पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 206, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - २. ] दीपिकासहितम्. १५९
( ५ ) 'तदेव ब्रह्म परमं कवीनाम्' ( महाना. १-६०. )
'परमं यो महद्ब्रह्म'
( ६ ) वासुदेवात्परः को नु ब्रह्मशब्दोदितो भवेत् ।
स हि सर्वगुणैः पूर्णः तदन्ये तूपचारतः ॥
इति । तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥ १ ॥
( ७ ) सू— ॐ ॥ विवक्षितगुणोपपत्तेश्च ॥ ॐ ॥ २ ॥
त्रेत्यनेन सर्वभूतहृद्गतत्वस्यैवाभिप्रेतत्वेनान्यत्र बहिर्नेति प्राप्तशङ्का
निरस्ता भवति ॥
( ५ ) हेत्वंशं व्याचष्टे—तदेवेति ॥ व्याख्यातमेतज्जिज्ञासानये ।
ईश्वरब्रह्मणोरभेदबोधनार्थ प्रवृत्तस्य 'परमं यो महद्ब्रह्म परमं यः प
रायणम्' इति भारतवाक्यस्य यः परमं महद्ब्रह्म यः परमं परायणं
तस्य लोकप्रधानस्य जगन्नाथस्य नाम्नामित्युत्तरवाक्येनान्वयः ॥
( ६ ) वासुदेवादित्यपरा स्मृतिः ॥ 'वासुदेवात्' कृष्णादन्यः
को वा ब्रह्मशब्दमुख्यवाच्यो भवेत्, न कोपि । किन्तु, स एव मुख्य
वाच्यः । कुतः ? 'हि' यस्मात् 'सः' वासुदेवः सर्वगुणैः पूर्णस्तद
न्ये त्वपूर्णाः तस्मात् । तर्हि 'ब्रह्माणि जीवाः सर्वेऽपि' इत्यादि कथ
मित्यत आह—तदन्य इति । वासुदेवान्ये जीवाः 'उपचारतः' अ
मुख्यत एव ब्रह्मशब्दोदिताः, न तु मुख्यत इत्यर्थः । इतीति । वाक्येष्वि
ति शेषः । अनेन सर्वत्रेत्यस्य हेतावप्यन्वयो दर्शितः । तथा च सर्व
तोदाहृतवाक्येषु 'तस्मिन्नेव' विष्णावेव 'प्रसिद्धस्य' रूढत्वेनावग
तस्य 'ब्रह्मशब्दस्योपदेशात्' सर्वगते वस्तुनि श्रवणादित्यर्थः । त
स्मिन्नेवेत्यनेन श्रुतेर्निरवकाशत्वमुक्तं भवति । अनेन 'स यश्चायमश
रीरः प्रज्ञात्मा' (ऐ. आ. ३-२-३.) इत्यादिना 'सर्वेषु भूतेष्वेतमेव ब्रह्मे
त्याचक्षते' (ऐ. आ. ३-२-३.) इति शाखाशेषेण सर्वत्र सर्वेषु भूतेषु अ
न्तर्गततयोच्यमानो नारायण एव न त्वादित्यादिः । कुतः ? 'एतमेव
ब्रह्मेत्याचक्षते' इति सर्वभूतगते वस्तुनि नारायणैकनिष्ठत्वेन श्रुत्या
दिप्रसिद्धब्रह्मशब्दोपदेशाच्छ्रुतेरिति सूत्रार्थ उक्तो भवति ॥
( ७ ) युक्त्यन्तरे