पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 364, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. सू - ३४. ] दीपिकासहितम्. ३१७
( ३ ) ' कम्वर एनमेतत्सन्तम् ' ( छा. ४-१-३. ) इत्यनादर
श्रवणात् ।
( ४ ) ' स ह संजिहान एव क्षत्तारमुवाच ' ( छा. ४-१-५. )
( ३ ) कस्मान्निमित्तादस्य शोक इत्यस्योत्तरतया प्रवृत्तंशुगस्य त
दनादरश्रवणादितिसूत्रखण्डं व्याचष्टे—कम्वरइति ॥ कं उ अरे इति प
दच्छेदः । ' अरे ' हंसएतद्वचनंकमेनमुद्दिश्यात्थ ' सन्तं ' निर्दुष्टं ' स
युग्वानं ' सशकटं रैकमित्येवेत्यर्थः । उ इतिनिपातः , अस्यनिन्दार्थः ।
अस्मिन् राज्ञि वक्तुमननुरूपमिदं , एवं वक्तुं रैक एव योग्य इत्यर्थः ।
'एतत्सन्तं' निन्द्यं सन्तमात्थेत्यर्थः तत्त्वप्रदीपे अभिहितः । 'एतत्सन्तं'
अत्र सन्तमिति वा । इत्यनादर श्रवणादिति । अनादरो निन्दा । तथा
च इत्येवंरूपस्य हंसकृतानादरबोधकवाक्यस्य हंसात् स्वानादरवाक्य
स्य वा श्रवणादित्यर्थः: श्रवणादित्यनन्तरं प्राप्तयेतिशेषः । अस्य शुचे
त्यनेनान्वयः ॥
( ४ ) ननु श्रुतानादरस्यापि राज्ञः कुतः शोकोत्पत्तिः ज्ञायते । न
च प्रत्यक्षात्तन्निश्चयः । अनादरश्रवणरूपपरबुद्धेरप्रत्यक्षत्वेन ततः शो
कोत्पत्तेरप्रत्यक्षत्वात् । न च कारणानुमानात् कार्यानुमितिः । कारण
स्य कार्याविनाभावाभावादित्यतः प्रवृत्तं ' सूच्यते हि ' इति सूत्रशेषं
व्याचष्टे—सहेति ॥ हेत्याश्चर्ये । ' सः ' श्रुतानादरः पौत्रायणः ' सञ्जि
हान एव ' शयनीयादुत्तिष्ठन्नेव ' क्षत्तारं ' सारथिं प्रति रैक्वगवेषणा
योवाचेति श्रुत्यर्थः । इति सूच्यते हीति । इत्येतद्वाक्यार्थान्यथानुपप
त्त्या ज्ञातेन रैक्वे व्यासक्तमनस्कत्वेन कार्येण तत्कारणं शुगस्य ' सूच्य
ते ' ज्ञायत इत्यर्थः । कारणस्य कार्याविनाभावाभावेऽपि कार्यस्य का
रणाविनाभावस्यावश्यं भावादिति भावः । अस्य तदनादरस्य श्रव
णात् प्राप्तया शुचाऽऽद्रवणमेवेति पूर्वेणान्वयः । शोकेनाद्रवणाख्यानि
मित्तपरिज्ञानं च रैक्वमुनेः सार्वज्ञ्यादुपपद्यते । तदुक्तं छान्दोग्य
भाष्ये—
राजा पौत्रायणः शोकाच्छूद्रेति मुनिनोदितः ।
प्राणविद्यामवाप्यास्मात्परं धर्ममवाप्तवान् ॥ इति ॥
' शोकात् ' शोकेनाऽऽद्रवणादित्यर्थः । अथवा—शोकशब्दोपप
दात् आङ्पूर्वकात् ' अतसातत्यगमने ' इत्यस्मात् क्विपि रूपमेतत्
तथात्वे यत इति शेषः । ननु सूत्रे तद्द्रवणादित्येतावता पूर्त्तौ आङ्प्रश्ले