सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 417, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 417

३७० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
यथा व्यपदिष्टस्यैव परस्य 'य आकाशे तिष्ठन्' (बृ.
तः' इति हेतुवाक्येऽन्वेतुं शक्यत्वादाकाशादिषु स्थित इत्येव वक्त-
व्यम् । अतएव टीकायां सम्बन्धभाष्योक्तां प्रतिज्ञां 'न केवलम्' इ-
त्यादिना विवृत्य न च कार्यकारणभावविरोध इत्यध्याहृतसाध्ये आ-
काशादिषु स्थितत्वादित्येव हेतुवाक्यं प्रदर्शितम् । तथाऽपि अवान्तर-
कारणत्वेनेत्यस्य हेतुसाध्ययोरुभयत्राप्यन्वयसूचनार्थं, स्थित इत्यस्या-
न्यविशेषणत्वशङ्कापरिहारार्थं च तत्पदयोः पुनरनुवादः कृतः। तथा च
न केवलं मूलकारणवाचिनाऽऽत्मपदेनैव विष्णुरुच्यते, किन्तु अवान्तर-
कारणत्वेन रूपेण तच्छब्दैरवान्तरकारणवाच्याकाशादिशब्दैरपि स ए-
वोच्यते । न च तस्यावान्तरकारणत्वेन रूपेणोक्तौ कार्यत्वकारणत्व-
योरापत्तिः, ते च विरुद्धे इति वाच्यम् । यत आकाशादिष्ववान्तरका-
रणत्वेन रूपेण स एव स्थितः । आकाशाद्युत्पत्तावाकाशाद्यन्तर्गतस्य भ-
गवतोऽभिव्यक्त्या वाय्वादिस্বরূপाभिव्यक्तिहेतुत्वेन च तस्य कार्यत्व-
कारणत्वयोरुपपत्तेर्न विरोध इति भावः। येन रूपेण आकाशादिषु स्थि-
तो विष्णुः स्थितः, तेन रूपेण तस्य तच्छब्दवाच्यतेति ज्ञापनायोभय-
त्रावान्तरकारणत्वेनेत्युक्तिः । अत्रापिपदपाठः प्रामादिकः । नन्वाका-
शादिषु विष्णोः स्थितत्वमसिद्धमित्यतस्तत्राकाशादिष्वित्यस्य बुद्ध्या
विविक्तेनोक्तेरित्यनेनाप्यन्वयेन लब्धहेतुमाह-परस्येति । 'इत्यादिना'
वाजसनेयवाक्येन आकाशादिषु 'परस्य' परमात्मन 'उक्तेः' सत्त्वोक्ते-
रित्यर्थः । परस्येत्यनेन अनुवृत्ततच्छब्दस्य विभक्तिपरिणामावृत्ती
सूचिते । आदिशब्देन 'यो वायौ तिष्ठन्' ( बृ.५-७-७. ) इत्यादि, 'यमा-
काशो न वेद' (बृ.५-७-१२.) इत्यादि च गृह्यते । ननु श्रुतावप्याकाश-
स्थो विष्णुरिति कुत इत्यतस्तत्र 'यथाव्यपदिष्ट' इत्यंशस्य 'आका-
शादिषूक्तेः' इत्याभ्यां संयोजनेन लब्धं हेतुमाह—यथाव्यपदिष्टस्ये-
ति । व्यपदिष्टप्रकारमनतिक्रान्तो यथाव्यपदिष्ट इति विग्रहः । ततष्ष-
ष्ठीतत्पुरुष इत्याशयेन षष्ठीप्रयोगः । यद्वा—श्रुत्यन्तरव्यपदिष्टानुरूपं
यथाव्यपदिष्टमिति निपातनात्सादृश्येऽव्ययीभावः । तथा चैतरेये 'स
योऽतोऽश्रुतः' इत्यादौ परमात्मा 'यथा' येन प्रकारेण 'व्यपदिष्टः'
श्रुतः तादृशस्यैव तस्य परस्य 'यमाकाशो न वेद' इत्यादिना वाक्ये-
नाकाशादिषूक्तत्वादित्यर्थः। अनेन आकाशादिष्विति सौत्रो हेतुराकां-
क्षाक्रमेण यथायोग्यमपेक्षितपदावृत्त्या योजनीय इत्युक्तं भवति । सू-