पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 27, कुल 1267 में से
संदर्भ में पढ़ें( २६ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका.
अधि०। सूत्र०। विषयाः ।
२ २ यः परमात्मानं प्राप्य भोगं अनुभवति इति उक्तः सः
मुक्त एव इति निरूपणम् ॥
३ ३ मुक्तप्राप्यं परं ज्योतिः परमात्मैव इति निरूपणम् ॥
४ ४ परमात्मनि प्रविष्टः जीवः परमात्मभुक्तभोगानेव अ-
नुभवति इति निरूपणम् ॥
५ ५-७ परमात्मनि प्रविष्टः मुक्तजीवः स्वस्वरूपदेहेन परमा-
त्मदेहेनापि भोगाननुभवति इति निरूपणम् ॥
६ ८ मुक्तः स्वसङ्कल्पमात्रेण भोगाननुभवति इति निरूप-
णम् ॥
७ ९ मुक्तानां स्वाचार्याद्विज्ञानप्रदातृभ्यः अन्ये अधिपत-
यः न सन्ति इति निरूपणम् ॥
८ १०-१६ मुक्ताः शुद्धसत्त्वमयदेहेन चिद्रूपदेहेन वा भोगान-
नुभवन्ति इति निरूपणम् ॥
९ १७-२० मुक्ताः जगत्सृष्ट्यादिव्यतिरिक्तान् कामाननुभवन्ति
इति निरूपणम् ॥
१० २१-२२ मुक्तस्य आनन्दे वृद्धिह्रासौ न स्तः भगवदुपासना तु
सुखरूपैव न साधनभूता इति निरूपणम् ॥
११ २३ मुक्तस्य पुनरावृत्तिर्नास्ति इति निरूपणम् ॥
—:❖:—