पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 353, कुल 1267 में से
संदर्भ में पढ़ें३०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
अतीतानागतानां देवानां समाननामरूपत्वात्प्राप्तप-
दानां मुक्त्याऽवृत्तावप्यविरोधः ।
( १५ ) 'यथा पूर्वम्' (महाना.१-३८.) इति दर्शनात् ।
( १६ ) अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
भूतदेवानित्यत्वहेतुकविरोधाभावेऽपि नामरूपादिधर्मवैचित्र्यकृतवि-
रोधप्राप्तेः, वाचकवेदस्य प्रतिकल्पं पाठभेदाभावेनैकविधत्वात्, अन्य-
था नित्यत्वव्याघातात् । वाच्यदेवानां च नानाविधनामरूपवत्त्वादित्या-
शङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—समानेति ॥ अत्रातीतपदं प्रा-
चीनपरम् । अनागतपदं च तदन्यभविष्यद्वर्तमानपरम् । धर्मिप्रतियो-
ग्युभयसमर्पकमेतत् । नाम इन्द्रादि, रूपं आकृतिः । सूत्रानुसारादत्रा-
पि चशब्दः संयोज्यः । समानधर्मकर्मवत्त्वाच्चेति तदर्थः । स्वपदेष्वि-
ति शेषः । मुक्त्याऽवृत्तावपीत्युक्तिः पूर्वपक्ष्याशङ्कितविरोधे हेतुसूचना-
र्था । यद्यपितथाऽपीत्यर्थेऽपिशब्दः आवर्तते । शब्द इत्यस्ति । तथा चे-
त्थं योजना—'प्राप्तपदानां' प्राचीनानां देवानां 'मुक्त्या' प्राप्तमुक्ति-
त्वेन कारणेन पुनस्तेषामेव स्वपदेषु 'अवृत्तावपि' असत्त्वेऽपि तद्-
न्येषां तत्र सत्त्वेऽपि च 'अविरोधः' न तद्वाचके एकविधेऽपि शब्दे
वेदेऽप्रामाण्याख्यो विरोधः । कुतः ? वाच्यानामप्यतीतानागतानां दे-
वानां परस्परं 'समाननामरूपत्वात्' समाने एकविधे नामरूपे येषां
ते तथोक्ताः, तेषां भावस्तत्त्वं तस्मादिति । चन्द्रिकायां तु—सूत्रे भा-
ष्ये च तत्त्वप्रदीपानुसारादावृत्ताविति विच्छेदं भाष्ये मुक्त्यावृत्तावि-
त्यस्यैकपदं चाश्रित्य एकस्य पदप्राप्तावन्यस्य मुक्तिः, पुनस्तस्य मु-
क्तौ पुनरन्यस्य पदप्राप्तिरिति क्रमेण मुक्तेरावृत्तावपीति वा, स्वस्व-
पदस्यावृत्तावपीति वेति टीकामुक्तप्रकारद्वयेनाप्यावृत्तावित्यंशो व्या-
ख्यातः ॥
( १५ ) ननु सर्वदेवानां समाननामरूपत्वे प्रमाणाभावादसिद्धो हे-
तुरित्यतः प्राप्तं दर्शनादित्यंशं व्याख्याति—यथेति ॥ 'धाता यथापूर्व-
म्' इति श्रुतेरित्यर्थः ॥
( १६ ) नन्वेतच्छ्रुतेस्तत्तत्स्वरूपकल्पनानियमपरत्वमपि सम्भवती-
ति नानया समाननामरूपत्वनिश्चयो भवति । किं च देवप्रवाहस्य नि-
त्यत्वे तेषां समाननामरूपत्वे वा न तद्वाचित्वेन नित्यवेदप्रामाण्योपप-
त्तिः, तद्वाचित्वस्यैवासम्भवात् । न ह्यपौरुषेयस्य वेदस्यैतावत्कालमयं