पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 366, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९, सू - ३५. ] दीपिकासहितम्. ३१९
‘ अयमश्वतरी रथः ’ इति चित्ररथसम्बन्धित्वेन लि
ङ्गेन पौत्रायणस्य क्षत्रियत्वावगतेश्च ।
( ६ ) रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयते ।
इति ब्राह्मे ।
चित्रपदं तु स्वरूपकथनार्थम् । यद्वा — अपूर्वरथयोगेन क्षत्रियत्वस
म्भावनार्थं तत्पदम् । अथवा यदां रथित्वेनैव क्षत्रियत्वस्य निश्चयः,
तदा सुतरां चित्ररथित्वेनेति सूचनार्थं तत्पदम् । यद्यपि ‘ अयमश्व
तरीरथः ’ इत्यत्र चित्ररथमात्रश्रवणेऽपि न तत्सम्बन्धोऽस्य श्रूयते ।
तथापि तत्पूर्ववाक्ये ‘ हारेत्वा तवैव ’ इति षष्ठ्या इत्वाशब्दार्थरथस
म्बन्धो गम्यत इति तस्याश्च रथसम्बन्धे श्रुतिरूपत्वात् युक्तमुक्तम् ।
चित्रो रथो यस्येति चित्ररथस्तस्य भावः चैत्ररथस्तेनेति व्याख्या
नं तु भावेऽण् प्रत्ययस्य कल्प्यत्वात् श्रुतिभाष्यविरुद्धत्वाच्च अयुक्तम् ।
न च चैत्ररथेनेति सम्बन्धोक्तिमात्रेण कथमन्यदीयत्वशङ्कानिरास इ
ति वाच्यम् । स्वतः प्राप्ततदीयत्वे बाधकाभावे तदीयत्वस्यैव स्वाभा
विकत्वसम्भवे नैमित्तिकग्रहणायोगात् । ‘ स्वत्वाभावे धनायोगात् ’
इत्यादिन्यायप्राप्तत्वात् । रथेन लिङ्गादित्यनयोस्सामानाधिकरण्याय
लिङ्गादिति पञ्चमीं व्यत्ययेन व्याचष्टे—लिङ्गेनेति । पौत्रायणस्येत्ये
तत् अस्येत्यनुवृत्तपदस्य अर्थकथनम् । क्षत्रियत्वावगतेरित्यस्य शु
चाऽऽद्रवणादेवाऽस्य शूद्रत्वं न तु रूढ्येति पूर्वेणान्वयः । चशब्दो लि
ङ्गेनचेति सम्बध्यते । तेन ‘ बहुदायी ’ इत्यादिवाक्यशेषोक्तं लिङ्गं
समुच्चीयते । लिङ्गस्य श्रुतितश्चरमत्वेन अनेकत्वेन च प्राबल्य सूचना
य वा चशब्दः । एवं सूत्रेऽपि चशब्दो भिन्नक्रमः उक्तप्रयोजनकश्च ।
एवं च रूढेरेव प्राबल्येऽप्यत्र श्रुतानेकलङ्गरूपबाधकात् शूद्रशब्दस्य
योगवृत्त्यङ्गीकार एव युक्त इति भावः । ‘ गर्दभादश्वायां जाता अश्व
तर्यः ’ इति तत्त्वप्रदीपे । ‘ गर्दभीषु अश्वैर्जाता अश्वतर्यः ’ इति व्यास
तीर्थीये । तद्युक्तो रथः अश्वतरीरथः तवदक्षिणात्वेन वर्तते इत्यर्थः ।
रैक्वं प्रति पौत्रायणवाक्यमेतत् ॥
( ६ ) ननु श्रुतावश्वतरीरथशब्दप्रयोगात् सूत्रेऽपि तथैव प्रयोक्त
व्ये कथं सूत्रकृत् चित्ररथशब्दं प्रयुङ्क्तेत्याशङ्क्य उभयोरर्थैक्यान्न वि
संवाद इत्याशयेन तन्नाभिधानमाह—रथ इति ॥ तुशब्दो विशेषार्थो
ऽवधारणे वा । अश्वतरीयुक्त एवेति सम्बध्यते । अत्र रथ इति वा