सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 402, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 402

[ अधि - १. सू - ५. ] दीपिकासहितम्. ३५५
( १५ ) सू—ॐ ॥ वदतीति चेन्न प्राज्ञो हि ॥ ॐ ॥ ५ ॥
'महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते'
( कठ. ३-१५.) इति ज्ञेयत्वं वदतीति चेत्—
( १६ ) न, प्राज्ञः परमात्मा हि तत्रोच्यते । 'अणोरणीयान्म-
( १५ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे-
वदतीति ॥ नान्यस्येत्यनुवर्तते । तथा च 'अन्यस्य' प्रधानस्य 'न ज्ञेय
त्वावचनं' मोक्षार्थं ज्ञेयत्ववचनाभावः । कुतः? यतः 'अनाद्यनन्तं मह-
तः परं ध्रुवम्' (कठ. ३-१५.) इति वचनं लिङ्गव्यत्ययेन 'तं' 'महतः प-
रमव्यक्तम्' इति पूर्ववाक्ये महत्तत्वात्परत्वेनोक्तं अव्यक्तमिति योज-
नायां अन्यस्य मोक्षार्थं ज्ञेयत्वं वदत्यत इति वाक्ययोजना। ननु वदतेः
शाब्दप्रतीतिवाचित्वात्तत्र चशब्दस्य करणत्वात्कथं वदतीति व्यपदे-
शः? इत्थम्—अवान्तरव्यापारवतो हि करणस्य कारकत्वं, अन्यथा-
तिप्रसङ्गात् । तत्र स्वस्वक्रियां प्रति सर्वस्य प्राधान्येन कर्तृत्वात् कर-
णेऽपिशब्दे तद्विवक्षया वदतीति व्यपदेशो युज्यते ॥
( १६ ) परिहारांशं व्याचष्टे—नेति ॥ नैतद्वाक्यबलेन अन्यस्य मो-
क्षार्थं ज्ञेयत्वं मन्तव्यमित्यर्थः । कुत इत्यत आह—प्राज्ञ इति । प्रज्ञ ए-
व प्राज्ञः तस्य व्याख्या परमात्मेति । 'हि' यतः 'तत्र' वाक्ये परमा-
त्मैवोच्यते, न प्रधानं अतो नेति योजना । ननु महतः परत्वलिङ्गात्प्र-
धानमत्रोच्यते इत्यत आह—अणोरिति । 'हि' यतः 'अणोः' इति क-
ठश्रुतौ 'तस्यैव' प्रकृतपरमात्मन एव 'महतो' महत्तत्त्वात् 'महत्त्वं'
परत्वमुच्यते, न त्वन्यस्य । अतो न लिङ्गादन्यदत्रोच्यत इत्यध्याहारे-
ण योजना । लिङ्गस्यान्यथासिद्धत्वादिति भावः । नन्वस्यां श्रुतौ भग-
वानणोः सूक्ष्मादपि सूक्ष्मः, महतोऽणुप्रतियोगिस्थूलात्स्थूल इति प्रति-
पादनेन भगवतः सर्वस्थूलात्परत्वोक्तावपि न महत्तत्त्वपरत्वमुच्यते,
अतो न महत्परत्वलिङ्गं विष्णौ सावकाशमित्यत आह—सर्वस्मादि-
ति । इदं च हेतुगर्भं विशेषणम् । तस्येत्यनुषज्यते । अपिर्भिन्नक्रमो य-
द्यपीत्याद्यर्थेऽपि भवति कैमुत्ये च । 'सिद्धयति यतः' इति शेषः । त-
था चात्र तस्य विष्णोः सर्वस्मात्परत्वोक्तावपि 'महतो' महत्तत्त्वात्प-
रत्वमपि सिद्धयति । न केवलं सर्वस्थूलत्वमित्यपेरर्थः । कस्मात्? यत-
स्सर्वस्मात्स्थूलात्परस्य महतः परत्वं कैमुत्येन युज्यते अत इति योज-
ना । तथा चायं सिद्धान्ते कठवाक्यार्थस्सम्पद्यते—अनाद्यनन्तमिति