पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 406, कुल 1267 में से
संदर्भ में पढ़ें[अधि - १०. सू - ९.] दीपिकासहितम्. ३५९
(२१) सू- ॐ ॥ चमसवदविशेषात् ॥ ॐ ॥ ९ ॥
यथा चमसशब्दोऽन्यत्र प्रसिद्धोऽपि 'इदं तच्छिर
एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः' (बृ. ४-२-३.) इ
ति श्रुतेः शिरोवाचकः, एवमव्यक्तादिशब्दाः सर्वेऽ
न्यत्र प्रसिद्धा अपि 'नामानि सर्वाणि यमाविश
(२१) ननु भवेदियमव्यक्तादिशब्दानां परमात्मनि परममुख्यत्वचि-
न्ता । यदि तेषां तत्र मुख्यत्वमेव सिद्धं भवेत् । न च तद्युक्तं, तेषाम-
न्यत्रैव प्रसिद्धत्वात् । न च 'अव्यक्तमचलम्' इत्यादिश्रौतस्मार्तप्र-
योगबलात्तेषां तत्र शक्त्यवगमः । वृत्त्यन्तरेणापि प्रयोगोपपत्तेरित्याश-
ङ्कां परिहरत्सूत्रमुपन्यस्यति—चमसवदिति ॥ अत्रापि पूर्ववच्छब्दप-
रत्वं प्रथमान्तात्सप्तम्यन्ताच्च वर्ति चशब्दानुवृत्तिं तस्य पूर्ववदर्थद्वयं
श्रुतेरित्यध्याहारं चाभिप्रेत्य सूत्रं व्याचष्टे—यथेति । 'अन्यत्र' चतुष्को-
ण्यज्ञपात्रे पुनः 'अन्यत्र' प्रधानादौ अव्यक्तादिशब्दा इत्यनेन प्राचीनं
'इतरे' इति स्वपदं व्याख्यातम् । दृष्टान्तीभूतमहच्छब्दस्यापि सङ्ग्रहा-
य सर्व इत्युक्तिः । आदिशब्देन पुरुषादिशब्दानां ग्रहणम् । 'यो देवाना-
म्' इत्यादि द्वितीयादिपदार्थः । तथा च यथा चमसशब्दो यद्यपि अन्य-
त्र प्रसिद्धः, तथाऽपि 'इदं तच्छिरः' इत्यनुशासनरूपश्रुतेः शिरोवाच-
कोऽवगत एव । तथा सर्वेऽव्यक्तपुरुषादिशब्दा यद्यप्यन्यत्र प्रसिद्धाः,
तथापि 'नामानि' इत्यादिश्रुतेः 'परमात्माभिधायकाः' वाचका एव, न
लाक्षणिकाः इत्यवगम्यत इति योजना । नन्विदमित्यस्याभिधानरूपत्वे-
ऽपि न 'नामानि' (भालुवेय.) इत्यस्याभिधानरूपता । वृत्त्यन्तरेणा-
पि एतद्वचनसम्भवादित्याशङ्कोत्तरत्वेन प्रवृत्तमविशेषादिति सूत्रखण्डं
व्याचष्टे—अविशेषादिति । श्रुतेरित्यावर्तते । तथा च 'नामानि' इति श्रुतेः
'इदम्' इति श्रुतेः सकाशाद्विशेषाभावादित्यर्थः । अतस्तद्वदस्या अप्य-
नुशासनरूपत्वादनया परमात्मवाचित्वनिश्चयो भवत्येवेति भावः । बृ-
हदारण्यके हि 'तदेष श्लोको भवति' इति प्रतिज्ञाय 'अर्वाग्बिलश्चम-
स ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम्' इति मन्त्रमुदाहृत्य 'अ-
र्वाग्बिलश्चमस ऊर्ध्वबुध्न इति' इतिवाक्येन मन्त्रगतैकपादं प्रतीकं गृ-
हीत्वा 'इदं तच्छिरः' इति वाक्येन स मन्त्रो व्याख्यातः । तत्प्रकार-
स्तु— 'अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः' इति व्याख्येयमन्त्रे यद्वस्तूक्तम्,
तदिदं प्रतीयमानं शिरः । कथं ? 'हि' यस्मात् 'एषः' 'शिरश्चमसस्त-