पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 408, कुल 1267 में से
संदर्भ में पढ़ें[अधि - २. सू - १०. ] दीपिकासहितम्. ३६१
थकस्य कर्मक्रमादिविरोधान्न युज्यत इति ।
(२) अत आह—
सू—ॐ ॥ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ ॐ ॥ १० ॥
र्मेषां तारतम्यबोधकम्, यद्वा—कर्मक्रमवाक्यं दीक्षणीयोपसदाद्य
ङ्गवाक्यं च गृह्यते । द्वितीयादिशब्देन कालाधिकारिफलादि
प्राधान्यादादौ कर्मग्रहः । तत्र च वसन्तशब्दः कालविशेषवाची । सु
धारीत्या तत्रैव विधेस्तात्पर्यम् । ज्योतिश्शब्दो ज्योतिष्टोमशब्दश्च क
र्मवाची । तत्राद्यः समस्तशब्दोपलक्षकः । तद्द्वारा ज्योतिर्नामकस्तो
त्रसमूहवतो यागस्य लक्षितलक्षणया बोधकः । स्वयं तु शक्यार्थः ।
वसन्तवाक्यस्य ज्योतिष्टोमानुवादेन गुणविधायकत्वं तु गीताभाष्य
प्रमेयदीपकृद्ग्रंथे नाङ्गीकृतम् । कर्मान्तरविधित्वमिति तयोराशयः ।
अत एव प्रथमं तदेवोदाहृतम् । सूत्रे ज्योतिरित्येकदेशकीर्तनात् भा
ष्येऽपि तादृशस्यैवोदाहरणम् । स्वर्गकामशब्दोऽधिकारिवाचि, स्वर्ग
शब्दः फलवाची । अनेन समन्वयसूत्रोक्तसर्वशब्दसमन्वयाक्षेपात्तेना
स्याक्षेपिकी सङ्गतिरुक्ता । ज्योतिष्टोमादिशब्दाख्यो विषयः, अन्यवा
चीति पूर्वः पक्षः, अन्यत्र प्रसिद्धेर्विष्णुवाचित्वे कालकर्मादिविरोधा
च्छेति युक्तिश्च सूचिता भवति ॥
(२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ वसन्तादि
रादिपदार्थः । यद्यप्युदाहृतवाक्ये वसन्तशब्दस्य प्रथमं श्रुतत्वाद्वस
न्त इति वक्तव्यम् । तथाऽपि ज्योतिश्शब्दस्य कर्मान्तरप्रकृतित्वफल
करणत्वादिना प्रधानभूतज्योतिष्टोमाख्यकर्मवाचित्वाज्ज्योतिरित्युक्तं सू-
त्रे, तदनुसारात् अत्रापि । एतच्चान्येषामप्युपलक्षकमिति भावेन ज्योति
रादीत्याह । ज्योतिरादीत्युभयान्वयी । ज्योतिरिति शब्दार्थयोर्ग्रहणम् ।
तथा च ज्योतिष्टोमादिकर्मादिवाचित्वेन प्रसिद्धज्योतिरादिशब्दाभिधे
योऽपि 'स एव' हरिरेवेति प्रतिज्ञार्थः । प्रसिद्धेत्यनेन पूर्वपक्षयुक्तिस्सूचि
ता । न केवलं सिद्धरूपदेवतातत्क्रमवाचकैः 'इन्द्रियेभ्यः पराः' (कठ.
३-१०.) इत्यादिशब्दैः वाच्यो हरिः, किन्तु साध्यभूतकर्मतत्क्रमा
दिशब्दवाच्यश्चेत्यपिशब्दार्थः । अनेन ज्योतिस्त्वित्यन्वितसौत्रतुशब्दो
ऽप्यर्थतया व्याख्यातः । समन्वयसूत्रादनुवृत्तं विधेयसमर्पकं तदिति
पदं 'एषः' इति श्रुत्यनुसाराल्लिङ्गविपरिणामेन स इति पठितं, ततए
वानुवृत्तस्य तुशब्दस्यार्थ एवेति । इति शब्दात्परं तथाशब्दो योज्यः ।
४६