पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 236, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - १३. ] दीपिकासहितम्. १८९
( ४ ) अतो ब्रवीति—
सू—ॐ ॥ अन्तर उपपत्तेः ॥ ॐ ॥ १३ ॥
चक्षुरन्तस्थो विष्णुरेव ।
( ५ ) ‘त्रिपादस्यामृतं दिवि’ ( ऋ. १०-९०-३. ) इत्यादि-
ना तस्यैव अमृतत्वादुपपत्तेः
परोक्षज्ञानिनि ज्ञानोत्तरं पापं कर्म न श्लिष्यते इत्यर्थः । य एषोऽक्षिण्य-
न्तःपुरुषो दृश्यते दिव्यदृष्ट्या एष आत्मा वामनाख्य इति होवाच उ-
पकोसलं प्रति सत्यकामः । ‘एतदमृतं’ स्वतो मृतिशून्यं नित्यमुक्तं,
‘एतदभयं’ स्वतो भयशून्यं ‘एतद्ब्रह्म’ गुणपूर्णमिति सिद्धान्तरीत्या
श्रुत्यर्थः । पूर्वपक्षी त्वेतत्प्रकरणमग्निपरं मन्यते ॥
( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इति सङ्ग-
तिसम्भवात् शङ्कासद्भावाच्च । अतः तत्परिहाराय उत्तरमब्रवीत् सू-
त्रकार इत्यर्थः । चक्षुरन्तःस्थ इत्यनेन अन्तर इत्यंशो विष्णुरेवेत्यनेन
अनुवृत्तस्तत्त्वित्यंशश्च व्याख्यातः । यद्यपि अनुव्याख्याने शब्दवैयर्थ्य-
परिहाराय अन्तस्स्थित्वा रमणकृदिति व्याख्यानात् अत्रापि तदनु-
सारेण रमणकृच्चेति वक्तव्यम् । तथाऽप्यत्र रमणक्रियाबोधकात्मशब्द-
स्य हेतुककरणाच्च तदर्थस्य प्रतिज्ञायामन्वयः संभवतीति अन्तस्थ इ-
त्येवोक्तम् । तत्रत्वात्मशब्दार्थस्य हेतुत्वाविवक्षणात्साध्यान्वयो न यु-
ज्यते इति रमणकृदित्यप्युक्तम् । वस्तुतस्तु—सूत्रे अन्तरित्यनुक्त्वा
अन्तर इत्यधिकोक्तेः सार्थक्याय अत्रापि रमणकृच्चेत्यपि उपलक्षण-
या वाच्यम् । अवयवार्थविवक्षाऽविवक्षाभ्यां आत्मशब्दस्य साध्यस-
मर्पकताहेतुत्वं च युज्यते इति ध्येयम् ॥
( ५ ) उपपत्तेरित्यस्यानेकलिङ्गपरतया लिङ्गानां निरवकाशत्वो-
क्तिपरतया च व्याचष्टे—त्रिपादिति ॥ इत्यादिना वाक्येन उक्तस्ये-
ति शेषः । तस्येति विपरिणतं पदमावर्तते । अमृतत्वादित्येतदिहापि
षष्ठ्यन्ततया बुद्ध्या विविक्तं सम्बध्यते । प्रथमेनादिपदेन ‘अभयं
तितीर्षतां पारम्’ ( क.उ.३-२. ) ‘अमृतैवैषा देवता’ (
) ‘आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ ( बृ.६-४-२५. ) इत्यादि-
वाक्यं द्वितीयेन अभयत्वादिकं गृह्यते । तथा च—त्रिपादित्यादिना
श्रुत्यन्तरवाक्येन तस्य विष्णोरेव उक्तस्य ‘एतदमृतम्’ इति वाक्ये
ऽन्तःस्थनिष्ठत्वेनोक्तस्यामृतत्वादुपपत्तेर्लिङ्गस्य तस्मिन् विष्णावेव उ