सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 395, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 395

इति पिप्पलादशाखायाम् । 'अक्षरं ब्रह्म परमम्' इ
त्युक्त्वा 'अव्यक्तोऽक्षर उच्यते' (गीता. ८-३..२१.)
इति वचनाच्च ॥ १ ॥
त् । अचाल्यं वा । 'शान्तं' निर्विकारं, । शस्य सुखस्य अन्त सुखो
त्कर्षसीमाभूमिं पूर्णसुखमिति वा, 'निष्कलं' निर्गताः कलाः यस्मा
त्तं षोडशकलारहितं, 'निष्क्रियं' अक्लिष्टकारिणम्, प्राकृतक्रियारहि
तं वा, प्रलये प्रचुरव्यापारहीनं वा, निष्क्रियते निर्णीयते इति निष्क्रि
यमिति वा, 'परं' उत्तमम्, 'आत्मानं' आदानादिकर्तारं हरिं 'वेद'
जानाति । सः अनु ज्ञानानन्तरं 'भयात्' संसारभयात् 'मुच्यते' मु
क्तो भवेदिति पिप्पलादर्षिदृष्टश्रुत्यर्थः । शाखायामित्यस्य पिप्पलाद
उक्तार्थे दर्शयतीत्यध्याहृतानुवृत्ताभ्यां वचनादित्यागामिनाऽन्वयः । गी
तायां 'इत्युक्त्वा वचनात्' इत्यस्य 'अक्षरं ब्रह्म' इति पूर्ववाक्येन य
दक्षरं तत्परमं ब्रह्मेति यस्याक्षरस्य परब्रह्मत्वमुक्तम्, तस्यैवाक्षरस्य
'अव्यक्तोऽक्षर उच्यते' इत्युत्तरवाक्येनाव्यक्तत्वोक्तेरित्यर्थः । अ
स्य परमात्मन एवाव्यक्तशब्द इति सिद्धमिति पूर्ववाक्येनान्वयः ।
'अनेन जीवेन' इतिच्छान्दोग्यवाक्यस्य 'जीवो विनयिता साक्षी'
इति सहस्रनामवाक्यस्य चोपलक्षकमेतत् । तयोरपि दर्शयतिचेतिश
ब्दाभ्यां सूचितत्वात्, 'अहं' प्राणधारकत्वनिमित्ताज्जीवाख्येनानिरु
द्धरूपेण 'इमाः' तेजोबन्नाख्यास्तिस्रो देवताः अनुप्रविश्य 'नामरू
पे' शब्दार्थप्रपञ्चौ 'व्याकरवाणि' सम्यक्सृजानीत्यर्थः । विष्णुवा
क्यमेतत् ॥
अनेन-यतः 'आनुमानिकमपि' प्रधानाद्येव 'एकेषां' शाखिनां कठादी
नां शाखासु 'अव्यक्तात्पुरुषः' (कठ. ३-११.) इति श्रुतेरव्यक्तादि शब्दैरु
च्यते, न तु विष्णुः, अतो न तत्तु समन्वयादित्युक्तं युक्तमिति चेत्-न
कुतः ? 'गृहीतेः' परमात्मन एवाव्यक्तादिशब्दवाच्यत्वाङ्गीकारात्।
परमात्मन एवाव्यक्तादिशब्दवाच्यत्वे कथं तर्हि प्रधानादौ तद्व्यवहा
रः । तद्वाचकेन तद्व्यवहारे अतिप्रसङ्गादित्यत उक्तं-शरीररूपक
विन्यस्तेति । यथा प्रसिद्धशरीरं पुरुषतन्त्रं तथा परमात्मतन्त्रत्वेन नि
र्मितेन प्रसिद्धशरीरसमे प्रधानादौ विन्यस्तस्य स्थितस्य परमात्मनो
ऽव्यक्तादि शब्दैर्वाच्यत्वेनोपगमादित्यर्थः । न चाव्यक्तस्य मुख्यश
रीरत्वमेव किं न स्यादिति वाच्यम् । यतोऽव्यक्तं कप्रत्ययोक्तं कुत्सना