सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 360, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 360

[ अधि - ८. सू - ३३. ] दीपिकासहितम्. ३१३
( २० ) यावत्सेवापरे तत्त्वे तावत्सुखविशेषता ।
सम्भवाच्च प्रकाशस्य परमेकमृते हरिम् ॥
तेषां सामर्थ्ययोगाच्च देवानाम्प्युपासनम् ॥
सर्वं विधीयते नित्यं सर्वयज्ञादिकर्म च ।
इति स्कान्दे ।
( २१ ) उक्तफलाधिकारमात्रं जैमिनिमतमतो न तन्मत
विरोधः ।
( २० ) ननु तत्तद्विद्योक्तोपासनकर्मकरणाभ्यां तत्तद्विद्योक्तफलाद्
न्यदपि फलं प्रकाशविशेषश्च देवानां भवतीत्येतत् कुतो ज्ञायते इत्या-
शङ्कां परिहर्तुमुक्तार्थे हिशब्दसूचितां स्मृतिं दर्शयति—यावदिति ॥
क्रियत इति शेषः । स्वार्थे तल् । भावभवित्रोरभेदविवक्षया वा । सि-
द्ध्यत्यस्येति शेषः । चो हेतुसमुच्चये । यद्वा—आद्यश्चः प्रकाशस्य चे-
ति सम्बध्यते । फलसमुच्चायकश्चायम्, असम्भवसमुच्चये च । सम्भ-
वादित्यावर्तते । तथा च ‘परे तत्त्वे’ परमात्मस्वरूपे ‘असौ वा आ-
दित्यः’ ( छां. ३-१-१० ) इत्यादिनोक्ते तद्विषये ‘देवानां’ देवैर्वस्वा-
दिभिः ‘यावत्’ यावदधिकं ‘सेवा’ ‘एषां सेवा’ इत्युक्ता श्रवणादिरूपो-
पासना क्रियते ‘तावत्’ तावदधिकं तेषां ‘सुखविशेषता’ स्वर्गापवर्गा-
दिसुखेऽतिशयः स्वस्वयोग्यो ज्ञानमात्रेण साध्यः सिद्ध्यति । यतोऽतः
‘परं’ स्वतन्त्रं हरिमेकमृतेऽन्येषां ‘प्रकाशस्यासम्भवात्’ निरुपचरित-
सार्वज्ञ्याभावात् । अत एव विद्याविचारेण साध्यस्य प्रकाशस्य ज्ञानवि-
शेषस्य सम्भवात्, अत एवार्थित्वस्य सम्भवात्तेषां देवानां ‘सामर्थ्य-
योगात्’ सामर्थ्यसम्भवाच्च विद्वत्तासम्भवाच्चापि प्राप्तपदानाम्पि ‘दे-
वानां’ देवैः ‘सर्वमुपासनं’ सर्वविद्योक्तोपासनं सर्वयज्ञादिकर्म च
‘नित्यं’ नियमेन ‘विधीयते’ श्रुतिषु कर्तव्यत्वेन बोध्यत इति योज-
ना । चः समुच्चये । अप्रकाशस्येति पाठे निरुपचरितसार्वज्ञ्याभावस्ये-
त्यर्थः । तदा प्रकाशस्य चशब्देन ग्रहणम् । सम्भवादित्यस्य सिद्ध-
त्वात् सत्त्वादित्यर्थद्वयम् । पाठद्वयेऽप्यन्येषामिति शेषः । एकशब्दो
ऽवधारणार्थो विरिञ्चस्यापि वर्ज्यत्वनिवारकः स्कान्दे उक्तमिति
शेषः । अतः फलविशेषभावादस्ति हि प्रकाशविशेष इत्यनयोर्नासि-
द्धिरिति वाक्यशेषः ॥
( २१ ) नन्वस्त्वेवमसम्भवादित्युक्तयुक्तिपराभवः । तथापि देवा
४०