पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 420, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - १८. ] दीपिकासहितम्. ३७३
( ४ ) तर्हि कथं तेषां शब्दानां जगति प्रसिद्धिः—
( ५ ) सू—ॐ ॥ जगद्वाचित्वात् ॥ ॐ ॥ १७ ॥
जगति व्यवहारो लोकस्य न तु परमात्मनि तथा, अ
तो जगति प्रसिद्धिः शब्दानाम् ॥ १७ ॥
( ६ ) सू—ॐ ॥ जीवमुख्यप्राणलिङ्गादिति चेन्नह्याख्या
तम् ॥ ॐ ॥ १८ ॥
'व्यवह्रियन्ते' केवलरूढत्वेन अङ्गीक्रियन्त इति स्मृत्यर्थः । पाठ्य इ
त्यनन्तरं उक्तत्वादिति शेषः । अस्योभयत्र नान्योन्यनिरपेक्षैव शब्दवृ
त्तिरियवतारिकालब्धसाध्येनान्वयः ॥
( ४ ) शङ्कते—तर्हीति ॥ परमात्मवाचिन इत्याद्यत्रापि सम्बध्य
ते । तदीति लभ्यते । तथा च यदि मुख्यतः परमात्मवाचिनः शब्दाः
ततोऽन्यत्र समाकृष्य प्रयुज्यन्ते, तर्हि तेषां मुख्यार्थे परमात्मन्येव वाच
कत्वप्रसिद्धिस्यात् । तथा च तेषां शब्दानां कथममुख्यार्थे जगति
वाचकत्वप्रसिद्धिः स्यात् । न कथमपीत्यर्थः । तथा च प्रसिद्ध्यन्यथाऽ
नुपपत्त्याऽन्यस्यैव मुख्यवाच्यत्वं कल्प्यमिति भावः । प्रसिद्धिरित्यन
न्तरं 'स्यादित्यत आह' इति शेषः ॥
( ५ ) एतच्छङ्कापरिहारत्वेन सूत्रं पठित्वा व्याचष्टे—जगदिति ॥
व्यवहारपदं शब्दप्रयोगस्य करणव्युत्पत्त्या शब्दशक्तिग्रहस्य च वाच
कम् । अनेन जगद्वाचित्वादित्यस्य आवृत्तिस्सूचिता । तुशब्दोऽवधार
णे । तथाशब्द उपमायाम् । अत इत्युक्तेर्यत इति लभ्यते । जगति प्र
सिद्धिरिति शेषोक्त्या साध्यं सूचितम् । जगद्वाचित्वमित्यर्थान्त
रं चैतत् । तथा च यतो बालानां चित्रलिखितसिंहादाविव 'लोक
स्य' लोकानामनवगतमुख्यार्थानां जनानां जगति व्यवहारो बहुलश्श
ब्दप्रयोगोऽस्ति न तथा परमात्मनि । अतो 'जगद्वाचित्वं' जगत्येव
व्यवहारः व्युत्पत्तिः न परमात्मनि । यत एवमतः शब्दानां 'जगद्वा
चित्त्वं' जगति वाचकत्वप्रसिद्धिः जगद्वाचित्वव्यवहारो युज्यते इति
योजना । अनेन—यतो 'जगद्वाचित्वात्' जगति लोकस्य व्यवहारा
त् 'जगद्वाचित्वात्' जगद्वाचित्वज्ञानात् 'जगद्वाचित्वं' जगति प्रसि
द्धिः शब्दानां युज्यते । अतो न सिद्धान्ते तद्विरोध इति सूत्रयोजना
दर्शिता ॥
( ६ ) विष्णोरेव मुख्यतः शब्दार्थत्वमाक्षिप्य समादधत्सूत्रमुपन्य