सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 413, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 413

३१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
त्वाच्च ॥ १२ ॥
मात्रेण तस्याधाराधेयभावो युज्यते इति न तदनुपपत्तिरिति भावः। स-
त्तर्कदीपावल्यां तु स्वाधेयत्वं लीलयेति भाव इत्युक्तम् । हेतोस्समुच्चये
चशब्दः । वाजसनेयक उदाहृतोऽयं मन्त्रः—
यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेवं मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥
इति । अत्र पञ्चपञ्चेति वीप्सा पञ्चानां जनानां सर्वशरीरेष्वनुवृत्ति-
ज्ञापनार्था । तथा च ‘यस्मिन्’ सर्वशरीरगते परमात्मनि ‘पञ्चजनाः’
प्रतिपुरुषं स्थितानां पञ्चानां प्राणादिजनानां जनयितृत्वाद्भिन्नत्वात्तत्त-
च्छब्दवाच्याः तदाधाराः पञ्च भगवद्रूपविशेषाः ‘प्रतिष्ठिताः’ तदा-
श्रिताः, तथा—आकाशाख्यो भगवांस्तदाख्या प्रकृतिश्च यस्मिन्नाश्रि-
ता , ‘तं’ परमात्मानमहं ‘मन्ये’ जानीयामित्यर्थः । मन्त्रद्रष्टृवाक्यमे-
तत् । किं तज्ज्ञानेनेत्यत उक्तं—विद्वानिति । ‘एवं’ उक्तप्रकारेण स-
र्वशब्दवाच्यं ‘तं अमृतं’ परं ब्रह्म ‘विद्वान्’ तत्त्वेनोपासीनः स्वयं चा-
न्यैः ‘अमृतो भवति’ मुक्तो भवतीत्यर्थः । तमेवेति सावधारणपाठ-
स्तु सत्तर्कदीपावलीविरुद्धः । यद्यपि बृहदारण्यकभाष्ये—
प्राणश्चक्षुस्तथैवान्नं मनश्रोत्रं च पञ्चमम् ।
मूलप्रकृतिसंयुक्तं तद्रूपं प्रतिपूरुषम् ॥
इत्यनेन षष्ठ्यन्तनिर्दिष्टानां नियम्यप्राणादीनामेव पञ्चजनशब्दवा-
च्यत्वम्, तथा तेषामाकाशाख्यमूलप्रकृतेश्च भगवदाश्रितत्वमुक्तम्,
न तु भगवद्रूपाणां पञ्चजनशब्दवाच्यत्वम्, न वा स्वाश्रितत्वं भगवतः।
तथाऽपि तत्र सर्वशब्दसमन्वयोक्तौ तात्पर्याभावात् यथाकथं चिद्वा-
क्ययोजने तात्पर्यादमुख्यवाच्याभिप्रायेण तत्र तथोक्तावपि अत्र बहु-
सङ्ख्यावाचिनां आधारादिवाचिनां च सर्वेषां शब्दानां समन्वये तात्प-
र्यात्तस्य च तच्छब्दमुख्यवाच्यतामन्तरेणायोगात्तदर्थं तेषामपि परम-
मुख्यवृत्त्या भगवत्परत्वोक्तिरिति न विरोध इति ज्ञातव्यम् । अनेन—
‘सङ्ख्योपसङ्ग्रहात्’ ‘यस्मिन्’ इत्यादौ बहुत्वसङ्ख्यानां उपसङ्ग्रहा-
त् संक्षेपेण बहुत्वसङ्ख्याविशिष्टवस्तुवचनात्, तथा ‘यस्मिन्’ इत्या-
द्याधाराधेयभावश्रवणादपि प्राप्तो यो ‘विरोधो’ भगवतस्तच्छब्दवा-
च्यत्वायोगाख्यः सः न । कुतः ? ‘अपि’ एकस्यापि स्वगतभेदशू-