सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 362, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 362

[ अधि - ९. सू - ३४. ] दीपिकासाहितम्. ३१५
हारेत्वा शूद्र' ( छा. ४-२-३. ) इति पौत्रायणोक्तेर
धिकार इति ।
शूद्रस्य द्विजातिभ्यः 'अविशेषात्' विशेषाभावात् । ननु न मनुष्य
त्वं वेदविद्याधिकारोपयोगि, किन्तु विशिष्टबुद्ध्यादिमत्त्वमेवेत्यतोऽप्या
ह—अविशेषादिति । शूद्रस्य विशिष्टबुद्ध्यादिमत्त्वेऽपि अन्येभ्यः 'अ
विशेषात्' विशेषाभावादित्यर्थः । एवमविशेषाख्ययुक्तिमभिधाय शू
द्रस्य वेदविद्याधिकारादर्शनात्, अनधिकार इत्यतो लिङ्गदर्शनमाह-
पौत्रायणोक्तेरिति ॥ छान्दोग्ये पौत्रायणस्य वैदिकसंवर्गविद्याध्ययनो
क्तेर्दर्शनादित्यर्थः । ननु पौत्रायणाख्य पुरुषस्य शूद्रत्वमेव कुत इत्य
तः तज्ज्ञापकमाह—अहहारे त्वा शूद्रेति । पौत्रायणोक्तेरिति । पौत्रा
यणं प्रति रैक्वोक्तेस्तत्कर्तृकसम्बोधनादेवेत्यर्थः । नन्वधिकाराभावेऽ
पि पौत्रायणो वेदविद्यां विचारयामासेति किं न स्यादित्यतोऽप्याह-
पौत्रायणोक्तेरिति । पौत्रायणं प्रति रैक्वेण निस्पृहेण मुनिना संवर्गवि
द्योपदेशादित्यर्थः । अनधिकारिणं प्रति मुनेरुपदेशासम्भवात् । पौत्रा
यणस्य अर्थाच्छ्रुतावधिकारोक्तेश्चेति वा योजना । अधिकार इत्यन
न्तरमतो विरोध इत्यनुकृष्यते । तस्योक्त इत्यनेनान्वयः । अनेनोक्त
न्यायेन उक्तार्थे श्रुत्यादिप्रमाणविरोधाक्षेपात् पूर्वेणास्याक्षेपिकी सङ्ग
तिः, वेदविद्याधिकाराख्यो विषयः, सयुक्तिकपूर्वपक्षश्च दर्शितो भ
वति ॥
छान्दोग्ये चतुर्थाध्याये संवर्गप्रकरणे हीत्थमाख्यायिका—पौत्रा
यणो नाम राजा प्रासादाग्रे निशायां शयानोऽभूत् । तदा प्रासादोप
रि हंसपक्षिणोऽगमन् । उपरिपततां परस्परं वार्तां कुर्वतां तेषां मध्ये
द्वावग्रगामिनावास्ताम् । तत्रैक एकमुवाच । किमिति ? अरे पौत्राय
णीयं तेजस्त्वं मागमः । तत्सम्बन्धे तदीयं तेजस्त्वां दहेदिति । एव
मुक्तो परो हंसः कमित्याक्षेपवचनेन राजानमनादृत्य रैक्वमुनिमेव
प्रशशंस । तच्छ्रुत्वा परितप्तमना राजा तल्पादुत्थितस्त्वरया स्वसार
थिमाहूय रैक्वगवेषणायादिदेश । स तत्र तत्र रैक्वमन्विष्यन्
नाविदमिति प्रथममागतः। पुनस्तल्लक्षणोक्तिपूर्वकं राज्ञा तन्मार्गणाया
दिष्टः पुनरन्विष्य क्वचित्प्रदेशे रैक्वमवलोक्य पुना राजानं प्रत्येत्या
ह—रैक्वमविदमिति यथावृत्तमवदत् । तदा राजा स्वसारथिवच
नेन रैक्वमुनिस्थानं निश्चित्य तस्मात्तत्त्वं विवदिषुर्गुरुदक्षिणां गृही