पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 234, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - १३. ] दीपिकासहितम्. १८७
( ३ ) अतः 'तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमे
नन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । अक्षिस्थत्वं वि
षयः । किमग्नेर्विष्णोर्वेति सन्देहः । अग्नीनामेव अक्षिस्थत्वमिति पूर्वः
पक्षः । अत्र आदित्यस्थत्वरूपयुक्तिश्चोक्ता भवति । अत्र 'य एष आ
दित्ये पुरुषः' 'य एषोऽन्तरक्षिणि पुरुषः' इत्यनयोर्वाक्ययोः 'आदि
त्यश्चक्षुर्भूत्वा' इति वाक्यद्वारा एकार्थत्वमुपपाद्य तन्मुखेन 'य एष
आदित्ये' इति वाक्येन 'यश्चासावादित्ये' इति वाक्यस्य सङ्गतिं स
म्पाद्य तद्द्वाराऽर्थाक्षिप्ततदर्थार्थक 'य एषोऽन्तरक्षिणि' इति वाक्यस्या
पि तेन सङ्गतिरित्येवं वक्रसङ्गत्यैतदधिकरणारम्भः आदित्यस्थत्वलि
ङ्गस्यापि समन्वयसिद्धयर्थे । अन्यथा 'नेतरोऽनुपपत्तेः' इत्यादौ वि
ष्णुज्ञानान्मोक्ष इत्युक्तम्, स मोक्षः 'तद्यथा' इति वाक्येन 'य एषो
न्तरक्षिणि' इत्युक्ताक्षिस्थज्ञानात्प्रतीयत इति वक्ष्यमाणऋजुसङ्गत्यैव
अधिकरणमारम्भणीयं स्यादिति ध्येयम् ॥
( ३ ) न केवलमक्षिस्थत्वसिद्धावग्नेरानन्दमयत्वप्राप्तिः । किन्तु-
यत्पूर्वं 'नेतरः' इत्यादौ विष्णुज्ञानान्मोक्ष इत्युक्तं, तदपि बाधितं स्या
दित्यत आह—अत इति ॥ 'अग्निज्ञानादित्येतत्' 'सर्वपापाश्लेषात्'
इत्यनेनैव 'मोक्षः' इत्यनेनापि सम्बध्यते । तथा च यतोऽग्निरक्षिस्थो
ऽतस्तज्ज्ञानादेव मोक्षोऽपि भवेत् न विष्णुज्ञानात् । कुत एतत्? अक्षि
स्थाग्निज्ञानात्सर्वपापाश्लेषात् । न च तस्यासिद्धिः । 'तद्यथा' इति
तदर्थवादेऽग्निज्ञानादेव सर्वपापाश्लेषोक्तेः । न च तज्ज्ञानात्सर्वपापा
श्लेषमात्रेण कथं मोक्ष इति वाच्यम् । यतस्तज्ज्ञानान्मोक्षं विना सर्व
पापाश्लेषासम्भवेन तदन्यथाऽनुपपत्त्यैव मोक्षस्याप्युपपत्तिरिति योज
ना । एवं च पूर्वपक्षे अग्नेरक्षिस्थत्वेन 'तद्यथा' इत्यक्षिस्थस्योक्तं मु
क्तिहेतुज्ञानविषयत्वमपि तस्यैव प्राप्नोतीति 'नेतरः' इत्युक्तमयुक्त
मिति भावः । अनेन ऋजुसङ्गतिरप्यस्य दर्शिता भवति । छान्दोग्ये
हीत्थमाख्यायिका—(छा. ४-१०-५०) कमलायनस्यापत्यं कामलाय
नः नामतः उपकोसलः सत्यकामाख्ये गुरौ ब्रह्मचर्यमुद्दिश्योवास । स
आचार्यस्याग्नीन् गार्हपत्यादीन् द्वादशवर्षपर्यन्तं पर्यचारीत् । सत्यका
मस्त्वन्तेवासिनः स्वाध्यायं ग्राहयन् एनमेकमेव नाध्यापयत् । पुनः
पुनः स्वजाययोक्तोऽपि अनुक्त्वैव विद्यां प्रवासाय प्रातिष्ठत । तदोप
कोसलो व्याधिपीडितो विद्याप्राप्तिचिन्तया स्वाचार्यभार्यया अशाने