सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 369, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 369

३२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
(९) ‘नाग्निर्न यज्ञो न क्रिया संस्कारो न व्रतानि शूद्रस्य’
इति पैङ्गिश्रुतौ संस्काराभावाभिलापाच्च ।
(१०) उत्तमस्त्रीणां तु न शूद्रवत् । ‘स पत्नीं मे पराधम’
इत्यादिष्वधिकारदर्शनात् ।
(११) संस्काराभावेनाभावस्तु सामान्येन ॥
(९) नन्वस्त्वध्ययनस्य उपनयनसंस्कारसापेक्षत्वं, तथापि न शू-
द्रस्य वेदाध्ययनाभावसिद्धिः । शूद्रस्यापि संस्कारसम्भवादित्यतः
प्रवृत्तं ‘तदभावाभिलापात्’ इति सूत्रखण्डं व्याचष्टे—नाग्निरिति ।
‘अभिलापात्’ अभिधानादिति । अस्य सूत्रे अध्याहृतेन ‘न शूद्रस्य
वेदाधिकारो, न वा तदविनाभूतं रथित्वम्’ इति साध्येनान्वयः । ‘अ-
ग्निः’ श्रौतः स्मार्तश्च । ‘यज्ञः’ अग्निहोत्रादिः, दैवपित्र्यादियज्ञो वा ।
‘क्रिया’ सन्ध्यावन्दनादिरूपा, उत्तरक्रिया वा । संस्कार उपनयना-
दिः । ‘व्रतानि’ कृच्छ्रचान्द्रायणादीनि ॥
(१०) नन्वेवं संस्काराभावेन वेदानधिकारश्चेदुत्तमस्त्रीणामपि त-
त्प्रसङ्गः । संस्काराभावेऽपि तासामधिकारे शूद्रस्यापि तत्प्राप्तिरित्य-
त आह—उत्तमैति ॥ तुशब्दो वेदद्रष्टृत्वाख्यविशेषद्योतकः। ‘संस्कारा-
भावेनाभावः’ इत्याकृष्यते। अधिकारस्येति शेषः । उत्तमानां स्त्रिय इति
विग्रहः, कर्मधारयो वा । तथा च शची यमी-ऊर्वश्याद्युत्तमस्त्रीणां शू-
द्रवन्न संस्काराभावेन वेदविद्याधिकारस्याभावो वक्तव्यः। कुतः? ‘सप-
त्नीं मे पराधम’ (मंत्रप्रश्न.१-१६.) इत्यादिविद्यासु तासां तद्दृष्टत्वेन अ-
धिकारदर्शनादिति योजना । अत्र ‘सपत्नीम्’ इति प्रतीकग्रहणेन ‘स-
पत्नी मे पराधम’’ पतिं मे केवलं कुरु, उत्तराऽहममुत्तरेदुत्तर उत्तरा-
भ्यः’ इति समग्रवाक्या गृह्यते। शचीवाक्यमिदम् । हे भगवन् ‘मे
सपत्नीं’ मदन्यां मत्पतिपाणिगृहीतीं ‘पराधम’ पराणुद् । मम पतिं
‘केवलं’ मय्येवासक्तं कुरु । ‘अहमुत्तराभ्यः’ सौन्दर्येणोत्कृष्टाभ्यः
मदन्तराभ्यो वा स्त्रीभ्यः ‘उत्तरा’ उत्कृष्टा सती ‘उत्तरेत्’ प्रियोत्त-
मैव ‘उत्तरे’ सपत्नीक्लेशादुत्तरेयमिति धुल्यर्थः । आदिपदेन ‘उदतीं
पश्यवः सोम एकेभ्यः पवते, ( ) उद्वसौ सूर्यो अगात्’
(ऋ.१०-१५९-१०) इत्यादि देवमातृयमीपौलोम्यादिदृष्टानां ग्रहणम् ॥
(११) तर्हि संस्काराभावहेतोरुत्तमस्त्रीषु व्यभिचारस्स्यादित्यत
आह—संस्कारेति ॥ अभावो वेदाधिकारस्य । तुशब्दः पूर्वोक्तन्याय-