सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 392, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 392

[ अधि - १. सू - १ ] दीपिकासाहितम्. ३४५
परमात्मन एवाव्यक्तशब्देन गृहीतिः ।
( ४ ) कप्रत्ययः कुत्सने ।
योजितं युक्तं भवति । परमात्मन एवाव्यक्तादिशब्दवाच्यत्वे कथं तर्हि
प्रधानादावव्यक्तादिशब्दव्यवहारः । न च वाच्यं अवाचकत्वेऽप्यन-
भिज्ञानादिना तद्व्यवहार इति 'साक्षादप्यविरोधं जैमिनिः' इति सू-
त्रोक्तरीत्या साक्षादित्यनेनोक्तमिति । तथा सति अवाचकत्वाविशेषेण
घटादिशब्दानां पटादौ व्यवहारप्रसङ्गादित्याशङ्कापरिहारायोक्तम्—
सूत्रे शरीररूपकविन्यस्तेति । तद्रथपूर्वकविन्यस्तशरीरगृहीतेरित्यप-
व्याख्यानिरासाय यथावद्व्याचष्टे—'शरीररूपके अव्यक्ते' प्रधाना-
दौ 'विन्यस्तस्य' स्थितस्येति । तथा च परमात्मन एवाव्यक्तादिश-
ब्दमुख्यवाच्यत्वेऽपि नाव्यक्तादौ तद्व्यवहारायोगः । कुतः? अव्यक्ता-
दौ परमात्मनो विन्यस्तत्वेन तत्सम्बन्धादेवाव्यक्तादावपि तच्छब्दप्र-
वृत्तेरिति सूत्रकाराभिप्राय इति भावः । नन्वेतदयुक्तम् , ब्रह्मवत्प्रधा-
नादेरपि मुख्यवाच्यत्वस्य वा प्रधानादिसम्बन्धादेव ब्रह्मणो वाच्य-
त्वमिति वैपरीत्यस्य वा वक्तुं शक्यत्वादित्यत उक्तम्—सूत्रे शरीर-
रूपेति । तत्र तत्त्वप्रदीपरीत्या शरीरमेव रूपमस्येति वा, तद्विवरणा-
त्मकचन्द्रिकारीत्या शरीरस्य रूपमिव रूपं धर्मो यस्येति वा विग्रहः।
तथा च प्रसिद्धशरीरसम इत्यर्थः । साम्ये निमित्तमाह-पारतन्त्र्या-
दिति । पराधीनत्वादित्यर्थः । तथा च यथा लोके शरीरं पुरुषतन्त्रं
तथा परमात्मतन्त्रत्वेन धर्मेण प्रसिद्धशरीरादिसदृशं प्रधानादिकं भ-
वति शरीररूपमिति भावः ॥
( ४ ) नन्वेवं सूत्रकारः पारतन्त्र्याभिप्रायेण प्रधानादेः परमात्म-
नः शरीररूपत्वमसूत्रयदिति कुतो ज्ञायते । मुख्यशरीरत्वाभिप्रायेणैव
रूपशब्दं प्रयुक्तवानिति किं न स्यादित्याशङ्कानिवारणाय सूत्रकृत्प्रयुक्तं
कप्रत्ययं रूपशब्दोक्तमुख्यशरीरत्वाभावे हेतुसमर्पकतया व्याचष्टे—
कप्रत्यय इति ॥ 'कुत्सने' नि