पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 411, कुल 1267 में से
संदर्भ में पढ़ें३६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]
च न कर्मक्रमादिविरोधः ॥ ११ ॥
३. अधिकरणम् ॥
(१)सू—ॐ॥ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च॥ॐ॥१२॥
ब्दानां सङ्केतमात्रे न युज्यते, अतो महायोगवृत्तिसिद्धिः । ननु अन्य
थाह्येतत्कथं कल्प्यते इत्यत उक्तं—मध्वादिवदिति । यथा खलु म
धुविद्यायां ‘असौ वा आदित्यो देवमधु’ इत्याद्यायां तु मधुयशस्ते
जआदिपदार्थतया परमात्मन उपासनोपदेशेऽपि तदर्थे मध्वादिशब्दा
नां परमात्मवाचित्वेऽपि न लौकिकक्षौद्रादेर्वाचकशब्दाभावेन अभा
वाख्यो विरोधः, यथा च ‘इदं तच्छिरः’ इति श्रुतौ चमसशब्दवा
च्यत्वेन शिरस उपदेशेऽपि न यज्ञपात्राभावाख्यो विरोधः तथात्रापि
विरोधाभावः । कुतः ? अन्यत्र क्षौद्रादौ रूढिमनिवार्यैव मध्वादिश
ब्दानां परमात्मतद्गुणवाचिताऽभ्युपगमात् । एवं सर्वशब्दवाच्यत्वे पर
मात्मनोऽभ्युपगतेऽपि न कर्मक्रमादिविरोधः । कुतः ? ज्योतिरादिश
ब्दानामन्यत्र केवलरूढ्यादिवृत्तिमभ्युपेत्य महायोगवृत्त्या ईश्वरवाचि
त्वाभ्युपगमादिति सूत्रार्थ उक्तो भवति ॥ २ ॥
इति ज्योतिरुपक्रमाधिकरणम् ॥
—:* ॐ *:—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे प्रातिपदिकेन प्रत्ययमुखेन बहुत्वसङ्ख्यावि
शिष्टवस्तुवाचिनामाधाराधेयवाचिनां च शब्दानां समन्वयः क्रियते ।
अत्र ‘तत्तु समन्वयात्’ इत्युक्तः सर्वशब्दसमन्वयो न युज्यते । कु
तः ? विरोधात्—बहुत्वाधारत्वादिवाचिशब्दवाच्यत्वाभावात् । सोऽ
पि कुतः ? विरोधात्—बहुत्वसङ्ख्योपसङ्ग्रहविरोधात् । एकस्यैवाधा
राधेयत्वविरोधाच्चेति पूर्वाधिकरणीयवाक्यसंयोजनेन शिष्याः सङ्ग
तिंविषयादिकं ज्ञास्यन्तीति भावेन सिद्धान्तयत्सूत्रमुपन्यस्य व्याच
ष्टे—नेति ॥ ‘इत्यादिषु’ वाक्येषु ‘बहुसङ्ख्योपसङ्ग्रहेऽपि’ बहुसङ्ख्या
कानां वस्तूनां ‘पञ्च’ इति प्रातिपदिकेन वा ‘पञ्चजनाः’ इति बहु
वचनान्तेन वा एकेन पदेनोपसङ्ग्रहेऽपि संक्षिप्य वचनेऽपीत्यर्थः । निमि
त्तसप्तमीयम् । अनेन सङ्ख्योपसङ्ग्रहादिति विरोधनिमित्तसमर्पकं पदं