सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 382, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 382

[ अधि - १३. सू - ४२. ] दीपिकासहितम्. ३३५
त्यादिश्रुतेस्तस्यैव हि तल्लक्षणम् ।
(४) अनामा सोऽप्रसिद्धत्वादरूपो भूतवर्जनात् ।
इति ब्राह्मे ॥ ४१ ॥
--:--
१३. अधिकरणम् ॥
(१) असङ्गत्वं परमात्मन उक्तम् । तच्च ‘ स यत्तत्र किञ्चि
त्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः ’ ( बृ०
६-३-१५० ) इति स्वप्नादिद्रष्टुः प्रतीयते ।
रशङ्कापि निरस्ता । यद्यपि ‘ यतः ’ इत्यानामरूपश्रुतिरेव प्रथममुदाहर्त
व्या, ‘ ते यदन्तरा ’ इति नामराहित्यस्यैव प्रथममुक्तत्वात् । न तु ‘अ
वर्णम् ’ इत्यारूपश्रुतिः। तथाऽपि वाचकस्य नाम्नो वाच्यापेक्षयाऽप्रा
धान्यात् वाच्यस्यैव प्रधानत्वाद्वाच्य प्रपञ्चान्तर्गत रूपराहित्यश्रुतिरे
व प्रथममुदाहृतेत्यदोषः ॥
(४) ननु हरेर्नामरूपराहित्यं नोपपद्यते, सर्वशब्दवाच्यत्वात् रु
क्मवर्णादिरूपवत्त्वाच्च । अन्यथा ईक्षतेः रूपोपन्यासाच्चेत्युक्तविरोधा
पातादित्यत आह—अनामेति ॥ ‘सः’ हरिः ‘ अप्रसिद्धत्वात् ’ साक
ल्येन स्वात्मनोऽन्येन शब्दादिनाऽप्रमितत्वान्निमित्तादनामेत्युच्यत इ
त्यर्थः । न चैवमाकाशशब्दवाच्यस्य प्रसिद्धिवोधकनिपातद्वयविरोध
इति वाच्यम् । निपातबोध्यप्रसिद्धेः विधेयभूतनिर्वोढृत्वान्वयित्वेन पू
र्वपक्षीरीत्या उद्देश्याकाशान्वयित्वाभावात् । निर्वोढृत्वस्य च लोकप्र
सिद्धत्वाभावेऽपि ‘एकोदाधार’ इत्यादिश्रुतिप्रसिद्धत्वात् । तस्य चा
प्रसिद्धत्वादित्यनेनानिषिद्धत्वात् । ‘ भूतवर्जनात् ’ भौतिकदेहशून्यत्वा
त्तादृशरूपराहित्याद्वा अरूप इत्यर्थः । इति ब्राह्मे इत्यस्योक्तत्वात्
नोक्तविरोध इत्यध्याहृतेनान्वयः ॥ १२ ॥
॥ इति आकाशाधिकरणम् ॥
१३. अधिकरणम् ॥
(१) अत्राधिकरणे स्वप्नादिद्रष्टृत्वलिङ्गं ब्रह्मणि समन्वीयते । श्रु
त्यादिसङ्गतिं विषयादिकं च सूचयति—असङ्गत्वमिति ॥ अक्षरनयो
दाहृते ‘ अगन्धमरसम् ’ इति वाजसनेयवाक्ये परमात्मनो असङ्गत्व