्ज्ञातव्येत्याशयेन प्रत्यवोचदित्याह--
तस्मा इति । शौनकायेत्यर्थः । 'सः' अङ्गिराः । हेति हर्षे । प्रमाणप्रसि-
द्धौ वा ॥
(१०) छान्दोग्ये हि 'येनाश्रुतं श्रुतं भवत्यमतं मतं भवत्यविज्ञातं
विज्ञातं भवति' इति वाक्येन 'येन' परमात्मना ज्ञातेन यस्मिन् पर-
मात्मनि ज्ञाते सति 'अविज्ञातं' कर्मादिकमपि विज्ञातं भवति, तज्ज्ञा-
नफलावाप्तेः । एवं येन परेण यस्मिन् परमात्मन्यविज्ञाते सति ज्ञातम-
पि कर्मादिकमविज्ञातं भवति, तत्फलानवाप्तेः । तस्माद्यस्मिन् ज्ञात ए-
व ज्ञातं तत्सफलं भवति । परमात्मज्ञानादौ सति अन्यदज्ञाताद्यपि ज्ञा-
तादिवद्भवतीति वा । 'तमादेशं' भगवन्तमप्राक्ष्यः ? 'उत' किं प्रा-
यो नाप्राक्ष्यः? इत्युद्दालकेनोक्तः श्वेतकेतुर्गूढाभिसन्धिस्तं पृच्छति—
कथमिति ॥ हे 'भगवो' भगवन् पूज्योद्दालक यस्मिन् परमात्मनि
ज्ञात एव सर्वे कर्मादिकं ज्ञातमपि सफलं स्यान्नान्यथा, 'स आदेशः'
तद्विषय उपदेशः 'कथं' केन प्रकारेणोपपन्नो 'भवति' स्यात् । तं
प्रकारं अहं 'नु' इदानीं कथं विजानीयामित्यर्थः । अत्रापीतिशब्दः श्रु-
तिस्थ एव प्रश्नसमाप्तिद्योतकः । इति पृष्टः पितोद्दालकः पुत्राशयं जा-
नमानः स्वाशयोद्घाटनेन तं प्रतिवक्ति—यथेति । हे 'सोम्य' भक्तिज्ञा-
नादिलक्षणसोमार्ह 'यथैकेन मृत्पिण्डेन' ज्ञातेन तत्सादृश्यनिमित्ताद्दक्षा-
तमपि 'सर्वं मृण्मयं' घटादिकं 'विज्ञातं स्यात्' ज्ञातफलं भवति । विशे-
षज्ञानाख्यफलवद्भवतीति यावत् । कथम्? मृत्त्वगन्धवद्र्व्यत्वादिनা
मृत्पिण्डसादृश्याख्यप्रकारविशेषज्ञानात् । एवं परमात्मनि ज्ञाते सर्वे