पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 351, कुल 1267 में से
संदर्भ में पढ़ें( १२ ) यथेदानीं तथोपर्यपि देवा भविष्यन्तीतीतरेषामनु-
मानाच्च ॥ २८ ॥
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥
इत्यादिरूपात् 'महतो' भारताचार्याणां 'प्रत्यक्षात्' प्रत्यक्षव-
चनादित्यर्थः । अस्मिन् पक्षे 'प्रत्यक्षात्' निश्चितात्प्रत्यक्षादित्य-
न्वयः ॥
( १२ ) नन्वयोगिनां श्रुतिप्रत्यक्षयोरविश्वासेन तेषां देवप्रभवनिश्च-
याभाव इत्यतः प्राप्तमनुमानेत्यंशं व्याचष्टे-यथेति । इदानीन्तनकाले
यथा देवासन्ति तथोपरिभाविकालेऽपि देवा भविष्यन्तीतीतरेषां म-
हद्भ्योऽन्येषामयोगिनामनुमानादित्यर्थः । अस्यापि प्रभवनियमादित्यने-
नान्वयः । चशब्दः प्रभवनियमे, शब्दप्रत्यक्षानुमानाख्यप्रमाणत्रयसमु-
च्चये वक्ष्यमाणयुक्त्यन्तरसमुच्चये च । अनुमानाकारस्तु—उपरितन-
कालो देववान् अप्रलयकालत्वात् इदानीन्तनकालवदिति । अनेन—
देवानामधिकारसिद्ध्यर्थं यद्याद्यन्तवत्त्वमभ्युपगम्यते, तर्हि पूर्वसूत्रे
यद्वलात्पूर्वपूर्वदेवताप्रवाहस्यानादित्वमुक्तं, तस्मिन् 'शब्दे' 'वाचा
विरूप नित्यया' इत्यादिश्रुतौ नित्यतया सिद्धे वेदे कर्मणि चोत्तरकल्पे
वाच्योद्देश्यहीनत्वरूपाप्रामाण्याख्यो विरोधः स्यादिति चेत्-न, कुतः?
'प्रभवात्' देवानां सर्वकल्पेषु प्रभवनियमान्नियमेनोपपत्तेः । तेषां प्रवाह-
तो नित्यत्वादिति यावत्। न चोत्पादकाभावः। 'अतो' विष्णोरेव प्रभ-
वात्। न चासिद्धिः। 'अतो' 'धाता यथापूर्वम्' (महाना. १-३८.) इतिप्र-
कृताच्छब्दाच्छ्रुतेः 'यथा' इति स्पष्टश्रुतेश्च । तथा महतामतीतानागत-
कालविदां योगिनां 'प्रत्यक्षात्' 'यथर्तुषु' इति प्रत्यक्षवचनात् ज्ञापि-
तात् महतामतीतानागतकालयोर्देवप्रभवनियमग्राहिप्रत्यक्षात् । तथा
महद्भ्यः इतरेषामयोगिनामनुमानाच्च तत्सिद्धेरिति सूत्रार्थ उक्तो भ-
वति । 'यथैव' इति स्मृत्यर्थस्तु—यथा पूर्वयुगात्यये कल्पात्यये वा
पुनर्युगकल्पान्तरोत्पत्तिरिति काले प्रभवनियमः, तथा सुरादेर्देवोपदे-
ष्टादेः पूर्वपूर्वकल्पात्यये पुनरन्यभावनियमोऽस्ति । यथोक्तम्—
स हि विश्वसृजो विभुश्शम्भुपुरन्दरसूर्यमुखानपरानपरान् ।
सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणतान्सुधिया ॥
इति । प्रतिकल्पमिति शेषः । तस्मात्पूर्वकल्प इवोत्तरकल्पेऽपि पूर्वक-
ल्पसदृशसर्वोत्पत्तिनियमादेव 'तस्मात्' विष्णोस्सकाशादेतद्विश्वं